________________
अनुमानाप्रामाण्यम् ] द्वादशारनयचक्रम्
९०७ यच्च धूम इत्यादि, समासदण्डको यावद्गुणसमुदायोऽसौ नाग्निदेशौ नाम कौचिदपि स्त इति तमेव तदुक्तन्यायं दर्शयति, तज्ज्ञानाभ्यां त्विति-अग्निदेशज्ञानाभ्यां तदर्थाध्यारोपणेनेत्यादिना तमेवाशेषमतीतं ग्रन्थमतिदिशति यावदन्योपादानमात्मनश्च त्याग इति ग्रन्थावधिश्च दर्शयति समानप्रचर्चत्वादिति, एवं तावत् पक्षधर्मस्य चानुपपत्तिाख्याता, किं भवदेव भवति ? उताभवत् अन्यापोहश्च mm गुणसमुदायपरमार्थश्च स्वार्थ इत्यादिविकल्पैरात्मापोहात् सपक्षासपक्षयोरप्येवमेवेत्यतिदिशति-तैरेव विकल्पै- 6 विचार्यमाणयोः सपक्षासपक्षयोरप्यभावात्-सपक्षासपक्षावपि भवन्तावेव भवतः ? उताभवन्तावन्यापोह्यौ गुणसमुदायस्वार्थों वेत्यादिविकल्पैरात्मापोह इति समानत्वात् , आ-कुत आरभ्य ग्रन्थ इति चेदुच्यते किम[न्य त्वेन सामान्यभेदपर्यायवाच्युत विधिः, नन्वित्येतस्माद्न्थावधेरारभ्य ततो ग्रन्थो योज्यः, कियदवधेरिति चेदुच्यते इयद स्मिन्नन्तरे यावदात्मनश्चेत्येतस्य ग्रन्थस्योपर्युपसंहारग्रन्थः प्रागुक्तन्यायप्राण एव, यथा कृतकत्वादेः न पक्षोऽनित्यः शब्दोऽग्निरत्रेति वा स्वार्थपरार्थयोतेनैव न्यायेन न पक्षोऽग्निविशिष्टो देशोऽनित्यत्व- 10 विशिष्टः शब्दो वाऽन्योपोहवादिनः, न भवति न भवतीत्यभवनपरमार्थत्वादुभयतोऽप्यभावमात्रत्वात् तस्मिंश्चासति प्रदेशशब्दादिधर्मिणि पक्षे कुतस्तस्य पक्षधर्मः ? इति पक्षधर्मों न स्तः, एवं नास्य सपक्षो नासपक्ष इति तथा भावितार्थमेव बहुधा, एवमनुमानमप्रमाणमेव, अतत्तत्प्रत्ययात्मकत्वात् , अलातचक्रधीवदिति, पक्षसपक्षासपक्षव्यवस्थानाद्धि त्रैलक्षण्यव्यवस्था ततश्चानुमानप्रामाण्यम् । ...............[१] स्पष्टमन्यत् । अथ पक्षधर्माद्यनुपपत्तिमाह-यच्चेति । समासदण्डक इति, ग्रन्थोऽत्रास्पष्ट इति न व्याख्यायते । 15 अग्नितदाधारदेशस्य च धूमवद्गुगसमुदायरूपतयाऽसत्त्वात् पक्षधर्माद्यनुपपत्तिरिति भावः प्रतिभाति । नन्वमिदेशज्ञानयोरनिदेशावमेदेन प्रतीयेते, तस्मात्तत्र तावध्यारोप्येते, यथा स्वरूपं शब्दोऽर्थात्मसु अध्यारोपयति अयमों गौरिति चेन्न, अविद्यमानतद्रूपत्वेनाध्यारोपासम्भवात् , अनग्निव्यावृत्त्यादितोऽम्यादीनामाक्षेपोऽपि न सम्भवति, आक्षेपे हि यद्यव्यभिचारो निबन्धनं