________________
९१२ न्यायागमानुसारिणीव्याख्यासमेतम्
[उभयनियमारे व्यापि' इत्यादि, यद्यपि किञ्चिल्लिङ्ग लिङ्गिनि भवत्येव, न तु तत्त्वेन-व्यापित्वेन लिङ्गिनं गमयति तद्यथाविषाणित्वेन गोर्व्यापित्वेऽपि न गोप्रकाशकत्वम , व्यापित्वात्तु तदेव गोत्वेन प्रकाश्यं भवति, किं कारणम् ? 'प्रतिषेध्याप्रचारेण इत्यादिश्लोकः, कृतकत्वस्य ह्यनित्यार्थव्यापित्वेऽपि नित्यत्वप्रतिषेधेन गमकत्वम् , तस्माद्यदनित्यार्थेऽपि कृतकत्वव्यापित्वं तेनाकृतकत्वानवकाशात् अनित्यत्वस्य कृतकार्थव्यापित्वेप्यकृतकत्व5 प्रतिषेधेन गम्यतैव स्यान्न गम[क]त्वे तुल्य[त्वमिति चेन्न, विषाणित्वे व्यभिचारादिति ।
आह च 'नाशिनः कृतकत्वेन' इति (प्रमाणस० ) 'विषाणित्वेन गोव्याप्तिः' इति च (प्रमाणस० ) निर्दिष्टं स्वार्थमनुमानं गम्यगमकनियमव्यवस्थोक्तेः।।
आह चेत्यादि, एतस्यार्थस्य निदर्शनभावनार्थे कारिके 'नाशिनः कृतकत्वेने'त्यादि, 'विषाणित्वेन' इत्यादि च, पूर्विकया कारिकया कृतकत्वेनानित्यत्वं व्याप्तं न साधनम् , अविवक्षितत्वात् , यस्मान्नित्याभा10 वोऽनित्यत्वम् , कृतकोऽर्थो न प्रदर्यते यदनित्यं तत्कृतकमिति, किं तर्हि ? नित्याभावेनाकृतकाभावस्य
कृतकस्य व्याप्तेर्विवक्षितत्वात् कृतकेऽर्थे अनित्यत्वं प्रदर्श्यते यत्कृतकं तदनित्यमिति, द्वितीयया तस्यार्थस्य स्फुटीकरणार्थं विवक्षिताविवक्षितयोाप्योर्व्यभिचाराव्यभिचारनिदर्शनं क्रियते-विषाणित्वाद्गौरिति व्यभिचरति, गोत्वाद्विपाणीति न व्यभिचरति, अतो न गमयति गमयति] चेति, प्रतिषेध्याप्रचाररूपा व्याप्तिर्गमयति
न विधेयप्रचाररूपेति निर्दिष्टं स्वार्थमनुमानम् , गम्यगमकनियमव्यवस्थोक्तेः मयैव न वादवि[धिकारादिभि15 रित्याहोपूरुषिकयोपसंहरत्यन्यापोहिकः ।
www
व्याकरोति-यद्यपीति कृतकत्वानित्यत्वयोः समशीलत्वात् अनित्यत्वे सति कृतकत्वं भवत्येव, तथा कृतकत्वे सति अनित्यत्वं भवत्येवेत्याशंक्योत्तरमाह किश्चिल्लिङ्गं कृतकत्वादि लिगिनि सति-अनित्यत्वे सति भवत्येव तथापि तव्यापकत्वेन रूपेण लिहिनं न गमयति, व्यभिचारसम्भवात् , यथा गोापकं विषाणित्वं न गोप्रकाशकं महिषादिभिर्व्यभिचारात्, किन्तु व्यापकत्वादेव विषाणित्वं
गोत्वेन प्रकाश्यं भवतीति भावः । अनित्यत्वकृतकत्वयोाप्तेरविशेषेण सद्भावेऽपि गम्यगमकभावनैयस कारणमाह-प्रतिषेध्या20 प्रचारेणेति । अत्रार्थे तदीये कारिके उपन्यस्यति-आह चेति । नाशिनः कृतकत्वेन व्याप्तिर्न हि विवक्षिता । अनित्यत्वेन तु
व्याप्तिः कृतकत्वे विवक्षिता॥ विषाणित्वेन गोव्याप्तिर्विषाणित्वं प्रसाधयेत् ।गोत्वव्याप्तिर्विषाणित्वे न गवार्थप्रसाधिका ॥ इति कारिके सम्भाव्यते। व्याचष्टे-एतस्यार्थस्येति । प्रथमकारिकाभावार्थमाह-पूर्विकयेति, प्रथमोपन्यस्तयेत्यर्थः, यदेव कृतकं तदेवानित्यं यदेवानित्यं तदेव कृतकमिति कृतकानित्ययोरभेदः, यदेवाभूत्वा भवनं भावस्य तदेव कृतकत्वं यदेव च भूत्वाऽभवनमनवस्थायित्वं
तदेवानित्यत्वमित्येतावन्मात्रकृतस्तयोर्भेदः, अनुमानञ्च विवक्षापूर्वकम् , ज्ञापकहेत्वधिकारात्, अनित्यत्वस्य कृतकत्वव्याप्तत्वेऽपि न 25 साधनभावः, अविवक्षितत्वादिति भावः। अविवक्षायां हेतुमाह-यस्मादिति, नित्याभावो ह्यनित्यत्वम् , तद्वति कृतकोऽर्थो न प्रदर्श्यते
कृतकत्वं नाभिधीयते यदनित्यं तत्कृतकमिति, निरन्तरसदृशापरापरोत्पत्तिलक्षणविभ्रमकारणसद्भावेनानित्यत्वस्यानिश्चितत्वात् कथञ्चिनिश्चितमकृतकव्यावृत्तेन कृतवत्वेन नित्यव्यावृत्तमनित्यत्वमेव निश्चेयमिति नानिये कृतकोऽर्थः प्रदर्यत इति भावः । तर्हि व प्रदर्यत इत्यत्राह-नित्याभावेनेति, अनित्यत्वेन कृतकत्वं व्याप्तम् , निश्चितत्वेन विवक्षितत्वात् , तेन कृतकेऽर्थे नित्यत्वव्यावृत्तमनित्यत्वं
प्रदर्यते यत्कृतकं तदनित्यमितीति भावः । विरक्षाविवक्षाभ्यां साधनासाधनत्वेऽव्यभिचारव्यभिचारौ निबन्धनं भवतीति निदर्शनमाह 30 द्वितीयया कारिकया-द्वितीययेति, विषाणित्वे गोसाधनता नास्ति महिषाजादौ व्यभिचारित्वेनाविवक्षितत्वात ,गोत्वन्तु विषाणित्व
साधकं भवत्येव, अव्यभिचारित्वेन विवक्षितत्वादिति भावः । भावार्थप्रदर्शनपूर्वकमन्यापोहवादिमतमुपसंहरति-प्रतिषेध्येति, धूमो
सि.क्ष. डे. छा. तथाऽनित्यत्वस्य कृतकार्थव्यापित्वेऽपि अकृतकत्वप्रतिषेधेन गमकत्वं, इति अधिकं रश्यते । २ सि.डे. अनित्यत्वेन कृतकत्वस्याकृतकत्वप्रतिषेधेन गम्यतैव स्यान्न गमत्वे ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org