________________
९२८
न्यायागमानुसारिणीव्याख्यासमेतम् [उभयनियमारे धूमोऽपि साध्यश्चेत् प्रत्यक्षमप्रमाणं स्यात् , तदप्रामाण्ये चानुमा निर्बीजा स्यादनुमितिरिति, अपिशब्देन परानुकरणं दोषश्चैषः स्यादिति ।
किञ्चान्यत्
संयोग्येकरूपत्वानुमानाच्चानिष्टापादनमुपेक्षितार्थम्, संयोगित्व...... यत्पुनरुक्तं यस्य त्वविनाभावित्वं................................................ ...............अदोष इति, वयन्तु बमोऽत्र गुणदोषाभिमानः साध्यसाधनधर्मवद्देशाद्यनुमेयत्वमुक्त्वा पुनस्तस्यैव दोषाभिधानादप्रत्यभिज्ञातमग्न्यादिसम्बन्धिदेशस्य लिङ्गित्वं लिङ्गत्वञ्च, न धर्मयोरग्निधूमयोः धूमो लिङ्गं अग्निर्वालिङ्गीत्युक्त्वा यत्पुनरिदमुच्यतेऽग्नितोऽपि धूमा
नुमितिप्रसङ्ग इति, वयं ब्रूमस्त्वां शिक्षा ग्राहयन्त इह देशसाध्यतामुक्त्वा लिङ्गलिङ्गितत्त्वव्यव10 स्थानवृत्तरेवं वक्तव्यमग्निमतोऽपि धूमवदनुमानप्रसङ्गः.................. उभयतोऽपि, तथातथेष्टवद्वत्तेः यदि धूमविषय एतदेव स्यात् , अग्निरेव वाऽनुमेयः तदाऽग्नितो धूमानुमानं धूमादग्यनुमानवत् स्यात् प्रसङ्गः, संयोगिनोरविशेषात् ।
(संयोगीति) संयोग्येकरूपत्वानुमानाच्चानिष्टापादनमनितोऽपि धूमानुमानप्रसंग इति यदेतद्भवसाधनं एतदुपेक्षितार्थम् , तत्प्रदर्शनार्थ साधनं संयोगित्वेत्यादि गतार्थमनिष्टापादनम् , यत्पुनरित्यादि स्वपक्षे 15 दोषाभावप्रदर्शनार्थं यदुक्तं त्वया यस्य त्वविनाभावित्वमित्यादि यावदोष इति, वयन्तु ब्रूमोऽत्र गुणदोषाभिमान इत्यादि, साध्यसाधनधर्मवदेशाद्यनुमेयत्वमुक्त्वा पुनस्तस्यैव दोषाभिधानादप्रत्यभिज्ञातम् , अग्यादिसम्बन्धीत्यादि त्वयैवाभ्युपगतमिति दर्शयति-तस्यैव देशस्य [लिङ्गित्वं] लिङ्गत्वञ्च, न धर्मयोरग्निधूमयोरिति यावल्लिङ्गीति, त्वन्मतमेवेदमिति प्रत्यभिज्ञापयति, इत्थमुक्त्वा यत्पुनरिदमुच्यतेऽग्नितोऽपि धूमानुमितिप्रसङ्ग
इति न्यायदिङ्मूढेन तदिति, कथं पुनरमूढा ब्रुवत इति चेत्-बमस्त्वां शिक्षा ग्राहयन्तः, तद्यथा-इह 20 देशसाध्यतामुक्त्वा लिङ्गलिङ्गितत्त्वव्यवस्थानवृत्तेरेवं वक्तव्यमित्यादि तां न्यायव्यवस्थामनुवर्तमानेन त्वया
प्रत्यक्षोऽत एवानुमेयो न साधनमिति भावः। तदानीमपि यदि धूमः साध्यः स्यात् प्रत्यक्षमप्रमाणं स्यात् , अनिश्चितस्य निश्चयार्थ हि प्रमाणं प्रवर्तते, धूमे यद्यनुमानं प्रवर्तत तर्हि प्रत्यक्षेण सोऽनिश्चित एव स्यात् , ततश्चानिश्चायकत्वात् संशयादिरिवाप्रमाणं स्यादिति भावः । भवत्वप्रमाणं किं नः छिन्नमित्यत्राह-तदप्रामाण्ये चेति, अनुमितो हि अविनाभावो बीजम् , स च प्रत्यक्षेण निश्चीयते, यदि तु प्रत्यक्षमप्रमाणं कथमविनाभावनिश्चयः, अतो निर्बीजाऽनुमा भवेदिति भावः । धूमोऽपीत्यत्रापिशब्दस्य फलमाह-अपिशदेनेति. तदानीं साध्योऽग्निः न तु धूमः त्वदुक्तिवत्तस्य तदानी लिङ्गित्वे इति परमतस्यानुकरणमपिशब्देन क्रियते तत्र च दोष उक्त इति भावः । ननु अग्नितोऽपि धूमानुमान प्रसज्यते संयोग्येकरूपत्वादिति यदनुमानमुच्यते तदुपेक्षितार्थमित्याह-संयोग्येकेति. व्याकरोति-संयोगीति । उपेक्षितार्थत्वमेव प्रसाधयति-संयोगित्वेत्यादीति, मूलमत्र मृग्यम् । अत्र वादिशंका प्रदर्शयतियत्पुनरिति, अत्रापि मूलं मृग्यम् । उत्तरयति-वयन्तु ब्रूम इति, गुणे दोषाभिमानस्ते अग्निविशिष्टदेशस्यैव लिशित्वं लिङ्गत्वञ्चगुणभूतं प्रथममुक्तत्वा पुनस्तत्रैव दोषोऽमिधीयते त्वया, न पुनः स्मर्यते पूर्वोदितम् धर्मयोरनिधूमयोर्मध्ये न धूमो लि* नवाऽग्निलिङ्गीत्यभिधाय पुनरापाद्यतेऽग्नितोऽपि धूमानुमितिप्रसङ्ग इति, इदच मौव्यमेवेति भावः। तहि कथं वक्तव्यमित्यत्राचार्यस्तं शिक्षयति-तद्यथेति, देशस्य साध्यतामुक्त्वा लिङ्गलिङ्गितत्त्वयोर्व्यवस्थामनुवर्तमान एवं वदेः धूमवतोऽभिमदनुमानवत् अग्निमतोऽपि
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org