________________
शेषसिद्धिपदसार्थक्यम्] द्वादशारनयचक्रम्
९२३ भासभेदैः प्रत्यक्षादिविरोधैरविरुद्धार्थः पक्षो धर्मधर्मिसमुदायाख्यः, उत्तरत्रावयवविधाने परार्थानुमाने 'वीताख्ये साध्याभिधानमिति वक्ष्यमाणो निर्दोष एवानेन शेषसिद्धिवचनेन गृहीतः, यथायोगं स्वस्वामिनिमित्तनिमित्तिकादिषु तेन तेन सम्बन्धेन सम्बद्धात् प्रत्यक्षादिति-प्रत्यक्षात् धर्मादुपलब्धात् , प्रसिद्धादिति यावत्, तत्रैव च यः प्रत्यक्षः स पक्षधर्मः, शेषोऽनुमेयः, कृतकत्वाद्यप्रत्यक्षत्वादव्यापीति चेत् अत आहप्रत्यक्षवद्वा प्रत्यक्षवत् प्रत्यक्षः-प्रसिद्धः, तस्मात् प्रसिद्धत्वात् सम्बन्धी, पक्षधर्मोऽश्वः स्वं तस्य पक्षधर्मस्य । सम्बन्धात् प्रागुपलब्धादनुस्मर्यमाणात् शेषेण शेषस्य वा] चैत्रस्य सिद्धिरिति शेषसिद्धिवचनादेव विरुद्धासाधारणधर्मव्युदासः, यत्र यत्राश्वः स्वं तत्र तत्र देवदत्तः स्वामी त्य]त्यन्तावियोगादिसम्बद्धान्वययुक्तत्वात् , सपक्षे वृत्तिः विपक्ष एव व्यावृत्तिः कुतः ? शेषाय शेषे वा, प्रत्यक्षादेकस्मात् सम्बन्धात् इत्येतावता सिद्धे सिद्धिवचनं सिद्धिरेव नासिद्धिरित्यवधारणात् प्रमेयत्वान्नित्य इति साधारण नैकान्तिकवदसिद्धिर्मा भूदिति, का पुनरसिद्धिः ? व्यभिचारिधर्मता, तद्यथा-स्वाम्यसम्प्रदानेत्यादि यावदतिप्रियसुतवदिति, 10 चैत्रान्यथात्वं मरणं शेषं गतार्थम् ।
इत्थं हि व्यभिचारिविशेषव्यावर्तनेनापि स एव सम्बन्धी गमकः सम्बन्ध्यन्तरस्य, न ते विशेषा व्यावा विधेया वा गमकाः, तत्समर्थनार्थत्वात् , न हि वात्या प्रसङ्गव्यावर्तनेन धूमस्याव्यञ्जकत्वम् , अधूमता वा धूमतैव हि सती वह्नितायाः सम्बन्धिनी सम्बन्धिन्या व्यञ्जिकेति शेषसिद्धिवचनान्निरस्तव्यभिचाराशङ्क सम्बन्धानुमानमेव, त्वयापीष्यत एवैतत् 15
साध्यनिर्देशः प्रतिज्ञेत्येवंरूपे साध्यपदग्राह्यः प्रज्ञापनीयधर्मविशिष्टो धर्मी सिद्धस्यानुपपद्यमानस्य च साध्यस्य निवर्तकः स शेषसिद्धिवचनेन गृति इति भावः । प्रत्यक्ष दीति, प्रत्यक्षविरोधः आगमविरोधः प्रसिद्धिविरोध इत्यादिविरोधैरित्यर्थः । खखाम्याद्यन्यतरसम्बन्धेन सम्बद्धात् प्रत्यक्षाद्धर्मादित्युक्त्या स एव प्रत्यक्षभूतो धर्मः पक्षधर्मो भवति शेषस्त्वनुमेयो भवतीत्याह-यथायोगमिति । ननु शब्दोऽनित्यः कृतकत्वादित्यादौ पक्षधर्मतयाऽभिमतं कृतकत्वादि न प्रत्यक्षमिति तत्रैव च शब्दोऽनित्य इत्यनुमाने लक्षणमिदमव्याप्तमित्याह-कृतकत्वादीति । सम्बन्धादेकस्मात् प्रत्यक्षादित्यत्र प्रत्यक्षपदेन प्रसिद्धत्वरूपोऽर्थों विवक्षितः, प्रसिद्धधर्मस्य 20 प्रत्यक्षतुल्यत्वादित्युत्तरयति-प्रत्यक्षवद्वेति । प्रत्यक्ष इव प्रत्यक्षवत् , प्रत्यक्षसदृशः प्रसिद्ध इति यावत् , तथा च कृतकत्वं प्रत्यक्षसदृशत्वेन प्रसिद्धत्वात् सम्बन्धि भवतीत्याह-तस्मादिति । एवञ्च तथाविधस्य पक्षधर्मस्य स्वत्वभूतस्याश्वादेर्यः प्रागुपलब्ध इदानीञ्च स्मर्यमाणः सम्बन्धस्तस्मात् शेषस्य सिद्धिरनुमानम् , अत्र शेषस्य सिद्धिरित्युक्तत्वात् सम्बद्धयोर्यः शेषः नान्यो विरुद्धधर्मः तस्य सिद्धिरिति विरुद्धव्युदासः, प्रागुपलब्धादनुस्मरणादित्युक्तेः सपक्षवृत्तितावगमात् सपक्षव्यावृत्तधर्मस्यासाधाणस्य व्युदास इत्याशयेनाह-पक्षधर्म इति । हेतुमाह-यत्र यत्रेति, चैत्राश्वयोरत्यन्तमवियोगादि स्पो यः सम्बन्धस्त-25 त्सम्बद्धत्वे सति अन्वयेन युक्तत्वात्, अन्वयेन युक्तत्वं व्यभिचरितहेतुकेऽप्यस्तीत्यत्यन्तावियोगादिसम्बद्धेत्युक्तं तेन सपक्षवृत्तित्वं विपक्षव्यावृत्तिश्च लभ्यतेऽत एव विरुद्धस्यासाधारणस्य च व्युदास इति भावः । सिद्धिपदप्रयोजनमाह-प्रत्यक्षादिति । नित्यः प्रमेयत्वादिति व्यभिचरितहेतोर्यथा न साध्यसिद्धिस्तथा न भवति किन्तु सिद्धिरेव भवतीति प्रदर्शनाय सिद्धिपदम् , तथा च व्यभिचारिधर्मव्युदासः इति भावः । एवञ्च स्वखाम्यादिसम्बन्धो न गमकः, सत्यपि तस्मिन्ननुमानाभावेन तदव्यभिचारित्वाय च विशेषा आकांक्ष्याः, तथाच त एवं विशेषा गमकाः, अव्यभिचारात्, न स्वस्वामिभावादय इति यदुक्तं 30 तन्निरस्यति-इत्थं हीति, लक्षणमिदं सर्वाभासव्युदासेन सम्बन्धिव्यजकत्वोपदर्शकमिति प्रदर्शितप्रकारेणेत्यर्थः । स्वखामिभावादिसम्बन्धव्यभिचारव्यावर्त्तकत्वेऽपि विशेषाणां सम्बन्ध्यन्तरस्याप्रत्यक्षस्य द्वितीयस्य गमकः स एव सम्बन्धी प्रत्यक्ष एको भवति
१ सि.क्ष. छा. डे. वान्ताख्ये। २ सि.क्ष. छा. डे. प्रत्यक्षस्य । ३ सि.क्ष. डे. छा. तत्रैवकायः ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org