________________
बौद्धसमाधानभञ्जनम् ]
www.
रानर्थक्यं प्राप्तमित्यत्र तेन अन्यापोहिकेन प्रत्युच्यते परमतमाशंक्य लिङ्गग्रहे तुल्यमिति चेत्-स्यान्मतं स्मृतेरानर्थक्यं स्वस्वाम्यादिसम्बन्धिप्रत्यक्षत्वादित्येत लिङ्गलिङ्गिनोः सम्बन्धाविशेषात् समानं दोषजातमिति, तत्तथैव यद्येष दोषः स्यात् स्वस्वाम्यादित्वे लिङ्गेऽपि स्यादेवायं लिङ्गलिङ्गिनोः अन्योन्यापेक्षत्वात्, अथ तत्र नेष्यते स्वस्वाम्यादिष्वपि मा भूदिति सुष्टुच्यते, अहमप्येवं ब्रुवे, कस्मात् ? लिङ्गिसम्बन्धित्वात् लिङ्गस्येत्यादि तत्तुल्यत्वप्रदर्शनं गतार्थं यावत् लिङ्गी गृहीत इति, अथान्यथा तन्त्रोक्तमिति, अथान्यथात्व - 5 मुद्धट्टयसि[स्व]स्वाम्यादित्वेनाग्रहणेऽन्यथा ग्रहणश्चेत् तन्नोक्तमिति, तथा वयमपि त्वामुद्धट्टयामोऽन्यथा लिङ्गे ग्रहणं स्वस्वाम्यादिष्वन्यथेति चेन्मन्यसे तन्त्रोक्तमिति, अत्र यत्तच्यते त्वया मा संस्था लिङ्गग्रहणतुल्यमिति, लिङ्गत्वेऽस्ति विशेषः, न तस्य सम्बन्धिना ग्रहणात् नहि लिङ्गं सम्बन्धित्वमात्रेण गृह्यते, किं तर्हि ? अनुमेयदेशस्थं धूमादित्वेन पूर्वं गृह्यते पश्चात्तस्याम्यादिभिरविनाभावित्वं स्मर्यते, आदिग्रहणात् शब्दस्थकृतकादित्वेन प्राग्ग्रहणं पश्चादनित्यत्वाविनाभावित्वेन स्मर्यत इति सर्वत्र व्यापीति, अत्रोच्यते तदिहापि तुल्य - 10 मित्यादि, ततुल्यत्वभाव [न] मनुमेयस्थमित्यादि यावन्न तद्देशसम्बन्धीति गतार्थम्, देशादिस्थानेऽग्निधूमवदिति दृष्टान्तः यथाग्निरभवन् धूमो देशादिस्थः प्राग् गृह्यते प्रत्यक्षे [णा ] प्रत्यक्षामेरन्यत्वात्, ततः पश्चादग्निरित्यनुस्मर्यते, तथाश्वः स्वं चैत्रादन्यो गृह्यते प्रामादिस्थः, ततः पश्चात्तत्रस्थः चैत्राविनाभावीति स्मर्यते इहानिरिति धूमसम्बन्ध्यग्निस्मरणवदिति तुल्यमिति ।
wwww mimmu
यत्तूक्तम व्युत्पन्नस्य तद्गतेरविनाभावित्वेन गृहीतस्वरूपस्य लिङ्गादेः कारणत्वम्, ज्ञाप - 15
द्वादशारनयचक्रम्
