________________
९२४
न्यायागमानुसारिणीव्याख्यासमेतम् [उभयनियमारे प्रसिद्धसम्बन्ध्येवाप्रसिद्धसम्बन्धिनो गमकम् , तदव्यभिचारस्वरूपावधारणार्थ व्यभिचारविशेषव्यावृत्तिरुच्यते यथा कृतकत्वस्यानित्यत्वाव्यभिचारप्रदर्शनार्थ यदनित्यं न भवति तत्कृतकमपि न भवतीति व्यतिरेक उच्यते ।
(इत्थं हीति) इत्थं हि व्यभिचारिविशेषव्यावर्तनेनापि स एव सम्बन्धी-धूमादिरश्वादिर्वा गमकः 5 सम्बन्ध्यन्तरस्य-प्रत्यक्षोऽनुमेयस्य, द्वितीयस्यैकः सम्बन्ध्यन्तरम्य, सम्बन्धित्वात् , न ते विशेषा व्यावाविधेया वा गमकाः, तत्समर्थनार्थत्वात् , यथा-न हि वात्या प्रसङ्गव्यावर्तनेन धूमस्याव्यञ्जकत्वम् , अधूमो वात्यया न भवत्ययं धूम इति, वात्यायां निवर्तिता[या]मग्नेर्गमको भवति धूमः यत्रादृष्टस्तद्व्यवच्छेदमात्रेण यस्माद्बह्येव वात्याघटपटादि, न हि तद्वदग्नेरगमको धूमः न वा वात्यादि व्यञ्जकं गमकमग्नेर्भवितुमर्हति
घटपटादि, धूमतायामसत्यामेव, किं तर्हि ? धूमतैव हि सती वह्नितायाः सम्बन्धिनी सम्बन्धिन्यां व्यञ्जकतेति 10 तस्माच्छेषसिद्धिवचनात् निरस्तव्यभिचाराशङ्कं सम्बन्धानुमानमेव प्रत्यक्षैकत्वविशेषणाभ्यां निरस्तसर्वाभा
सम् , किश्चान्यत्-त्वयापीष्यत एतत् प्रसिद्धसम्बन्ध्येवाप्रसिद्धसम्बन्धिनो गमेकम् , तदव्यभिचारस्वरूपावधारणार्थ व्यभिचारिविशेषव्यावृत्तिरुच्यत इति, अतस्तत्प्रदर्शनार्थमाह-यथा कृतकत्वस्येत्यादिना, अनित्यः शब्दः कृतकत्वात् , यद्यत् कृतकं तत्तदनित्यमिति सम्बन्धं विधिना प्रदर्य कृतकत्वस्यैवानित्यत्वाव्यभिचारप्रदर्शनार्थं यदनित्यं न भवति तत्कृतकमपि न भवतीति व्यतिरेक उच्यते ।। 15 यधुपलब्धसम्बन्धस्य पुनरव्यभिचारित्वापेक्षमनुमानं न स्यात् व्यतिरेकवचनं पक्षधर्म
साध्यानुगतिसमर्थनार्थ न स्यात् , नापि च तस्यैवाभिव्यञ्जकत्वमापद्यते; तथा चास्मन्यायेन कृत
नान्य इति व्याकरोति-इत्थं हि व्यभिचारीति । विशेषास्तु व्यावाः केवलं गमकस्य सम्बन्धिनः समर्थका एव न गमका इत्याह-न ते विशेषा इति । नहि केनचिद्विशेषेण वात्यायाः-पवनस्य प्रसङ्गस्य व्यावर्त्तनमात्रेण धूमादि न व्यञ्जकमग्नः
सम्बन्ध्यन्तरस्य, धूमादेरधूमता भवति किन्तु वात्यायां निवर्तितायां स एव धूमोऽग्नेर्गमको भवत्यनग्निमद्देशव्यवच्छेदेन, 20 न विशेषाः, तेषां वात्याघटपटादिरूपतो बहुत्वात्, न हि वात्याघटपटादिरिव धूमोऽगमकोऽग्नेः, नापि वात्साघटपटादि व्यञ्जक
गमकं वाऽमेधूमताया असत्त्व इति भावः । धूमस्याव्यञ्जकत्वं निराकरोति-न हीति । धूम एव गमक इत्याह-वात्यायामिति । विशेषाणां बहुत्वं गमकत्वमव्यजकत्वञ्चाह-यस्मादिति । किं धूमताया एव सम्बन्धिन्याः खसम्बन्ध्यग्नितायां व्यञ्जकत्वं व्यञ्जकतात्मकत्वं वेत्याह-धूमतैव हीति । एवञ्च शेषसिद्धिवचनेन प्रत्यक्षैकत्वविशेषणाभ्याच निराकृतनिखिलाभासाशङ्क सम्ब
न्धप्रयुक्तानुमानं भवतीत्याह-तस्मादिति । प्रसिद्धसम्बन्ध्येव गमकमिति तवापि सम्मतमेवेत्याह-किश्चान्यदिति । गमकस्य 25 प्रसिद्धसम्बन्धिनोऽव्यभिचारखरूपताव्यवस्थापनार्थ व्यभिचारविशेषस्य व्यावृत्तिः त्वया क्रियत इत्याह-तदव्यभिचारेति,
यदि प्रसिद्धसम्बन्धि गमकं न स्यात् , विशेषा एव गमकाः स्युस्तर्हि व्यभिचारिविशेषस्य व्यावृत्तिकरणं निष्फलं स्यादिति भावः । दृष्टान्तमत्रार्थे दर्शयति-अनित्यः शब्द इति साधर्म्यप्रयोगेण यत्कृतकं तदनित्यमित्यनेन विधिरूपतः सम्बन्धमुपदर्य यद्यन्वय एव साध्यप्रतिपादकस्तर्हि प्रमेयत्वादिरपि हेतुरन्वयात् प्रतिपादकः स्यादिति सम्बन्धस्याव्यभिचारप्रदर्शनार्थमुच्यते
यदनित्यं न भवति तत्कृतकमपि न भवतीति व्यतिरेकः, प्रतिपादकस्तु प्रसिद्धसम्बन्ध्येवेति भावः । अन्यथा व्यतिरेकोक्तिरव्यभि१०चारिसाधनसमर्थनार्था न भवेदित्याह-यापलब्धेति । अनुमानं हि प्रसिद्धसम्बन्धेऽव्यभिचारित्वमपेक्ष्य भवति साधनस्य
१ सि.क्ष छा. डे. अधूमोवात्यासा। २ सि.क्ष. छा.डे. 'ग्नेनमिको। ३ सि.क्ष. छा. डे. वात्येति । ४ सि.क्ष. छा. डे घटपटाद्यधू । ५ सि. क्ष. छा. डे. गमकमुदव्यभिः ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org