SearchBrowseAboutContactDonate
Page Preview
Page 353
Loading...
Download File
Download File
Page Text
________________ ९२२ mmmmmmmmmmmmmmm rammam न्यायागमानुसारिणीव्याख्यासमेतम् [उभयनियमारे किश्चान्यत् यदप्युक्तं न चावश्यं स्वस्वाम्यादिसम्बन्धादनुमानं भवति, तदव्यभिचारार्थ विशेषाकांक्षितत्वात् , तथा च त एव हि विशेषा अनुमापकाः स्युः, न स्वस्वाम्यादिसम्बन्धः, सत्यपि तस्मिन्ननुमानाभावादित्येतदपि न, शेषसिद्धिवचनेनाव्यभिचारिविधिवृत्तेरुपात्तत्वात् । 5 यदप्युक्तमित्यादि, सम्बन्धवादिनो दोषवचनम् , न चावश्यमित्यादि प्रत्युच्चारणम् , एतदुक्तं भवति स्वस्वाम्यादिसम्बन्धादनुमानं भवति, तदव्यभिचारार्थं विशेषाकांक्षित्वात् , उपलब्धेऽपि स्वे स्वामिनि वाऽश्वे चैत्रे वा स्वतंत्रजीवादत्यन्ता विशेषा आकांक्ष्यन्ते, तेषामेवाव्यभिचारात् , त एव ह्यनुमापकाः स्युः, न स्वस्वाम्यादिसम्बन्धः, सत्यपि तस्मिन्ननुमानाभावात् व्यभिचारीति, एवं प्रत्युच्चार्याचार्य उत्तरमाह-एतदपि न, शेषसिद्धिवचनेनाव्यभिचारिविधिवृत्तेरुपात्तत्वात्-'सम्बन्धादेकस्मात् प्रत्यक्षाच्छेष10 सिद्धिरनुमानम्' इत्यस्मिन् स्वार्थानुमानलक्षणे शेषसिद्धिवचनेन विधिवृत्तेरव्यभिचारिण एवोपात्तत्वात् , तस्मादयमदोषः। तत्कथमिति भाव्यत इति चेदुच्यते इदं हि सर्वाभासव्युदासेन सम्बन्धिनोऽभिव्यञ्जकम् , प्रत्यक्षादितरः शेषः सम्बन्धी अनुमेयानुमानाभासभेदैः प्रत्यक्षादिविरोधैरविरुद्धार्थी, पक्षो धर्मधर्मिसमुदायाख्यः परार्थानुमाने 19 साध्याभिधानमिति वक्ष्यमाणो निर्दोष एव शेषसिद्धिवचनेन गृहीतः, यथायोगं तेन तेन सम्बन्धेन सम्बद्धात् प्रत्यक्षात् प्रत्यक्षवद्वा प्रसिद्धात् पक्षधर्मस्य सम्बन्धात् प्रागुपलब्धादनुस्मर्यमाणाच्छेषेण शेषस्य सिद्धि रिति शेषसिद्धिवचनादेव विरुद्धासाधारणधर्मव्युदासः, शेषाय शेषे वा प्रत्यक्षादेकस्मात् सम्बन्धादित्येतावता सिद्धेः सिद्धिवचनं सिद्धिरेव नासिद्धिरित्यवधारणादसिद्धिव्यभिचारिधर्मता मा भूदिति, तद्यथा-स्वाम्यसम्प्रदान...............अतिप्रियसुतवत् । 20 इदं हि सर्वाभासव्युदासेनेत्यादि, पक्षहेतुदृष्टान्ताभासाः सर्वे तेनैव सम्बन्धानुमानविधानेन व्युदस्यन्ते, प्रत्यक्षादितरः शेषः सम्बन्धी स्वा[म्या]दिना विशिष्यमाणो देशादि सम्बध्यते, अनुमेयानुमाना दोषं प्रतिक्षिपति-यदप्युक्तमिति । व्याचष्टे-सम्बन्धवादिन इति । तात्पर्यमाह-एतदुक्तमिति, स्वभूतेऽश्वे स्वामिभूते च चैत्रे वस्वामिभावानापन्नवतंत्राश्वमैत्रादितोऽविलक्षणे यद्यनुमानानुमेयभावः स्यात्तर्हि स्वतंत्राश्च मैत्रादावपि स्यादविशेषात्, न हि चैत्राश्वयोः स्वस्वामिभूतयोरपि स्वतंत्राश्वमैत्रादितः किञ्चिद्वलक्षण्यमनुभूयते, अतस्तव्यावर्तनाय तत्र कश्चिद्विशेषमाकांक्ष्यते तर्हि स एव विशेषोऽनुमापकः स्यात् , किमन्तर्गडुना वस्खाम्यादिभावसम्बन्धेनागमकेन, विशेषाणामेव गमकत्वादव्यभिचारित्वादिति भावः। तन्निराचष्टे-एतदपि नेति, सम्बन्धादेकस्मात् प्रत्यक्षाच्छेषसिद्धिरनुमानमिति लक्षणे शेषसिद्धिपदेनाव्यभिचारिण एव विधानान्न दोष इति भावः । तत्कथमित्यत्राह-इदं हीति । व्याचष्टे-पक्षहेत्विति, पक्षाभासा हेत्वाभासा दृष्टान्ताभासाश्च सर्वे सम्बन्धानुमान विधानेन निराक्रियन्ते इत्यर्थः । तदेवोपपादयति-प्रत्यक्षादितर इति, खस्वामिभावादिसम्बन्धसम्बन्धिनोर्मध्ये यः प्रत्यक्षः तस्मादन्यः सम्बन्धी शेष उच्यते वाम्यादिना विशिष्यमाणो देशादिः धर्मधर्मिसमुदायरूपः पक्षः प्रतिज्ञादोषैः 30 प्रत्यक्षादिविरोधैरविरुद्धार्थः, य उत्तरत्र परार्थानुमानेऽवयवप्रकरणे खरूपेणार्थपरिच्छेदकरूपवीतानुमानप्रयोगविषयप्रतिज्ञालक्षणे सि.क्ष. ढे. छा. नेनोत्पद्यन्ते । २ सि.क्ष. छा. डे. अनुमेवानु। Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org
SR No.002586
Book TitleDvadasharnaychakram Part 3
Original Sutra AuthorMallavadi Kshamashraman
AuthorLabdhisuri
PublisherChandulal Jamnadas Shah
Publication Year1957
Total Pages430
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy