SearchBrowseAboutContactDonate
Page Preview
Page 341
Loading...
Download File
Download File
Page Text
________________ ९१० न्यायागमानुसारिणीव्याख्यासमेतम् [उभयनियमारे स्त्वन्मतेन, पक्षाव्यापिसाधनधर्मत्वात्-सर्वत्र लिङ्गिन्यभावात्-अनियतलिङ्गिसम्भवत्वात् , किमिव स्थाणुपुरुषभावाभावप्रतिपत्तिवत्-यक्षा स्थाणावभवन् वस्त्रसंयमनादिधर्मः पुरुषे च भवन स्थाणुरिति प्रतिपत्त्याधानाधार[धर्म]भावात्मकप्रत्ययाव्यवस्थानकारणत्वात् त] द्विषयसंदेहकृत् , एकदोभयत्राभावात् किं स्थाणुः स्यात् किं पुरुषः स्यात् तथा वयोनिलयनादिः पुंस्यभवन् स्थाणौ भवन उभयविषयं संशयं करोति, यत्र 5 दृष्टस्तत्र निश्चयहेतुरेव, स्थाणौ वयोनिलयनं पुरुषे च वस्त्रसंयमनम् , तत्र भवनात् , तथाऽयमप्यग्निरत्र धूमादिति संदेहहेतुः स्यात् , साध्ये भवनानियमात् ।। यत्तु तदन्यत्रादर्शनं प्रत्यक्षतस्तय॑ते तत्र सपक्षे सर्वत्र दर्शनाभावेऽदोष एव, लिङ्गिन्यदर्शने तु स्याद्दोषः, लिङ्गी चात्र प्रदेशः प्रत्यक्षधूमसम्बन्धी तत्र सर्वत्र दृश्यत एव, तस्माद्धान्तवचनमेतत् सर्वत्र लिङ्गिन्यदर्शनात्त्वदिष्टवत् प्रतिपत्तिरिति, एवञ्च दर्शनबलादेव गमयतीत्युक्ते 10 यस्तद्विपरीतः प्रकाश्यप्रकाशकत्वभेदपाठः 'सम्बन्धो यद्यपि द्विष्ठः सहभाव्यङ्गलिङ्गिनोः। आधाराधेयवद्धृत्तिः तस्य संयोगिवन्न तु ।' (प्रमा. स.) इति “यथाहि सत्यपि द्विगतत्वे सम्बन्धस्य न कदाचिदाधार आधेयधर्मा भवति, नाप्यधेयः आधारधर्मा तथा न कदाचिल्लिङ्गं लिङ्गि भवति लिङ्गि च लिङ्गं, संयोगी तु यथैकस्तथा द्वितीय इति न तद्वदिहेति, तथा हि __ 'लिङ्गे लिङ्गि भवत्येव लिङ्गिन्येवेतरत् पुनः। नियमस्य विपर्यासेऽसम्बन्धो लिङ्गलिङ्गिनोः॥' 15 (प्रमा. स.) यस्माच्च लिङ्गे लिङ्गी भवत्येव तस्माद्युक्तं यदग्निमद्भूमो द्रव्यत्वादीनामस्ति प्रकाशको न तैक्ष्ण्यादीनाम् , यस्माच्च लिङ्गिन्येव लिङ्गं भवति नान्यत्र तस्माद्युक्तं यद्भूमो धूमत्वेनेव पाण्डुत्वादिभिरपि प्रकाशयति न द्रव्यत्वादिभिरिति । यत्तु तदित्यादि, यत्त्वयेदं साध्यादन्यत्रायोगुडाङ्गाराम्यादावदर्शनं प्रत्यक्षतस्तय॑ते धूमस्य तत्र सपक्षे लिङ्गस्य सर्वत्र दर्शनाभावे लिङ्गत्वाव्याख्यानाददोष एव, लिङ्गिन्यदर्शने तु स्यादोषः, लिङ्गी चात्र प्रदेशः 20 प्रत्यक्षधूमसम्बन्धी, तत्र सर्वत्र दृश्यत एव, तस्माद्धान्तवचनमेतत् सर्वत्र लिङ्गिन्यदर्शनात्त्वदिष्टतत्प्रतिपत्तिरिति एकवस्तुधर्मत्वेन च लिङ्गे लक्षण्येन गमकत्वस्य मया प्रतिपादितत्वात्, एतत्रैलक्षण्यप्रत्ययस्य व्यवस्थापने त्वन्मतेन धूमो न क्षमो भवति पक्षाव्यापिसाधनधर्मत्वात् , न सर्वत्र लिङ्गिनि लिङ्गस्य सम्भव इत्यभ्युपगमात् , अयोग्न्यादिव्यतिरिक्तलिङ्गिन्येव लिङ्गस्य सम्भवाभ्युपगमाच्चेति । दृष्टान्तमाह-स्थाणुपुरुषेति, स्थाणुस्वाभावाविनाभाविवस्त्रसंयमनादिधर्मः, पुरुषत्वाविना. भाविवयोनिलयनादिधर्मः प्रत्येक पुरुषस्थाणुप्रतिपत्त्याधानाधारधर्मः, प्रत्येकं यत्र स दृष्टः तत्र तत्प्रतिपत्तिजननात्, तौ च 25-धौ एकदोभयत्र न स्त एव तथा च पुरोवर्तिनि यदा वस्त्रसंयमनादिज्ञानं तदा पुरुषत्वस्य यदा च वयोनिलयनादिधर्मज्ञानं तदा स्थाणुत्वस्योपस्थित्या तटस्थस्य संशयो भवति किमयं स्थाणुर्वा पुरुषो वेति, तयोर्धर्मयोः पक्षाव्यापिसाधनधर्मत्वादिति । प्रत्येकं तयोरविनाभावं दर्शयति-यत्र दृष्ट इति । यच्चायोगुडाङ्गाराम्यादौ धूमो न दृश्यत इत्युक्तं तत्राह-यत्त्विति । व्याचष्टे-यत्त्वयेदमिति त्वया हि साध्यादन्यत्र साधनस्य प्रत्यक्षेणादर्शनं तय॑ते, न तु लिङ्गिनीति भावः । तथा च भावमाह-तत्र सपक्ष इति, निखिलेषु सपक्षेषु लिङ्गेनावश्यन्तया भवितव्यमित्यनियमः, प्रत्यक्षविषयस्येवायोग्यादेरलिङ्गि30 त्वात् तत्र लिङ्गस्यादर्शनेऽपि न लिङ्गत्वं व्याहन्यते लिङ्गिनि तस्यादर्शने हि लिङ्गत्वं विहन्यते, लिङ्गी च प्रत्यक्षतो धूमत्वेन परिदृश्य मानोऽत्रेति शब्दवाच्यः प्रदेश एव, तत्र सर्वत्र धूमो लिङ्ग दृश्यत एवेति भावः । एवञ्च न हि सर्वत्र लिङ्गिनि लिङ्गं सम्भवतीति लिने लिङ्गी भवत्येवेति च प्रतिपत्तिर्धान्तेत्याह-तस्मादिति । अन्योन्यप्रधानोपसर्जनभावेन नियमेन भवन्तौ लिङ्गलिशिनौ देश. ...... --१ सि.क्ष. छा.डे. °धानाधाराभावा० । For Private & Personal Use Only www.jainelibrary.org Jain Education International 2010_04
SR No.002586
Book TitleDvadasharnaychakram Part 3
Original Sutra AuthorMallavadi Kshamashraman
AuthorLabdhisuri
PublisherChandulal Jamnadas Shah
Publication Year1957
Total Pages430
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy