________________
सम्भवतोर्लिङ्गलिङ्गिता] द्वादशारनयचक्रम् भूमो लिङ्गतां लभते, अपक्षधर्मत्वात् , यथा तस्मिन् प्रदेशे प्रभादेः धूमोऽयोग्यादि काले वा, वनस्पतिचैतन्ये स्वापवच्च धूमः सन्देहहेतुः स्यात् पक्षाव्यापिसाधनधर्मत्वात् तत्प्रतिपत्त्याधानाधारधर्मभावात्मकप्रत्ययाव्यवस्थानकारणत्वात् स्थाणुपुरुषभावाभावप्रतिपत्तिवत् ।
अग्निमत्पक्षोपरि विचिकित्सायामित्यादि, पूर्व गमकत्वेन लिङ्गस्य धूमस्य प्राधान्यं गम्यस्य लिङ्शिनोऽग्नेर्गुणभावं दर्शयति यावत्सम्बन्धिमत्प्रतिपत्तिश्चेति, ततः परं यदि च तस्य देशस्येत्यादिना निर्वृत्ता- 5 वनेः प्राधान्यं धूम[7]प्राधान्यञ्च यावल्लिङ्गतां लभत इति पक्षधर्मत्वसपक्षानुगतिविपक्षव्यावृत्तिरूपतां व्याख्याय धूमस्य पूर्वेणाग्निसाध्यतां गमयति, उत्तरेणाग्निविशिष्टदेशसाध्यतां व्याख्याय तद्वलनिवृत्तधूमप्रत्यक्षतायां त्रैलक्षण्येन गमकत्वं धूमस्य व्याचष्टे-तयोरेकवस्तुधर्मत्वादिति-एतदुक्तं भवति सम्भवतोरेव लिङ्गलिङ्गिनोः साध्यसाधनभावोऽन्वयप्राधान्यापोहप्राधान्येन, न चेदिच्छसि ततोऽनिष्टापादनसाधनं-नासम्भवत् धूमो लिङ्गतां लभते, अपक्षधर्मत्वात , त्वन्मतादेव सर्वत्र]लिङ्गिन्यसम्भवात् सिद्धमपक्षधर्मत्वं यत्र यत्रापक्षधर्मत्वं तत्र तत्र 10 तल्लिङ्गत्वाभावः यथा तस्मिन् प्रदेशेऽग्नेः प्रभादेवूमोऽयोम्यादिकाले वा, किश्चान्यत्-प्राक् शब्दे व्याख्यातमधुना लिङ्गेऽप्युच्यते-वनस्पतिचैतन्ये स्वापवदित्यादि, अग्निमानयं देशो धूमवत्त्वादित्यस्मिन् साधने त्वदभिमत्या धूमः संदेहहेतुः स्यात् पक्षाव्यापिसाधनधर्मत्वात् , तद्व्याख्या-तत्प्रतिपत्त्याधानेत्यादिर्दण्डकहेतुः-तस्य प्रतिपत्तिस्तत्प्रतिपत्तिः, तस्या आधानं तत्प्रतिपत्त्याधानं तस्याधारो धर्मः, तस्य भाव आत्मा यस्य स भवति तत्प्रतिपत्याधानाधारधर्मभावात्मकः प्रत्ययः यथास्माभियाख्यातः, तस्य प्रत्ययस्याव्यवस्थाने कारणीभवति स धूम-15
rammamrammam
गम्यगमकभावात् प्रधानोपसर्जनभावेन भवद्भ्यामग्निधूमाभ्यां सम्बन्धिनो देशस्यैकस्यैव मेदविवक्षायां साध्यसाधनभावादेकस्य सम्बन्धिमत्प्रदेशस्य ज्ञानादपरसम्बन्धिमत्प्रतिपत्तिः प्रथमं दर्शयतीत्याह-पूर्वमिति, ज्ञाप्यज्ञापकभावेन प्रधानोपसर्जनभावोऽत्र विज्ञेयः । यदि च देशस्येति ग्रन्थेन वक्तव्यमाह-निर्वृत्ताविति, कार्यकारणभावनात्र प्रधानोपसर्जनभावो बोद्धव्यः । ज्ञाप्यज्ञापकभावलक्षणप्रथमकल्पे धूमोऽग्नेः साधनम् , कार्यकारणभावपक्षेऽग्निमद्देशः साध्यो नामिरित्याह-धूमस्येति । अग्निसामर्थ्याद्भूमस्य निर्वृत्तिः, कार्यकारणभावस्य तद्भावे भावः, तदभावेऽभाव इत्यन्वयव्यतिरेकगम्यत्वेन धूमे त्रैलक्षण्यं दुर्वारम् , अग्निरूपेण परिणत- 20 स्यैव धूमरूपेण परिणतत्वादमिधूमयोरेकवस्तुधर्मत्वमतो धूमो गमकोऽग्निर्गम्य इत्याह-तद्गल निवृत्तेति । लिङ्गिनि साध्ये लिङ्गस्य सम्भव एव, एकस्मिन् देशे प्रधानोपासर्जनभावेन परस्परं तयोनियतत्वात् , तौ च सम्भवल्लिङ्गलिङ्गिनौ अन्वयप्राधान्येन व्यतिरेकप्राधान्येन च साध्यसाधनभावं भजत इति पक्षसत्त्वसपक्षसत्त्वविपक्षव्यावृत्तिरूपत्रैलक्षण्यसम्पत्समन्वितावित्याशयं वर्णयति-एतदुक्तं भवतीति । अन्यथाऽनिष्टमापादयति-न चेदिच्छसीति, सम्भवतोलिङ्गलिङ्गिनोः साध्यसाधनभावं यदि नेच्छसि तर्हि असम्भवद्धमो लिङ्गतां न लभते, पक्षधर्मत्वाभावात् , न सर्वत्र लिङ्गिनि लिङ्गस्य सम्भव इति यतो वाञ्छसि ततोऽप सिद्धमेव, यत्र च प्रभादौ नभोदेशवर्तिनि अपक्षधर्मत्वमस्ति अयोग्यादिकाले वा धूमे न तत्र लिङ्गत्वमस्तीति धूमो लिङ्गं न भवेदिति भावः । यथा वृक्षशब्दोऽव्यापिपक्षधर्मत्वाद्वनस्पतिषु चैतन्यसाधने वापः संदेहहेतुः तथा धूमहेतुरपि, किमयं धूमोऽशेषानित्यत्वाव्यापिप्रयत्नानन्तरीयकत्ववदनुमानं स्यात् ? किं वा वनस्पत्यव्यापिखापवदनुमानाभासः स्यादितीत्याह-प्राक शब्द इति । संदेहहेतुत्वमेव स्पष्टयति-तत्प्रतिपत्याधानेति । तस्येति । अयं भावोऽत्र प्रतिभाति अग्निरिति प्रतिपत्तिजननाधारो धर्मः धूमो धूमवत्त्वं वा तस्य भावस्पैलक्षण्यं स एवात्मा यस्य प्रत्ययस्य त्रिलक्षणो 30 धूम इति ज्ञानस्य त्रिलक्षणधूमकारणत्वस्य वा सः तत्प्रतिपत्त्याधानाधारधर्मभावात्मकप्रत्ययः, प्रदेशस्यैकस्यैव लिङ्गलिङ्गित्वे अभिधाय प्रधानोपसर्जनभावेन भेदविवक्षायां तस्यैव नियतभावत्वात् सम्भवतोरेवानिधूमयोः साध्यसाधनभावस्य
१ सि.क्ष. डे. छा. अग्नेमत्प्रक्षेपरिविछित्साया० ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org