________________
देशस्यैव लिङ्गलिङ्गिते ]
द्वादशारनयचक्रम्
९२९
इत्थं वक्तव्यमग्निमतोऽपि धूमवदनुमानप्रसङ्ग इत्याद्युपदेशग्रन्थो यावदुभयतोऽपि तन्मतमुपन्यस्य तथातथेष्टवद्वृत्तेरिति तत्कारणोक्तिः, धूमविषय एतदेव स्यात्-धूम एव देशविशेषानपेक्षोऽनुमापकः स्यात्, अग्निरेव वानुमेयः तदानितो धूमानुमानं धूमादन्यनुमानवत् स्यात् प्रसङ्गः, संयोगिनोरविशेषात् ।
Www
अथ पुनर्देशस्य साध्यसाधनत्वान्नास्ति दोषगन्धोऽपि धूमवत्त्वस्य हि लिङ्गत्वं युक्तम्, धूमवत्त्वेन सिद्धस्य देशस्य साधकत्वात्, अग्निमत्त्वविशिष्टदेशस्यैव लिङ्गित्वम्, न ह्यग्निमस्वस्य 5 युक्तं लिङ्गत्वम्, साध्यत्वात् साध्यत्वं लिङ्गित्वात्, लिङ्गित्वमसिद्धत्वात्, अस्मन्मतेन तु लिङ्गत्वमप्यग्निमत्त्वविशिष्टस्य देशस्यैव शक्यं भावयितुं कदाचित्, अत एव मया तत्प्रधानमेोच्यतेऽग्निमतोऽपि धूमवदनुमितिप्रसङ्ग इति ।
( अथेति ) अथ पुनर्देशस्य साध्यसाधनत्वान्नास्ति दोषगन्धोऽपीति, तद्भावयति-धूमवत्त्वस्य हीत्यादि, धूमवत्त्वधर्मविशिष्टस्य देशस्यैव लिङ्गत्वं युक्तम्, धूमवत्त्वेन सिद्धस्य तस्य साधकत्वात्, 10 लिङ्गत्वमपि तद्देशविवक्षया हेतोः, अग्निमत्त्वविशिष्टस्य देशस्यैव लिङ्गित्वं युक्तम्, अग्निविषये तु देशे लिङ्गत्वं न युक्तम्, किं कारणं ? न ह्यग्निमत्त्वस्य युक्तं लिङ्गत्वं साध्यत्वात् साध्यत्वं लिङ्गित्वात्., लिङ्गित्वमसिद्धत्वात्, अस्मन्मतेन तु लिङ्गत्वमप्यग्निमत्त्व विशिष्टस्य देशस्यैव शक्यं भावयितुम्, अभिप्रत्यक्षत्वे धूमा प्रत्यक्षत्वे च कदाचित्, अत एव मया तत्प्रधानमेव - देशप्रधानमेवोच्यतेऽग्नि[म]तोऽपि धूमानुमितिप्रसङ्ग इति ।
www www
अत्राह -
नन्वेवं देशमुपेक्ष्याग्नेरेव लिङ्गित्वं स्यात्, अनुमेयत्वात्, उच्यते, न चासौ लिङ्गी भवितुमर्हति लोके सिद्धत्वात्, तथा चोक्तं त्वयाऽस्मन्मतमेव 'न धर्मो धर्मिणा साध्यः सिद्धत्वात्तेन धर्म्य | धर्मेण धर्मः साध्यः स्यात् साध्यत्वाद्धर्मिणस्तथा ॥ ( ) इति, न धर्मो धर्मिणः
...
धूमवदनुमानं प्रसज्यत इति । तत्र कारणं दर्शयति - तथातथेति, तेन तेन प्रकारेण यथाभिलषितं वृत्तेरुक्तानुमानमपि प्रसज्यते 20 विनिगमनाविरहादिति ब्रुवतेऽमूढा इति भावः । त्वदुक्तप्रसङ्गस्तु देशविशेषनिरपेक्षस्य धूमस्यानुमापकत्वेऽमेरनुमेयत्वे एव संयोगिनोरविशेषात् धूमादभ्यनुमानवत्, अमेरपि धूमानुमानं स्यादिति वक्तुं युज्यत इति दर्शयति- धूम विषय इति । देशस्य च साध्यत्वे साधनत्वे च न कश्चिद्दोष इत्याह- अथेति । कथं दोषगन्धो नास्तीत्यत्राह - धूमवत्त्वेति, धूमवत्त्वं प्रदेशधर्मस्तद्विशिष्टो देशो लिङ्ग, प्रसिद्धत्वात् प्रदेशस्य धूमवत्त्वेन, लिङ्गयपि देश एवाग्निमत्त्वविशिष्टः, एवमेव लिङ्ग लिङ्गिभावो युक्त इति भावः । अग्निमत्त्वविशिष्टदेशस्य लिङ्गत्वन्तु न युक्तमित्याह-अग्निविषय इति । हेतुमाह - साध्यत्वादिति, साधयितुं योग्यत्वादित्यर्थः तच्च लिङ्गित्वात् 25 ज्ञापकतया लिङ्गविशिष्टत्वात् तदपि असिद्धत्वात्-निश्चयाविषयत्वादित्यर्थः, निश्चयाविषय एव हि ज्ञापकतया लिङ्गविशिष्टो निश्चयविषयी क्रियते न तु कृतनिश्चय इति भावः । तदेवं वादिनं शिक्षयित्वा खमतमादर्शयति अस्मन्मतेन त्विति, अग्निमत्त्व विशिष्टो देशो लिङ्गमपि भवितुमर्हति प्रतिपतृमत्यपेक्षया, अभिर्यदा प्रत्यक्षो धूमोऽप्रत्यक्षस्तदाऽग्निमद्देशो लिङ्गम्, धूमवद्देशस्तु लिङ्गीति । अत एव मया देशप्राधान्येनैव त्वां शिक्षां ग्राहयतोच्यतेऽग्निमतोऽपि धूमवदनु मितिप्रसङ्ग इत्याह- अत एवेति । देशानपेक्षा मिसाध्यतामा -
१ सि. क्ष. छा. डे. तन्मनुपर्यस्य० । २ सि. क्ष. छा. डे. रणोति धूमविषय ऐतदेक स्यात् । ३ सि. क्ष. डे. छा. लिङ्गत्वं ।
Jain Education International 2010_04
For Private & Personal Use Only
15
www.jainelibrary.org