वगतमेवेति पश्चात् स्वाम्यपेक्षमेव स्वत्त्वमिति यत्स्मर्यते तद्व्यर्थमेवेत्यस्मिन् विषये परेणोक्तं पूर्वपक्षमनूद्यान्यापोहिक उत्तरमाहलिङ्गग्रह इति, परमतमिदम्, तद्व्याख्या - स्यान्मतमिति, यथा स्वस्वामिनोः सम्बन्धित्वादेकस्य प्रत्यक्षत्वेऽपरमपि प्रत्यक्षमेवेति पश्चात्तत्स्मरणं व्यर्थमुच्यते तथैव लिङ्गलिङ्गिनोः सम्बन्धित्वादेकस्य प्रत्यक्षत्वेऽपरमपि प्रत्यक्षमेवेति पश्चात्तत्स्मरणं व्यर्थमेवेति समानं दोषजातमिति भावः । बौद्धस्योत्तरमाह तत्तथैवेति । इष्टापत्तिं करोति, स्वस्वाम्यादित्ववत् लिङ्गलिङ्गिनोरप्यन्योन्यपेक्षत्वेनैष दोषः स्यादेवेति भावः । लिङ्गलिङ्गिनोरेष दोषो यदि नेष्यते खखाम्यादिष्वप्ययं दोषो न स्यादित्याह - अथ तत्रेति । 20 अत्राचार्य आह- अहमपीति । लिङ्गं हि लिङ्गिसम्बन्धि, अतो लिङ्गप्रत्यक्षे लिङ्गी गृहीत एवेति उत्तरकालं लिङ्गिस्मरणं व्यर्थमेवेत्यहमपि ब्रुवे इत्यर्थः । यदि त्वं स्वस्वामिभावादिभ्योऽन्येन केनचित्प्रकारेण स्वत्वस्य प्रत्यक्षता ततः स्मरणादनुमानमिति परेणोक्तं तथाविधप्रकारस्यावचनात्तन्न युक्तमिति निराकरोषि तर्ह्यहमपि लिङ्गेऽन्यथा ग्रहणं स्वस्वाम्यादिष्वन्यथेति तवोत्तरमपि तथाविधप्रकारस्यानुक्तेस्तन्न युक्तमिति प्रतिक्षिपामीत्याह - अथान्यथेति । तत्रान्या पोहिको लिङ्गग्रहणे विशेषमादर्शयति - अत्र यत्तूच्यत इति । विशेषं दर्शयति-लिङ्गत्वेऽस्तीति, लिङ्गं सम्बन्धित्वमात्रेण न गृह्यते प्रथममनुमेयदेशस्थं धूमादित्वेन गृह्यते पश्चालित - 25 सम्बन्धं तद्गतं प्राक् प्रतिपन्नं स्मर्यते एवं कृतकत्वादिरपि शब्दनिष्ठकृतकत्वेन ग्रहणानन्तरं तन्निष्ठानित्यत्वाविनाभावसम्बन्धस्य प्रागनुभूतस्य स्मरणम्, एवं सर्वत्रेति लिङ्गग्रहणे विशेषात् न साम्यमिति भावः । विशेषोऽयं चैत्राश्वादावपि समान इत्युत्तरयति - तदिहापीति । अनुमेयदेशगताश्वत्वेन प्रथमं स्वो गृह्यते पश्चादनुमेयदेशस्थोऽश्वोऽनुस्मर्यते चैत्राविनाभावीति, यथा पूर्वं अग्निभिन्नो धूमः प्रत्यक्षेण गृह्यते ततश्च धूममुपलभ्येहाग्निरिति स्मर्यते तथेति भावः । खखाम्यादिभावेन सम्बन्धात् प्रत्यक्षाच्छेषसिद्धिर- 30 नुमानमिति लक्षणस्य यस्त्वया दोष उक्तस्तत्र वयं ब्रूम इत्याह-यत्तूक्तमिति । तन्मतनिराकरणाय प्रथमं तन्मतं दर्शयति
Jain Education International 2010_04
९१९
१ सि. क्ष. छा. डे. अत्र । XX छा. डे. । २ सि. क्ष. छा. यथान्यास्त्व० । ३ सि. क्ष. छा. डे, चेत्तनोक्त० । द्वा० न० ३९ (११६)
For Private & Personal Use Only
www.jainelibrary.org