________________
स्वस्वामिभावादिसम्बन्धगमकता] द्वादशारनयचक्रम्
९२१ अविनाभावगम्यातिरिक्तार्थविषयत्वेन त्वित्यादि यावदितरकोकिलवदिति, साधनेनोपसंहारोऽस्यार्थस्य, 'व्यापको यः स एवांशो ग्राह्यो व्याप्यस्तु सूचकः । अनेकधर्मणो न्यो ग्राह्यग्राहक
mmar धर्मणोः ॥' ( ) इत्येतल्लक्षणवैपरीत्येन सहचारिभावाहतेऽपि स्वस्वाम्यादिसम्बन्धव्युत्पन्नबुद्धेरेवानुमानं दृश्यते, तद्यथा-काकभवनेत्यादि समासदण्डको व्यापकव्याप्यत्वाभ्यां सहचारिभावप्रदर्शनो याव[त् ] व्यापित्वाविनाभाविरूपोपेततायामपीति, कोकजन्मव्यापीनि तत्स्वीकृतस्तत्प्रसवकालस्तत्कृतनीड- 5 प्रसवोर्णभेदो विवृद्धिः काकेन काक्या च पोषणं वात्सल्येन, तस्य द्वितीयेन काकशावकेन सहचरणं काक्याः पृष्ठतो गमनमित्येतानि पूर्वपूर्वकाणि व्यापकानि साध्यानि, उत्तरोत्तराणि व्याप्यानि साधकाभिमतानि अविनाभावसम्बन्धीनि धर्मान्तराणि सन्त्यपि न कारणानि तानि कोकिलत्वज्ञानस्य यावत् आ कुतः ? स्वस्वामिभावाप्रत्यवगमैनादरात्-यावत् स्वस्वामिभावसम्बन्धं नावैति तावत् कोकिलत्वाप्रतिपत्तेः, पश्चात्तत्प्रतिपत्तिः स्वस्वामि[भावादि]सम्बन्धेन भवति-तत उत्तरकालं कोकिलशावकोऽयं न काकशावक इति, 10 परित्यज्याविनाभाव्यभिमतांस्तांस्तान् धर्मान् व्यापकान् व्याप्यांश्च, तथा लोके प्रतिपत्तारो वक्तारश्च भवन्ति कोकिलशावकोऽयमभिमतो यतः स्वभाषासमन्वितः, भाषासमन्वितत्वात् विशिष्टमाधुर्योपेतस्वरत्वादितरकोकिलवदिति, आदिग्रहणात् प्रकृतिविकारादिशेषसम्बन्धा अपि व्युत्पन्नानामेवानुमानकारणम् , अतोऽत्र साधनं संहतार्थमुच्यते- एवं स्वस्वाम्यादिसम्बन्धा अनुमापका इत्थमुक्तन्यायेन, कस्मात् ? अनुमेयव्यक्तिकाले तथोपलभ्यमानत्वात्-अनुमेयस्याग्निकोकिलानित्यत्वार्थस्य व्यक्तिकाले तेनैव स्वस्वाम्यादिप्रकारेणो- 15 पलभ्यमानत्वात् , किमिव ? तत्प्रसिद्धलिङ्गवत्-तेन प्रकारेण प्रसिद्धं धूमादिलिङ्गं तस्य सम्बन्धिनोऽनुमापकमन्यादेः स्वस्वाम्यादिप्रकारेणैव सम्बन्धात् , तथा कोकिलशावकः तज्जातीयानुकारिस्वरेणैवेति । खभाषासमन्वितत्वात् , विशिष्टमाधुर्योपेतस्वरवत्त्वात् , इतरकोकिलवदिति साधनेन प्रदर्शयतीत्याह-इतरकोकिलवदितीति। अनेकधर्मविशिष्टयोाह्यग्राहकधर्मयोर्मध्ये य एवांशो व्यापकः स एव ग्राह्यः, योऽशश्च व्याप्यः स ग्राहक इति व्यवस्था दृश्यते तद्वैपरीत्येन विनापि सहचारिभावेन स्वस्वाम्यादिसम्बन्धपरिज्ञानवतः पुरुषस्यानुमानं दृश्यत इत्याह-व्यापक इति । कोकिल- 20 शावकविषये धर्माणां व्याप्यव्यापकभावमादर्शयति-काकभवनेत्यादीति, काकभवनव्यापिनो धा एते-तत्स्वीकृतिः, तत्प्रसवकालः, तत्कृतनीडप्रसवः, ऊर्णभेदलक्षणा विवृद्धिः, काकपोषणं, काकशावकान्तरसाहचर्य, काक्यनुगमनमिति, एष्वपि पूर्वपूर्वधर्माः व्यापकाः साध्यभूताः, उत्तरोत्तरधर्माः व्याप्याः साधनभूता इति । परस्पराविनाभाविन एते धर्माः काकशावकत्वव्यापिनो न कोकिलत्वज्ञानहेतवः कोकिले सन्तोऽपि यावत् स्वस्वामिभावसम्बन्धस्य प्रतिपत्तिन भवतीति । वर्णयति-अविनाभावसम्बन्धीनीति । अवगते च स्वस्वामिभावसम्बन्धे पश्चादयं कोकिलशावको न काकशावक इत्यविनाभाविभूतान् पूर्वोदितान् विहाय 25 धर्मान् प्रतिपद्यन्ते लोका इल्याह-पश्चादिति । प्रतिपत्तिस्वरूपमाह-कोकिलशावकोऽयमिति । हेतुमाह-यत इति, खस्य-कोकिलस्य या भाषा-माधुर्योपेतस्वरः तेन समन्वित इत्यर्थः । स्वखाम्यादिसम्बन्धेनेत्यादिपदविवक्षितमाहआदिग्रहणादिति । फलितमर्थमनुमानेन दर्शयति-एवमिति । कोकिलशावकाद्यनुमित्युत्पत्तिकालेऽविनाभावव्यतिरेकेणापि खस्वाम्यादिसप्तविधसम्बन्धान्यतमप्रकारेणैव तदुपलब्धेरिति हेतुमाह-अनुमेयेति । दृष्टान्तमाह-तत्प्रसिद्धति, तेन स्वस्वाम्यादिना प्रकारेण प्रसिद्धं यल्लिङ्गं धूमादि तद्वत् तद्धि खसम्बन्धिनोऽनयादेर्यथा खस्वाम्यादिप्रकारेणैवानुमापकं तथा तज्जातीयवर- 30 बत्त्वमपि तथैव कोकिलशावकत्वमनुमापयति सन्तमप्यविनाभावसम्बन्धमुपेक्ष्यति भावः । सम्बन्धवादिनं प्रति अन्यापोहिकेनोक्तं
सि. क्ष. छा.डे. प्रदर्शने । २ सि.क्ष. डे. छा. काकाजन्मध्यापीतितस्वी०। ३ सि.क्ष. छा.डे. गमतादारात् । ४ सि.क्ष. छा. लिङ्गवत्त्वेन तेन ।
___JainEducation International 2010_04
For Private & Personal Use Only
www.jainelibrary.org