तर्हि द्रव्यत्वादीनप्याक्षिपेत्, अतद्भेदत्वाच्च नाक्षेपः, न ह्यनग्निव्यावृत्त दोऽम्यादय इत्यादिदोषप्रसङ्गेनान्यापोहकृष्छ्रतिरिति लक्षणस्यापवाद आरभ्यते त्वया शब्दान्तरार्थापोहं हि स्वार्थे कुर्वती श्रुतिरभिधत्त इति, इदमपि वचन- 20 मनिर्वाहकमेव, सामान्यादिशब्दान्तरार्थापोहानिष्टेः, तस्मात्त्यक्तोऽन्यापोहः, अनिष्टविधिशब्दार्थत्वप्रसङ्गश्चेत्याद्युक्तमत्र भाव्यमित्यतिदिशति-अग्निदेशज्ञानाभ्यामिति । तदेवमन्यापोहाभावादपक्षो न भवतीत्येवं रूपस्य पक्षार्थस्याभावेन पक्षधर्मोऽप्यनुपपन्न इत्याह-एवं तावदिति । अर्थान्तरापोहेन स्वार्थमभिधत्त इति मताश्रयेणानुपपत्तिमाह-किं भवदेव भवतीति, उक्तपक्षद्वयविचारेणार्थान्तरापोहासम्भवो गुणसमुदायपरमार्थत्वात् खार्थासम्भव इत्यादिप्रागुदितविकल्पैः पक्षाद्यपोह इति भावः । अनेनैव न्यायेन सपक्षासपक्षावपि न स्त इत्याह-सपक्षासपक्षयोरिति । अतिदिश्यमानग्रन्थारम्भमर्यादामाह-कुत 25 आरभ्येति, किं त्वं मन्यसे अन्यत्वे न सामान्यमेदपर्यायवाची वृक्षशब्दः, अविरोधात् , विरोधाच्च पटादीनपोहते इत्याशका नन्विदमेव विधिना वाचकत्वेऽनुमानमित्यादि पूर्वोदितग्रन्थमारभ्येत्यर्थः । पर्यन्तावधिमाह-इयदिति । नन्वेवं कृतकत्वाद्यनुमान स्वार्थमात्मापोहेन नाशयेदेव, अन्यापोहेन स्वार्थप्रतिपत्त्यगमकत्वात् , अन्यापोहशब्दार्थवदिति खार्थानुमानेऽनित्यः शब्द इति न पक्षः, अग्मिरत्र धूमादिति पराथोनुमानेऽग्निरत्रेति च न पक्षः, अभवन परमार्थत्वात् , तस्माच्छब्दप्रदेशयोरभावे कृतकत्वधूमयोः कथं पक्षधर्मत्वमित्याह-यथा कृतकत्वादेरिति । एवं सपक्षासपक्षावपीत्याह-एवं नास्येति । एवञ्च पक्षाद्यत-30 थार्थत्वादतस्मिंस्तदिति प्रत्ययात्मकत्वादनुमानमप्रमाणमेव, अलातचके चक्रमिति प्रत्ययवदिति दर्शयति-एवमिति । व्यवस्थिते हि पक्षादौ लिङ्गे त्रैलक्षण्यसम्भवादनुमान प्रमाणं स्यात् , न चैवं तस्मादप्रमाणमेवेति भावः । अतः परं कियान् ग्रन्थस्युटित इव
सि.क्ष.छा.डे. तं ज्ञान ।२ सि.क्ष. छा. डे. भवनानैव भवत उताभवत्तावन्यावन्यापोह्यौ। ३ सि.क्ष.छा.हे. यवाध्यनुत् विधिः । ४ सि.क्ष. छा. डे. 'भ्यातातो ग्र०। ५ सि.क्ष. छा. डे. प्रामाण्यमविशिष्टत्वेन स्वमात्मनैबा।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org