________________
लिङ्गिनो लिङ्गधर्मत्वशङ्का ]
द्वादशारनयचक्रम्
किञ्चान्यत्-एवञ्चत्यादि, अनेनैव न्यायेन दर्शनबलादेव गमयतीत्युंक्ते यस्तद्विपरीतः प्रकाश[क][प्रकाशकत्वभेदपाठः सोऽप्यसम्यक्, कतमोऽसाविति चेदुच्यते 'सम्बन्धो यद्यपि द्विष्ठः' इत्यादिकारिकाः सामान्याः तद्यथा - ननु द्विगतत्वात् सम्बन्धस्य संयोगिवँल्लिङ्गधर्मेण लिङ्गिना भवितव्यमिति चोदिते नैतदस्ति सम्बन्धो यद्यपि द्विष्ठ इत्यादि, यथा हि सत्यपि द्विगतत्वे सम्बन्धस्य न कदाचिदाधार आधेयधर्मा भवति, नायाधेय आधारधर्मा तथा न कदाचिल्लिङ्गं लिङ्गि भवति लिङ्गि च लिङ्गम्, संयोगी तु यथैकस्तथा द्वितीय 5 इति न तद्वदिह, तथाहि 'लिङ्गे लिङ्गि भवत्येव' इत्यादिश्लोकः यस्माच्च लिङ्गे लिङ्गि भवत्येव तस्माद्युक्तं यदग्निमद्भुमो द्रव्यत्वादीनामस्ति प्रकाशको न तैक्ष्ण्यादीनाम्, यस्माच्च लिङ्गिन्येव लिङ्गं भवति नान्यत्र तस्माद्युक्तं यद्धूमो धूमत्वेनेव पाण्डुत्वादिभिरपि प्रकाशयति न द्रव्यत्वादिभिरित्येवं ह्यवधारणवैपरीत्ये न सम्बन्धो लिङ्ग लिङ्गिनोः ।
www
wwwwwww
ननु च लिङ्गमपि लिङ्गिनि भवत्येव, यथा कृतकत्वमनित्यत्वे, 'कामं लिङ्गमपि व्यापि लिङ्गि - 10 न्यङ्गिन तत्त्वतः । व्यापित्वान्ननु तत्तस्य गमकं गोविषाणवत् ॥ ' ( प्रमा. स. ) यद्यपि किञ्चिल्लिङ्गं लिङ्गिनि भवत्येव, न तु तत्त्वेन लिङ्गिनं गमयति, तद्यथा-विषाणित्वेन गोर्व्यापित्वेऽपि न गोः प्रकाशकत्वम् व्यापित्वात्तु तदेव गोत्वेन प्रकाश्यं भवति, 'प्रतिषेध्याप्रचारेण यस्माद्व्याप्तिरपोहते । लिङ्गे लिङ्गिनि च व्याप्तिः तस्मात् सत्यध्य कारणम् ॥' ( प्रमा. स.) कृतकत्वस्य ह्यनित्यार्थव्यापित्वेऽपि नित्यत्वप्रतिषेधेन गमकत्वम्, तस्माद्यदनित्यार्थेऽपि कृतकत्वव्यापित्वं तेनाकृ- 15 तकत्वानवकाशादनित्यत्वस्य कृतकार्थव्यापित्वेऽप्य कृतकत्वप्रतिषेधेन गम्यतैव स्यान्न गमकत्वे तुल्यत्वमिति चेन्न, विषाणित्वे व्यभिचारात् ।
( ननु चेति ) ननु च लिङ्गिमपि लिङ्गिनि भवत्येव, यथा कृतकत्वमनित्यत्वे, 'कामं लिङ्गमपि स्यैकस्य भेदविवक्षायां साध्यसाधने भवतः, सर्वत्र सपक्षे लिङ्गस्य दर्शनाभावेऽपि लिङ्गत्वाव्याहते: सर्वत्र लिङ्गिनि प्रत्यक्ष धूमसम्बन्धिनि प्रदेशे धूमस्य दर्शना देवान्वयव्यतिरेकयोः प्रतिपत्तिसम्भवात्तद्विपरीतप्रकाशका प्रकाशकत्वपाठभेदो यस्त्वया क्रियते 20 सोऽयुक्त इत्याह- अनेनैवेति । पाठभेदप्रकाशिकाः व्याख्यासहिताः षट्कारिकाः प्रदर्शयति-सम्बन्ध इति, सम्बन्धस्य द्विनिष्ठत्वाद्व्याप्तिरूपसम्बन्धस्याप्युभयत्रकविधत्वात् लिङ्गस्य लिङ्गिधर्मवल्लिङ्गिनोऽपि लिङ्गधर्मत्वं स्यात् तथा च लिङ्ग एव गमको न लिङ्गीति नियमो न स्यादित्याशङ्कायामियं कारिका दिङ्गागेनोक्ता, तदर्थश्चाधाराधेयभावलक्षणसम्बन्धस्य द्वित्वे नाधारस्याधेयत्वमाधेयस्य वाssधारत्वं तथा लिङ्गलिङ्गिनोर्व्याप्तिरपि धूमादावन्यथा, इतरथा चाम्यादौ, धूम एव गमकत्वालि गम्यत्वादग्निरेव लिङ्गी, संयोगी तु न तथा, घटसंयोगि गगनं गगनसंयोगी घट इत्यविशेषात्, न तथेह वृत्तिरिति भावः । 25 कारिकावतरणमाह- ननु द्विगतत्वादिति । कारिकां व्याचष्टे - यथाहीति । व्याप्तेरुभयत्र नैकाकारतेत्यादर्शयति-लिङ्ग इति, तं व्याचष्टे - यस्माच्चेति, साधने सति साध्यं भवत्येव, सति हि धूमे यथाऽग्निर्भवत्येव तथाऽग्नित्वद्रव्यत्वादयोऽपि भवन्त्येवेति तानपि प्रकाशयति धूमः, न तु तैक्ष्ण्यादीन्, ते भवन्त्येवेत्यनियमात् यस्माच्च साध्य एवं साधनं भवति, धूमो हि अर्थान्तरासम्भविभिः धूमत्वपाण्डुत्वादिधर्मैरभिं प्रकाशयति, कार्यगत विशेषधर्माणां कारणगतसामान्यधर्मापेक्षया कार्यत्वनियमात्, न तु द्रव्यत्वादिभिः प्रकाशकः तेषामर्थान्तर सम्भवित्वेनाविनाभावासत्त्वात्, प्रोक्तक्रमे गायोगान्ययोगव्यवच्छे- 30 दरूपयोरवधारणयोर्वैपरीले लिङ्गलिङ्गिनोर्न व्याप्तिरिति भावः । अथ साधनमपि साध्ये सति भवत्येवेत्याशङ्कते - ननु चेति ।
९११
१ सि. क्ष. °त्युक्तेनयः । २ सि. कारिकाः समाप्याः, क्ष. डे. छा. कारिकासामान्यः । ३ सि. छा. गिवल्लिङ्गि धर्मिणो लिंगिन भवि० ।
द्वा० ३८ (११५)
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org