________________
९२०
न्यायागमानुसारिणीव्याख्यासमेतम् [उभयनियमारे कत्वात् , नोत्पादकबीजादिवदिति, एतदप्ययुक्तम् , अविनाभावित्वस्य सहचारिभावसम्बन्धस्वात् , तस्मादपि यो निश्चयः सोऽपि स्वस्वाम्याद्यर्थव्युत्पन्नानामेिव, तदादित्वात् सहचरितभावस्य ।
यत्तूक्तमित्यादि, स्वम्वाम्यादिसम्बन्धेन सम्बन्धाच्छेषसिद्धिरनुमानमित्यस्य लक्षणस्य दोषः 5 तेनोक्तः, अत्र ब्रूमः, अयुक्तमिदम् , कस्मात् ? अव्युत्पन्नस्य तद्गतेरित्यादि तन्मतप्रत्युच्चारणं यावत् ज्ञापकत्वादिति, स्वस्वाम्यादिसम्बन्धानभिज्ञा अपि धूमादग्निमविनाभावसम्बन्धान्निश्चिन्वन्तो दृश्यन्ते, स च मा भूदगृहीतसम्बन्धान्निश्चयः, ज्ञानकारणत्वं हि ज्ञापकस्य हेतोर्लिङ्गादेहीतस्वरूपस्य, नोत्पादकबीजादिवदिति, एतदयुक्तम् , कस्मात् ? अविनाभावित्वस्य सहचारिभावसम्बन्धत्वात्-न विना भवति सह
भवति सह चरतीत्यर्थः, तस्मादपि सहचरितभावसम्बन्धात् यो निश्चयः सोऽपि [स्व]स्वाम्याद्यर्थव्युत्पन्नानामेव 10 भवति, नाव्युत्पन्नानाम् , कस्मात् ? तदादित्वात्-[स्व] स्वाम्यादित्वा[त् ]सहचरितभावस्य, सप्तानां सम्बन्धानामन्यतमत्वात्तस्यापि, तत्सहचारिभावोऽविनाभावो गृह्यमाण एवानुमानकारणं ज्ञातम् , ज्ञानोत्पत्तिहेतुत्वात् ज्ञापकस्य, तस्मादविनाभावसम्बन्धज्ञानं स्वस्खाम्याद्यन्तःपाति व्युत्पन्नानामेव, नाव्युत्पन्नानामिति ।
अथवा विनाप्यविनाभावित्वेन स्वस्वामित्वादिव्युत्पत्तेरनुमेत्यत आह
अविनाभावगम्यातिरिक्तार्थविषयत्वेन तु स्वस्वाम्यादिसम्बन्धव्युत्पन्नबुद्धेरेवानुमान 16 दृश्यते यथा काकभवनव्यापितत्स्वीकृततत्प्रसवकालतत्कृतनीडप्रसवोर्णभेदविवृद्धिपोषणसह
चरणपृष्ठतो गमनादीनि धर्मान्तराणि व्यापित्वाविनाभाविरूपोपेततायामपि न कारणानि कोकिलत्वज्ञानस्य आ स्वस्वामिभावाप्रत्यवगमनाऽऽदरात् , पश्चात् तत्प्रतिपत्तिः स्वस्वामिभावादिसम्बन्धेन परित्यज्याविनाभाव्यभिमतान् तत्तद्धर्मान् , लोके प्रतिपत्तारो वक्तारश्च
भवन्ति कोकिलशावकोऽयं न काकशावकः, स्वभाषासमन्वितत्वात् विशिष्टमाधुर्योपेतस्वर20 त्वादितरकोकिलवदित्येवं स्वस्वाम्यादिसम्बन्धा अनुमापकाः, अनुमेयव्यक्तिकाले तथोपलभ्यमानत्वात् , तत्प्रसिद्धलिङ्गवत् ।
अव्यत्पन्नस्येति । खखाम्यादिसम्बन्धपरिज्ञानरहितस्य पुंसो लिङ्गलिनिनोरविनाभावसम्बन्धज्ञानाल्लिङ्गिगतेः सा च लिङ्गिगतिरविनाभावनिश्चयव्यतिरेकेण मा भूदिति तन्निश्चयविशिष्टहेतोरेव कारणत्वं युक्तम् । गृहीतस्वरूपं हि लिगमनुमापकं भवति
न तु स्वरूपसल्लिङ्गम् । अकरोत्पादकबीजादिवत्, लिङ्गस्य च स्वरूपमविनाभाव एव, तस्मान्न स्वस्खाम्यादिसम्बन्धेन शेषसिद्धि25 ख्यापकलक्षणत्वादिति भावः । ज्ञानकारणं ज्ञानमेव ज्ञायमानं वा, न स्वरूपसदित्याशयेनाह-ज्ञानकारणत्वं हीति, लिङ्गिज्ञान
कारणत्वं हीत्यर्थः । अयुक्ततायां हेतुमाह-अविनाभावित्वस्येति, अव्युत्पन्नस्य तद्गतेरित्यसिद्धम् । अविनाभावसम्बन्धज्ञानं विना तद्गत्यभावात् , अविनाभावश्च सहचारिरूपः, साहचर्यञ्च खस्खाम्यादिसप्तान्यतमसम्बन्धेन, तथा चाविनाभावज्ञानस्वस्खाम्यादिसम्बन्धरूपम् , अविनाभावस्य च गृह्यमाणस्यैव ज्ञान कारणत्वेन तज्ज्ञाने तज्ज्ञानस्यावश्यम्भावात् वखाम्यादिव्युत्पन्नानामेव तद्गतिः न त्वव्युत्पन्नानामिति भावः। सहचारिभावसम्बन्धाद्यो निश्चयः सोऽपि स्वस्खाम्यादिसम्बन्धज्ञानवतामेव भवति, सहचारिभावस्य वखा30 म्यादिसम्बन्धमूलत्वादित्याह-तस्मादपीति । सहचारिभावोऽपि गृह्यमाण एव कारण न स्वरूपसन् , ज्ञानोत्पत्तिहेतोञ्जयमानत्वा
वश्यकत्वादित्याह-तत्सहचारिभाव इति । अविनाभावित्वमन्तरेणापि स्वस्खाम्यादिपरिज्ञानादनुमानमिति वर्णयति-अविनाभावेति । अविनाभावेन गम्यो योऽर्थस्त व्यतिरिक्तार्थान् लोके प्रतिपत्तारो वक्तारश्च दृश्यन्ते, यथा कोकिलशावकोऽयं न काकशावकः,
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org