________________
९२६
न्यायागमानुसारिणीव्याख्यासमेतम् [उभयनियमारे तत् सम्बन्धानुमानैकदेशस्यैवैतल्लक्षणस्य भाष्यमात्रम्, एवञ्च द्रव्यार्थासत्योपाधिसत्यार्थव्याख्यानुज्ञा कृता त्वया, तथा च लिङ्गिनो लिङ्गत्वं प्रसक्तमित्यस्याभावः।
(नन्वेवमिति ) नन्वेवमविनाभावोपवर्णनमेवेदम्-नन्वित्थमविनाभावसम्बन्धो मदिष्ट एवाव्यभिचाराकांक्षानुमानत्वादित्यत्रोच्यते वयमपि ब्रूमः-एवमेवैतत् , अविनाभावसम्बन्धात् स्वस्वाम्यादिवि5 कल्पादनुमानम् , कस्मात् ? आधाराधेयसंयोगिवद्वृत्त्यभेदात् आधाराधेयवद्वृत्तेः संयोगिवद्वत्तेश्चाभेदात् ,
यत्त्वयोक्तं आधाराधेयवद्वृत्तिः तस्य संयोगिवन्नेति, तस्य व्यावर्तितत्वात् , किश्चान्यत्-अस्मदभिहितेस्तु पूर्वत्वात्-दिन्नवसुबन्ध्यादिभ्यो बुद्धाच्च पूर्वकालत्वात् कापिलस्य तंत्रस्याहतैकदेशनयमतानुमानानुसारित्वाच्चतदनुमानस्य, तच्चास्मन्मतोपजीवनमेव, त्वया न ज्ञातमनुमानस्वरूपं सत् मयाऽऽख्यातमिति, तद्व्याख्यायथा त्वमित्यादि, भाष्यमात्रमेवेदमिति पक्षः, सम्बन्धानुमानैकदेशस्यैवैतल्लक्षणस्य भाष्यमात्रम्, यथा 10 'वृद्धिरितीयं संज्ञा भवत्यादैज्वर्णानाम् , संज्ञाधिकारः संज्ञासम्प्रत्ययार्थः' ( ) इत्यादि 'वृद्धिरादैच्' (पा० १-१-१) इत्यस्य, तथेदं त्वदीयमविनाभावसम्बन्धव्युत्पादनमस्मज्ज्ञातस्य सम्बन्धानुमानैकदेशस्य भाष्यमात्रम् , तदपि सर्वं न विदितमित्यभिप्रायः, कापिलमपि चास्मदुपज्ञमेव द्रव्यार्थविकल्पैकदेशत्वादिति चाभिप्रायः, अत आह-एवञ्च द्रव्यार्थासत्योपाधिसत्यार्थव्याख्यानुज्ञा कृता त्वया,
सामान्योपसर्जनो विशेषः शब्दार्थ इति द्रव्यार्थस्यानुज्ञानादभ्युपगतं भवति, द्रव्यार्थवादिमतानुमानं, 15 लक्षणानुज्ञानात् , तथाच-असत्योपाधिसत्यार्थव्याख्यानुज्ञायां लिङ्गिनो लिङ्गत्वं प्रसक्तमित्यस्याभावः,-नहि लिङ्गिनोऽप्रत्यक्षस्य लिङ्गत्वं प्रत्यक्षत्वं प्रसञ्जयितुं शक्यं ऋद्धिमद्भिर्बुद्धबोधिसत्त्वादिभिरपि, यथोक्तोऽस्माभिरव्यतिकर इति ।
व्याचष्टे-नन्वित्थमिति । इष्टापत्तिमाचार्य आह-एवमेवैतदिति, अविनाभावसम्बन्धस्यैव सप्त स्वस्वाम्यादिरूपाः विकल्पाः,
तस्मादव्यभिचाराकांक्षमनुभानं भवतीति भावः। तत्र हेतुमादर्शयति-आधाराधेयेति, साध्यसाधनधर्मयोलिङ्गिन्याधारे परस्पर20 प्रत्ययाधाराधेयप्रधानोपसर्जनभावेनाविनाभावात् संयोगिवद्वृत्तेराधाराधेयवद्वृत्तेरभिन्ना संयोगिवद्वृत्तिरिति भावः । 'आधाराधेय
वद्वृत्तिस्तस्य संयोगिवन्न तु इत्यनेन संयोगस्योभयत्र साध्यसाधनधर्मयोरविशेषादतिप्रसक्त्याऽऽधाराधेयवद्वृत्तिरिति त्वया यदुक्तं तत्पूर्वमेव निराकृतमित्याह-यत्त्वयोक्तमिति । मया प्रतिपादितोऽयं सिद्धान्तो वादपरमेश्वरस्य, न तु त्वामुद्दिश्य भयैवोच्यते तथा, तस्मादेव त्वदीयाचार्येभ्योऽपि पूर्वकालीनोऽयम् , न च वाच्यं सम्बन्धानुमानमिदं तत्पूर्वस्य कापिलस्य तंत्रस्येति, तदनुमानस्य आहेतैकदेश
भूतनयमतानुमानानुसारित्वात् , तेनास्मन्मताऽऽश्रितमेव तदनुमानमित्याह-अस्मदभिहितेस्त्विति । अनुमानस्वरूपं तु त्वया न 25 ज्ञातमत एव मया तदाख्यातमित्याह-त्वयेति । किञ्च त्वयाऽविनाभावसम्बन्धस्य या प्ररूपणा कृता साऽस्मत्सम्मतसम्बन्धानु
मानस्यैकदेशभूतनयसम्मतस्य भाष्यरूपैव, त्वदीय प्ररूपणमस्मदनुकूलमेवेति त्वया नैव ज्ञातम् , सम्बन्धानुमानैकदेशोऽपि न सम्यग् ज्ञात इति भावः । भाष्यमात्रतायां निदर्शनं दर्शयति-यथा वृद्धिरितीयमिति । कापिलमपि अनुमानमेकदेशभूतस्य द्रव्यार्थनयस्यैकदेशमेवेत्याह-कापिलमपीति । असत्यभूतं द्रव्यार्थमुपसर्जनीकृल्य विशेषस्य सत्यार्थतास्वीकारादसत्योपाधि
सत्यार्थव्याख्या त्वयाऽनुज्ञाता, अन्यापोहलक्षणसामान्योपसर्जनो विशेषः शब्दार्थ इति त्वया सामान्यमभ्युपगतमेव, अत एव च ७० द्रव्यार्थवादिकापिलसम्मतानुमानलक्षणमप्यनुज्ञातमेवेति दर्शयति-एवञ्चेति । एतदभ्युपगमेऽप्रत्यक्षस्य प्रत्यक्षत्वप्रसञ्जनं यत् क्रियते लिगिनो लिङ्गत्वं प्रसक्तमिति तन्न कर्तुं शक्यं युष्माभिरित्याह-असत्योपाधीति । इदं वैपरीत्यमस्माभिः प्रागेव प्रसिद्धस्य धर्मस्य साधनत्वादप्रसिद्धस्य च साध्यत्वात् कुतो लिङ्गलिशिव्यतिकरदोषाशङ्केति निराकृतमेवेत्याह-यथोक्त इति । वैपरीव्यं
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org