________________
९२७
wwwmawwamam
विवक्षया लिङ्गलिङ्गित्वम्] द्वादशारनयंचक्रम् - तथापि स्याद्विवक्षाभेदात्तथा तथास्वस्वाम्यादिगम्यगमकत्वात् , यथा देवदत्तयज्ञदत्तयोरन्यतरकर्मणा योगःतयोश्चान्योन्यलिङ्गत्वं पर्यायेण विवक्षावशाद्भवति युगपद्धोभयकर्मजसंयोगित्वात् तथा स्वस्वाम्यादिषु, तथाहि............अग्निना धूमानुमानम् , न, संयोग्येकरूपत्वात्तत्काल एवायं व्यतिकरप्रसङ्गः, न, असम्भवात्, प्रत्यक्षत्वाखूमोऽसाध्यः साधनन्तु, साध्यस्त्वग्निरप्रत्यक्षत्वादसाधनम्, धूमोऽपि साध्यश्चेत् प्रत्यक्षमप्रमाणं स्यात्, तदप्रामाण्ये 6 चानुमा निर्बीजा स्यादिति ।
तथापि स्यादित्यादि, न हि लिङ्गस्य लिङ्गित्वे लिङ्गिनो वा लिङ्गत्वे कश्चिद्दोषोऽस्ति, विवक्षाभेदात् , तथा तथास्वस्वाभ्यादिगम्यगमकत्वात्-खं वा गम्यत्वेन गमकत्वेन वा विवक्ष्येत स्वामी वा यदा तदा विवक्षितस्यान्यतरस्य गम्यत्वं गमकत्वं वा यथाविवक्षं दृश्यते, तद्यथा देवदत्तेत्यादि दृष्टान्तः, यथा कस्मिंश्चित् कालेऽन्यतरकर्मणा देवदत्तो यज्ञदत्तेन युक्तो भवति, यज्ञदत्तो वा देवदत्तेन, तयोश्चा- 10 [न्योऽन्यलिङ्गत्वञ्च पर्यायेण विवक्षावशाद्भवति युगपद्वा, उभयकर्मजसंयोगित्वात् , तथा स्वस्वाम्यादिष्विति, तथा हीत्यादि, राज्ञो विशेषितस्य वाजपेयाचरणं तत्कारणाऽऽज्ञयेत्यादि गतार्थमग्निना धूमानुमानमिति,अत्राहन संयोग्येकरूपत्वादित्यादि, नाग्नेः पूर्वं पश्चाद्वा धूमःसंयोगी न धूमाद्वाऽग्निरिति मत्वाऽनिष्टमापाद्यते, अग्निनापि धूमानुमितिप्रसङ्ग इति, किं तर्हि ? तत्काल एव च-अम्युपलब्धिकाल एव धूमोऽस्तीति भवत्येवानिष्टापादनमिति,' अयं व्यतिकरप्रसङ्ग इत्यत्रोच्यते-नासम्भवात् सम्बन्धाविशेषादग्निलिङ्गत्वं च 15 प्राप्तम् , किं तर्हि ? प्रत्यक्षत्वाद्भूमोऽसाध्यः साधनन्तु, साध्यस्त्वग्निरप्रत्यक्षत्वादनुमेयत्वादसाधनम् ,
Wwww
mmmmm
लिङ्गिलिङ्गयोरभ्युपगम्यापि दोषाभावमाह-तथापि स्यादिति । व्याचटे-न हि लिङ्गस्येति, यथाविवक्षं वक्तुर्लिङ्गलिङ्गिभावान्न दोषः। एवमेव खखाम्यादिभावेषु विवक्षाभेदेन खस्य गमकत्वं गम्यत्वं वा खामिनश्च गम्यत्वं गमकत्वं वा भवतु न काचित्
योगा यदाऽन्यतरकर्मप्रभवः तदा विवक्षावशात् कदाचित् स संयोगो देवदत्ते यज्ञदत्तकर्मणा भवति, कदाचिच्च यज्ञदत्तसंयोगो देवदत्तकर्मणा, यदा तूभयकर्मजन्यः संयोगः तदा युगपत्तौ युक्तौ भवतः, एवं 20 पर्यायेण विवक्षाभेदाल्लिङ्गलिङ्गित्वं स्यादिति दृष्टान्तेन समर्थयति-यथा कस्मिंश्चिदिति । ननु लिङ्गे लिङ्गित्वस्य लिङ्गिनि लिङ्गत्वस्य . चापत्त्याऽग्निना योधूमानुमितिप्रसङ्ग उक्तः सोऽनिधूमयोः संयोगः पूर्वोत्तरकालयोर्भवतीति मत्त्वा नोक्तः येन कदाचिदेवं कदाचिच्चान्यथेति पर्यायेण लिमलिङ्गित्वं स्यात्, किन्तु धूमस्याम्न्युपलब्धिकाल एव सत्त्वेन संयोगित्वात्तदानीमेवामेलिङ्गत्वमापाद्यत इति शङ्कते-न संयोग्येकरूपत्वादिति, संयोगित्वस्योभयत्रकरूपत्वादित्यर्थः । अग्निधूमयोः पूर्वोत्तरभावेन संयोगं मत्त्वाऽनिष्टं नापाद्यत इत्याचष्टे-नाग्नेःपूर्वमिति, अग्नेः प्राकाले उत्तरकाले वा धूमः संयोगीति मत्त्वा नानिष्टमापाद्यते धूमात् पूर्व पश्चाद्वाऽग्निः संयोगीति मत्त्वा वा नानिष्टम ग्निना धूमानुमितिप्रसङ्गरूपमापाद्यते येनान्यतरकर्मादिजन्यसंयोगप्रयुक्तविवक्षाभेदाश्रयकादाचित्कान्योन्यलिङ्गता भवेदिति भावः । तर्हि कदाऽऽपाद्यत इत्यत्राह-तत्काल एव चेति, अग्न्युपलब्धिकाल एव धूमः संयोगीति तदैव धूमादग्नेरिवाग्नेधूमस्यानुमितिप्रसङ्गः, कालभेदप्रयुक्तविवक्षायास्तदाऽसम्भवादिति भावः। उत्तरयति-नासम्भवादिति, अग्नेलिङ्गत्वञ्च न सम्बन्धाविशेषात् प्राप्तम् , असम्भवादिति योजना, अमेलिङ्गत्वप्राप्तिर्न सम्बन्धाविशेषप्रयुक्ता प्रोच्यते तदानीं लिङ्गत्वसम्भवस्यायोगादिति भावः । तर्हि कथं ? तत्समर्थयति-प्रत्यक्षत्वादिति, तदानीं हि धूमः प्रत्यक्षः अत एव न साध्यः, किन्तु साधनमेव, अग्निश्चा: 30
३ सि. क्ष. छा. डे. धूमोदाग्नि।
४ सि.
..सि.क्ष. डे. छा. कर्मणो। २ सि.क्ष. डे. छा. संयोगित्वरू। क्ष. छा. हे. 'मितीदं व्यति।
द्वा० न० ४० (११७)
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org