________________
mmmmmmmmmm
तुल्यन्यायताप्रदर्शनम् ] द्वादशारनयचक्रम्
९२५ कत्वस्यानित्यत्वोपलब्धसम्बन्धस्य व्यतिरेके पुनरव्यभिचारापेक्षानुमितियुक्ता, तस्यैवाभिव्यञ्जकत्वव्यक्तेः, तथेहापि, चैत्राश्वोदाहरणमत्र स्वस्वामिसम्बन्धस्योपलक्षणार्थम्, अग्निधूमानित्यकृतकत्वादिषु तुल्यन्यायत्वात्, पक्षधर्मात् सोऽत्र तद्वत्सत्त्वात्, यत्र यत्र तद्वत्सत्त्वं तत्र तत्र सोऽस्ति पूर्ववत् ।
(यदीति) यापलब्धसम्बन्धस्य पुनरव्यभिचारित्वापेक्षमनुमानं न स्यात् व्यतिरेकवचनं 5 पक्षधर्मसाध्यानुगतिसमर्थनार्थं न स्यात् , तत्तु दृष्टम , नापि च तस्यैव व्यतिरेकवचनस्याभिव्यञ्जकत्वमापद्यते, तथाचैवञ्च कृत्वाऽस्मन्न्यायेन कृतकत्वस्यानित्यत्वोपलब्धसम्बन्धस्य व्यतिरेके पुनरव्यभिचारापेक्षानुमितियुक्ता, न तु त्वन्मतेन, किं कारणं ? तस्यैवाभिव्यञ्जकत्वव्यक्तेः-योऽसौ पुनरव्यभिचारः स तस्यैव पक्षधर्मस्याभिव्यञ्जकत्वमभिव्यनक्ति, न स्वयमेवानुमापकः तथेहापीति तत्साधर्म्य योजयति, चैत्राश्वेत्यादि, यच्चैत्राश्वोदाहरणमत्रानुमानलक्षण[प]रभाष्ये तत्स्वस्वामिसम्बन्धस्योपलक्षणार्थं अग्निधूमानित्यकृतकत्वादिषु 10 तुल्यन्यायत्वात् , 'सोऽत्रेत्यत्र स इत्यप्रत्यक्षोऽग्निचैत्रानित्यत्वादिधर्मोऽत्रेति प्रदेशे प्रत्यक्षात् धूमाश्वकृतकत्वादेः पक्षधर्मात् साध्यार्थः पक्षोऽवगम्यताम् , तद्वत्सत्त्वादिति हेतुः-सोऽस्मिन् सम्बन्धी वह्निचैत्रशब्दादिरस्तीति तद्वान्-धूमाश्वकृतकत्वादिः, स एव धर्मः सैन् , तस्य भावात्-तद्वत्सत्त्वात् , यत्र यत्र तद्वत्सत्त्वं तत्र तत्र सोऽस्ति, पूर्ववत् यथा पूर्वोत्तरधूमादिरग्न्यादिना सम्बन्धात् तत्स्वामिक एव, तच्चहापीयेवमादीनामुपलक्षणार्थं चैत्राश्वोदाहरणमिति ।
15 अत्राह
नन्वेवमविनाभावोपवर्णनमेवेदम् , उच्यते-एवमेवैतत्, आधाराधेयसंयोगिवद्वृत्त्यभेदात् , अस्मदभिहितेस्तु पूर्वत्वादस्मन्मतोपजीवनमेव, यथात्वमविनाभावसम्बन्धं व्युत्पादयसि उपलब्धसम्बन्धस्य यदि तदव्यभिचारित्वापेक्षमनुमानं न स्यात्, तर्हि व्यतिरेकवचनं पक्षधर्मभूतसाधने या साध्यानुगतिःअव्यभिचारित्वं तत्समर्थनार्थ न स्यान्न चैवं दृष्टम् , तस्मात् तद्वचनमावश्यकम्, न चैवं तस्यैव साध्यव्यजकत्वं शक्यम् , 70 तस्याव्यभिचारित्वसमर्थन एवोपक्षीगशक्तित्वादित्याशयेन व्याकरोति-यदुपलब्धसम्बन्धस्येति । इदञ्चास्मन्मतेन सम्भवति या साध्यधर्मोपलब्धसम्बन्धस्य साधनधर्मस्य व्यतिरेके सत्यव्यभिचारापेक्षानुमितिः, न तु त्वन्मतेन सम्भवति, तस्यैवानुमापकत्वेनाभ्युपगमादित्याह-एवञ्च कृत्वेति । कुतो मन्मते एव सम्भवतीत्यत्र हेतुमाह-तस्यैवेति, पक्षधर्मभूतसाधनधर्मस्यैव साध्यधर्माभिव्यजकत्वव्यतिरेकवचनगम्योऽव्यभिचारः प्रकाशयति, न तु त्वदुक्तिवत् स्वयमेवाऽनुमापको भवति येन खखाम्यादिसम्बन्धस्य वैयर्थ्यं स्यादिति भावः । सांख्यभाष्येऽनुमानलक्षणे चैत्राश्वोदाहरणं स्वस्वामिसम्बन्धविषयमन्यस्याप्युपलक्षणार्थमित्याह-25 यञ्चैत्राश्वेति । अत्रोक्तन्यायस्य कार्यकारणभावाद्युदाहरणेषु अग्निधूमानित्यकृतकत्वादिषु समानत्वादित्याह-अग्नि तमेव न्यायं घटयति-सोऽत्रेतीति । अस्मिन् प्रदेशेऽप्रत्यक्षः साध्यधर्मः पक्षधर्मभूतप्रत्यक्षात् साधनधर्मात् गम्यत इति साध्यार्थः पक्ष इति भावः । हेतुमाह-तद्वत्सत्त्वादिति । दृष्टान्तमाह-पूर्ववदिति । पूर्वदृष्ट इदानीं पक्षे दृष्टश्च धूमादिः सर्वोऽम्यादिना सम्बद्ध एव, अत एव च स धूमादिरम्यादिखामिक एव तथा चैत्राश्वोदाहरणेऽपि समानमिति भावः । अथाव्यभिचारित्वापेक्षानुमानवर्णनेनाविनाभावस्यैव सम्बन्धस्य व्यावर्णनं कृतमित्याशङ्कते-नन्वेवमिति । 30
त
३ सि.क्ष. छा. डे. सा सोऽ..
१ सि. क्ष. छा. डे. °नुकंपा। २ सि. क्ष. छा.डे. सोऽत्रस इत्यत्र प्रत्यक्षो। ४ सि. क्ष. छा. डे. तद्वानुमाश्च कृत०। ५ सि. क्ष. डे. छा. 'मः स्वत्तस्य ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org