________________
९०८ न्यायागमानुसारिणीव्याख्यासमेतम्
[उभयनियमारे प्रत्यक्षाग्निसामान्यसाध्यत्वे सपक्षाभावादसाधारणत्वमत्रेत्यभिधानवैयर्थ्यश्च स्यात् , तन्माभूदित्यत्रशब्दवाच्यस्यामिविशिष्टस्य धूमविशिष्टत्वेन स्वयमात्मनैवाऽऽत्मनः साध्यत्वात् साधनत्याच्च लिङ्गित्वं लिङ्गत्वञ्चेत्यत आह
अत्रेत्यभिधेयस्य लिङ्गित्वाल्लिङ्गत्वाच्चाग्निमद्धमवत्तयोश्च विभागविवक्षायां साध्यसाधनधर्मभावाल्लिङ्गिनि लिङ्गस्यासम्भवो न सम्भवति, तयोस्तत्रैव प्रधानोपसर्जनभावेन परस्परं नियतभावत्वात् , तौ देशस्यैकस्य भेदविवक्षायां साध्यसाधने भवतः।
अत्रेत्यभिधेयस्य लिङ्गित्वात् [ लिङ्गत्वाश्च ] अग्निमद्भूमवत्तयोश्च विभागविवक्षायां साध्यसाधनधर्मभावादिति, स एव हि प्रदेशोऽग्निमत्त्वेन साध्योऽप्रत्यक्षाग्निकत्वात् धूमवत्त्वेन साधनं प्रत्यक्षधूमकत्वात् तस्माद्विशिष्टदेशसाध्यसाधनधर्मभावात्-लिङ्गिनि साध्ये लिङ्गस्य साधनस्यासम्भवो न सम्भवति 10 सम्भव एव सम्भवतीत्यर्थः कस्मात् ? तयोस्तत्रैव प्रधानोपसर्जनभावेन परस्परं नियतभावत्वात्-अग्निः
प्रधानं धूमनिर्वृत्ती, धूमस्याग्निपरिणामत्वात् तन्निर्वर्त्यत्वात् धूम उपसर्जनं अग्निनिर्वृत्तौ, तत्परिणामत्वाभावात्-अतन्निर्वय॑त्वात् , धूमः प्रधानम् अग्निगतौ तल्लिङ्गत्वात् , तमन्तरेणानिवृत्तेः-अनुपपत्तेः अविनाभावात् , उपसर्जनमग्निः, धूमगतावप्रत्यक्षत्वात्तत्कालदेशयोः, अन्यथा भवत्येवेत्युक्तत्वात् , तेनान्योऽन्य
प्रधानोपसर्जनभावेन नियमेन भवन्तौ तौ-अग्निधूमाख्यौ देशस्यैकस्य भेदविवक्षायां साध्यसाधने भवतः । 15 तव्याख्या
अग्निमत्पक्षोपरि विचिकित्सायां................ ...तत्सम्बन्धिमत्प्रतिपत्तिश्च, यदि च तस्य देशस्य..................... तयोरेकवस्तुधर्मत्वात्, न चेदिच्छसि ततो नासम्भवभाति । प्रत्यक्षेति, अग्निरत्र धूमादित्यत्र नाग्निसामान्यं साध्य, प्रतीतत्वात् , सपक्षाभावात्, अत्रपदवैयर्थ्याच्च, नापि
धूमो हेतुः, अग्निमद्देशेन सहाविनाभावासम्भवादतः प्रत्यक्षविषयीभूतधूमाधारप्रदेशात् परोक्षभूतोऽग्याधारप्रदेशः साध्यते, 20 तस्मात्तस्यैव देशस्य साध्यत्वं साधत्वञ्चेति भावः । इममेव साध्यासाधनभावमाह-अत्रेत्यभिधेयस्येति, एतत्प्रदेशस्यानिमत्त्वेन विवक्षायां तद्रूपेण तस्याप्रत्यक्षत्वात् साध्यत्वम्, धूमवत्त्वेन विवक्षायाञ्च तद्रूपेण तस्य प्रत्यक्षत्वात् साधनत्वम् , तस्मात् सर्वत्र लिजिनि लिङ्गस्य नासम्भव इति भावः । हेतुमाह-तयोरिति, विशिष्टदेशस्य साध्यसाधनभावादेव अग्निधूमयोः साध्यसाधनभाव इति भावः । हेतुं व्याचष्टे-अग्निः प्रधानमिति, धूमोत्पत्तावग्निः प्रधानम् , धूमो हि अग्नेः परिणामः, अग्निश्च धूमनिवृत्ती योग्य इति भावः । धूम इति, अग्निनिर्वृत्तौ धूमो गौणः, नहि धूमपरिणामोऽग्निः, अग्निनिर्वृत्तियोग्यत्वाभावादिति भावः । कार्यकारणभावाश्रयेग प्रधानोपसर्जनभावमुक्त्वा ज्ञाप्यज्ञापकभावाश्रयेण तमाह-धूमः प्रधानमिति, अग्निज्ञानज्ञापकत्वात् , अग्निना विना धूमस्यानुत्पत्तेः, अनुपपन्नत्वाच्चाम्यविनाभावादिति भावः । उपसर्जनमग्निरिति, धूमे ज्ञातेऽपि तस्याप्रत्यक्षत्वात् तद्विशिष्टदेशकालयोरपि तथात्वादिति भावः । तदेवं प्रधानोपसर्जनभावनियमेन देशस्यैकस्यैव अग्निमद्धमवत्तया भेदविवक्षायां साध्यसाधनभावो भवत इत्याह-तेनान्योऽन्येति, लोके हि प्रदेश एवाग्निः प्रतिपद्यते, देशकालाद्यपेक्षयैव कार्यहेतुर्गमकः, यत्र
यदा धूमः तत्र तदा ह्यग्निः साध्यते, न त्वग्निशून्यदेशे भस्मकाले वा, अन्यथा हेतुर्व्यभिचारी स्यात्, तस्माद्देशाद्यपेक्षया 30 धूमवत्तयाऽग्निसाधने गृह्यमाणस्य देशस्य साध्यता न विरुद्ध्यत इति भावः। तदेव व्याचष्टे-अग्निमदिति । पूर्व मयोदितक्रमण
१ सि. क्ष. छा. डे. साध्ये प्रत्यक्षाग्निसामान्यसाध्यत्वे सपक्षाभावादसाधारणत्वमत्रेत्यभिधानवैयर्थं च स्यात्तन्माभूदित्यत्रशब्दवाच्यस्याग्निविशिष्टस्य धूमविशिष्टत्वेन स्वयमात्मनैवात्मनः साध्यत्वात् साधनत्वाञ्च लिङ्गित्वं लिङ्गत्वं चेत्यत आह अत्रेत्यभिधेयस्य लिङ्गित्वादग्निममवत्तयोश्च विभागविवक्षायासाध्यसाधनधर्माभावादिति,स एव हि प्रदेशोऽग्निमत्वेन साध्यो प्र०॥
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org