________________
९१८
न्यायागमानुसारिणीव्याख्यासमेतम्
[ उभयनियमारे
श्च पाण्डुत्वा दिविशेषेणाम्यविनाभाविरूपेण विशिष्टः प्रत्यासन्ने देशेऽग्निं गमयति, विशेषाणामविनाभाविनां गमकत्वात, अश्वस्याभरणमर्दनप्रियत्वादिविशेषाश्चैत्राविनाभाविनः चैत्रं सम्बन्धादेव गमयन्ति तथा चैत्रस्य वा विशेषा आरोहक पोषकतद्गुणरक्तत्वादयश्चाविनाभाविनोऽश्वं गमयन्त्येवेत्युपलब्ध सम्बन्ध्यन्यतरप्रत्यक्षत्वोत्तरकालं यत्रायं प्रत्यक्षोऽश्वश्वत्रो वा तत्रेतरोऽपीति या उपलब्ध[सह ] चर सम्बन्धानुसारिणी स्मृति: 5 सा किमित्यनर्थिका स्यात् - नैवानर्थिकेत्यर्थः किमिव ? अम्यपेक्षधूमवत् - यथाऽग्निजन्यात्मलाभो धूमः प्रोक्तविशेषयुक्तोऽग्नेः सम्बन्धस्मरणात् प्रत्यक्षोऽप्रत्यक्षस्य सम्बन्धिनोऽनुमानायालम्, अग्निर्वा प्रत्यक्षोऽप्रत्यक्षस्य, तत्परिणैमद्भाविभूतदेशकालसम्बन्धी सम्बन्धिनः एकैकस्य प्रत्यक्षत्वात्, 'सम्बन्धादेकस्मात् प्रत्यक्षाच्छेषसिद्धिरनुमानम्' ( ) इति वा पाठात् सम्बन्धिन एव प्रत्यक्षस्य सामानाधिकरण्योक्तेः, एव कृत्वोक्तमिति, अस्यैव लक्षणस्य भाष्यं ज्ञापकमाह - कश्चिदर्थः कस्यचिदिन्द्रियस्य प्रत्यक्ष इत्यादि, 10 सामान्यवाचिना किंवृत्ते [न], यावदग्नेरस्तित्वं प्रतिपद्यत इति, अविशिष्टस्याविशिष्टश्चेति वा पाठः, अविशिष्टस्याप्रत्यक्षस्य अविशिष्टस्य दर्शनकालतुल्यस्यातद्देशवर्तिनो वेति शेषो गतार्थो ग्रन्थः ।
wwww
15
20
25
यत्तु तेनेत्यादि, स्वामिसम्ब[ []न्धत्वात् स्वस्य स्वाम्यपेक्षमेव स्वत्वमित्युत्तरकालं स्मृतेगमयति तद्विशेषाणामग्निप्रतिबद्धत्वेन तद्गमकत्वात् एवं सम्बन्धिनश्चैत्राश्वयोरन्यतरस्याश्वस्य विशेषैः चैत्राविनाभाविभिर्भरणमर्द्दनप्रियत्वादिभिश्चैत्रो गम्यते स्वस्वामिभावसम्बन्धप्रयुक्ताविनाभावादेव, एवमेव चैत्रस्य विशेषा आरोहकत्वपोषकत्वतद्गुणरक्तत्वादयोऽश्वाविनाभाविनस्तस्मादेव सम्बन्धादश्वं गमयन्तीति संयोगस्वस्वामिभावादिसम्बन्धसम्बन्ध्यन्यतरधूमाश्वादिप्रत्यक्षोत्तरकालं समुपलब्धसम्बन्धानुसारिणी या स्मृतिर्यत्रायं चैत्रोऽश्वो वा प्रत्यक्षतो दृष्टस्तत्राश्वश्वत्रो वाऽस्तीति सा निष्फला न भवतीति भावः । दृष्टान्तमादर्शयति - अन्यपेक्षधूमवदिति, प्रोक्तेति । बहलवर्त्तुलोश्च पाण्डुत्वादिविशेषयुक्त इत्यर्थः, सम्बन्ध स्मरणात्-संयोगित्वस्य कार्यकारणभावस्य वा सम्बन्धस्य स्मरणादप्रत्यक्षस्याग्नेरनुमानाय क्षमो धूम इत्यर्थः । यदा चाग्निरेव प्रत्यक्षस्तदा सोऽप्रत्यक्षस्य धूमस्यानुमानायालमियाह-अग्निर्वेति, स्वपरिणामभूतस्य भूतस्य भाविनो वा तद्देशवर्त्तिनो धूमस्य सम्बन्धिनो गमकः, एक सम्बन्धिन एव प्रत्यक्षत्वात्, सम्बन्धादेकस्मात् प्रत्यक्षादित्यत्रैकस्मात् प्रत्यक्षादिति सामानाधिकरण्यात् प्रत्यक्षसम्बन्धिन एवैकस्य प्रतीतेः, न तु सम्बन्धशब्देनैकशब्दस्य प्रत्यक्षशब्दस्य वा सामानाधिकरण्यं प्रतीयत इति भावः । अत्रार्थे भाष्योक्तिमुपन्यस्यतिकश्चिदर्थ इति, कश्चिदर्थं इति सामान्येनोक्तः साध्यं वा साधनं वा ग्रहीतुं शक्यते, अग्निधूमयोर्मध्ये कश्चिदर्थ इत्यर्थः । दर्शनेति । धूमदर्शनकालेऽन्यदेशवर्त्तिनोऽग्नेरस्तित्वं प्रतिपद्यत इति भावः । परमतोपरि बौद्धोक्तदूषणानि निराकरोति यत्तु तेनेति । व्याकरोति - स्वामिसम्बन्धित्वादिति खत्वं खामिसम्बन्ध्येव नान्यसम्बन्धि, अतः स्वत्वप्रत्यक्षात् स्वामित्वमप्य
१ सि.क्ष. छा. डे. अश्वभ्याहरण० । २ सि. क्ष. छा. डे. 'माताबालामग्निर्वा । ३ सि क्ष. छा. डे. परिणामद्भावि० 1
30
2
www
यत्तु तेन प्रत्युच्यते परमतमाशङ्कय लिङ्गग्रहे तुल्यमिति चेदिति तत्तथैव लिङ्गेऽपि, लिङ्गलिङ्गिनोरन्योऽन्यापेक्षत्वात्, अथ तत्र नेष्यते स्वस्वाम्यादिष्वपि मा भूदिति, अत्राहमयेवं ब्रुवे लिङ्गिसम्बन्धित्वात् लिङ्गस्य उत्तरकालं स्मृतेरानर्थक्यं लिङ्गग्रहे हि लिङ्गी गृहीत इति, अथान्यथा ग्रहणं चेत्तन्नोक्तमिति लिङ्गेऽपि तथा, यत्तूच्यते मा संस्था लिङ्गग्रहण तुल्यमिति लिङ्गित्वेऽस्ति विशेषः, न हि लिङ्गं सम्बन्धित्वमात्रेण गृह्यते, किं तर्हि ? अनुमेयदेशस्थं धूमादित्वेन पूर्व गृह्यते, पश्चात्तस्याग्न्यादिभिरविनाभावित्वं स्मर्यते इति सर्वत्र व्यापीति, तदिहापि तुल्यम्, अनुमेयस्थं अश्वत्वेन पूर्वं गृह्यते पश्चात्तस्य चैत्राविनाभावित्वं स्मर्यते न तदेशसम्बन्धीति देशादिस्थानग्निधूमवत् ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org