________________
सांख्यनिराकृतिमजनम्]
द्वादशारनयचक्रम् मिभावेन प्रत्यक्षतः सम्बन्ध्येकः ततो द्वितीयस्य स्वस्य स्वामिनो वा तेन सहै [वा]वगतत्वात् अन्यापेक्षत्वाच सम्बन्धस्य शेषसिद्ध्यर्थं स्मृत्यानर्थक्यम् , दृश्यते च स्मृतिबलेन शेषसिद्धिः, तस्मात् स्वत्वादिप्रत्यक्षात् [इति] अयुक्तमुक्तम् , अथान्यथा-अथ मा भूदेष दोष इति स्वस्वामित्वादिभ्योऽन्येन केनचित्प्रकारेण प्रत्यक्षः सम्बन्ध्येकः, तत्सम्बन्धस्मरणात् अनुमानमिति मन्येथाः, तन्न भवति, तस्य प्रकारस्यानुक्तत्वात् 'खस्वाम्यादिभावेन सम्बन्धात्' [ ] इति वचनात् , स्वस्वामिभावेन वा प्रकृतिविकारभावेन वा कार्यकारणभावेन वा । निमित्तनैमित्तिकभावेन वा मात्रामात्रिकभावेन वा वध्यघातकभावेन वा [सहचारिभावेन वा] कश्चिदर्थः कस्यचिदिन्द्रियस्य प्रत्यक्षो भवति, तेभ्योऽतिरिक्तस्यावचनादेतेषामेव वचनादिति ।
एतस्मिन् परोक्तदोषजाते परिहारं ब्रूमः
अत्र ब्रूमः, न किञ्चिदत्र नोक्तम् , उक्तभेदात् सम्बन्धादनुमानम् , तच्च तत्सम्बन्धिप्रत्यक्षात् 'एकस्मात् प्रत्यक्षात्' ( ) इति वचनात् तेनैव प्रकारान्तरेणानुमानावत- 10 रणात् , द्वयोस्तु सम्बन्धिनोविशिष्टयोरुपलब्धसम्बन्ध्यन्यतरप्रत्यक्षोत्तरकालं यत्रायं प्रत्यक्षोऽश्वश्चैत्रो वा तत्रेतरोऽपीति या उपलब्धसहचरसम्बन्धानुसारिणी स्मृतिः किमित्यनर्थिका स्यात् ? अग्न्यपेक्षधूमवत् , एवञ्च कृत्वोक्तं 'कश्चिदर्थः कस्यचिदिन्द्रियस्य प्रत्यक्षः......... अविशिष्टस्याग्नेरस्तित्वं प्रतिपद्यते' ( ) इति ।
(अत्रेति) न किञ्चिदत्र नोक्तम् , वक्तव्यमशेषमुक्तमित्यभिप्रायः, यस्मादुक्तभेदात् सम्बन्धादनु- 15 मानम् , तञ्च तत्सम्बन्धिप्रत्यक्षात् , 'एकस्मात् प्रत्यक्षादि' ( ) ति वचनात् तेनैव प्रकारेणानुमानावतरणात् , तद्व्याचष्टे द्वयोस्तु सम्बन्धिनोरित्यादि यावदग्न्यपेक्षधूमवत्-यथा धूमः प्रत्यक्ष एको बहलवर्तुलो
मेवेति, सम्बन्धप्रत्यक्षे यावदाश्रय प्रत्यक्षस्य कारणत्वात् स्वस्वामिभावादिसम्बन्धेन सम्बन्धिन एकस्य प्रत्यक्षे तदन्येनापि सम्बन्धिना प्रत्यक्षेण भवितव्यमित्येकस्यावगतत्वे सत्यपरोऽप्यवगत एव, अन्यथा सम्बन्धस्यैवाप्रत्यक्षताप्रसङ्गः, एवञ्चापरस्य सिद्धये तत्स्मृतिया कल्प्यते सा व्यर्था, साध्यधर्मिणि सन्तं साधनधर्ममुपलब्धवतः तस्य साधनधर्मस्य साध्यधर्मेण प्रमाणेन प्रतिबन्धनिश्चयबलात् पूर्वमवगत-20 स्याविनाभावस्य स्मरणे सति साध्यमत्रेति प्रतीतिर्भवति, तस्मात् सम्बन्धादेकस्मात् प्रत्यक्षाच्छेषसिद्धिरनुमानमित्ययुक्तमिति भावः । अन्यापेक्षत्वाच्चेति, उभयसम्बन्धिप्रत्यक्षजन्यप्रत्यक्षविषयत्वात् सम्बन्धस्य पुनस्तस्मृतिः शेषसिद्ध्यर्था व्यर्था, शेषस्य प्रागेवावगतत्वादिति भावः । स्मृत्या च शेषसिद्धिरनुभूतेत्याह-दृश्यते चेति । स्वस्वामित्वादिप्रकारेण चैत्राश्वादेरन्यतरस्याप्रत्यक्षत्वेऽपि प्रकारान्तरेण तत्प्रत्यक्षे सति तत्र तत्सम्बन्धस्मरणादन्यतरप्रतिपत्तिर्भविष्यतीत्याशङ्कते-अथान्यथेति। स्वस्वाम्यादिभावेन सम्बन्धात् प्रत्यक्षादेकस्माच्छेषसिद्धिरित्येवोच्यते त्वया, समसम्बन्धव्यतिरिक्तप्रकारो नोपदर्शितस्तस्मात्तथोक्तिरनुक्तिरेवेत्याशयेनोत्तरयतितन्न भवतीति । सप्तविधसम्बन्धानादर्शयति-स्वस्वामिभावेन वेति । मात्रानिमित्तसंयोगिविरोधिसहचारिभिः। स्वखामिवध्यघातायैः सांख्यानां सप्तधाऽनुमा ॥ इत्यपि न्यायवार्तिकतात्पर्यटीकायां सप्तसम्बन्धा दृश्यन्ते मात्रामात्रिकभावः-परिच्छेद्यपरिच्छेदकभावः । तदेतं त्वया सांख्यवादिमतं निराकृतं तत्रास्माभिस्तद्दोषजातं परिहियत इत्याचार्य आह-अत्र ब्रूम इति। व्याकरोति-न किश्चिदिति, तस्य प्रकारस्यानुक्तत्वादिति यदुच्यते त्वया तन्न युक्तम् , सर्वस्य तत्रोक्तत्वादिति भावः। तदेवाह-उक्तभेदादिति। प्रोक्तसप्तप्रकारात् सम्बन्धादनुमानं भवति, तच्चानुमानमेकस्मात् सम्बन्धिनः प्रत्यक्षात् , अनेनैव प्रकारेणानुमानोदयादिति भावः। 30 एतदेव विशदयति-द्वयोस्त्विति। आदौ धूमोऽस्यविनाभाविभिर्बहलवर्तुलादिविशेषैर्विशिष्टः प्रत्यक्षीकृतः पुरोवर्तिनि देशविशेषेऽग्निं
सि.क्ष. छा. डे. प्रत्यक्षतात् । २ सि.क्ष. डे. छा. मात्रमातृकभावेन । ३ सि. क्ष. छा. डे. कश्चिदिः ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org