________________
mmmmmmmmma
९०६
न्यायागमानुसारिणीव्याख्यासमेतम् [उभयनियमारे प्रत्यक्षत्वस्योपपादितत्वात् , एष तु पाठो घटमान उपलक्ष्यते, 'नाप्रमाण[न्तिर]मित्यादि श्लोकः, यदि न प्रमाणान्तरमित्येतदेव प्रत्युच्चारयति यावत् कृतकत्वादिवदिति, ततोऽन्यापोहार्थेत्यादि दोषोपन्यासः, न शब्द एवैकस्मिन्निति यथा मयोक्ताः शाब्दप्रत्यक्षप्रसङ्गादिदोषा अन्यापोहार्थकृताः केवले, किं तर्हि ? तद्विधदोषजालोपनिपातसम्बन्ध्येव तेऽनुमानमपि, तत्कथमिति चेत्तर्हि तदेवं प्रकाश्यते-नन्वेवं कृतकत्वाद्यप्यनुमानं । स्वार्थ परार्थ वा विलक्षणं लिङ्ग शब्दवदुक्तविधिना स्वार्थमात्मापोहेन नाशयेदेव, न न नाशयति, इयं प्रतिज्ञा, हेतुरन्यापोहेनेत्यादि गतार्थः, दृष्टान्तश्च यावदन्यापोहशब्दार्थवदिति साधनम् , तस्य भावना-साधनं धूम इति [अ]धूमो न भवतीति निरन्वयाऽप्रतिपत्तिरेव, प्रतिज्ञा, ग्राह्यस्य दर्शनरहितत्वादिति हेतुः, स्थाण्वस्थाण्वप्रतिपत्तिवदिति दृष्टान्तः, यथा स्थाण्वस्थाणुविषयविज्ञानरहितस्य ग्राह्यस्य [दर्शनाभावादप्रतिपत्तिः निरन्वयत्वात् तथा धूम इत्यधूमो न भवतीति, तद्व्याख्या-गुणसमुदायो हीत्यादि पूर्ववदेव भावनीयं पाण्डुत्वा10 द्यक्षरविशेषं यावत् कुत एवान्यापोहः ? अगृहीतब्राह्मणाब्राह्मणार्थप्रतिपत्तिवदिति साधनेनैव भावितमप्रति
पत्तित्वम् , एवं तावद्भूमार्थ एव न निश्चीयते, किं पुनर्यत्रासौ धूमो गुणसमुदायेऽपरमार्थेऽनौ वर्तते सोऽपि न निश्चीयतेऽमिरित्यर्थः, ताभ्याश्चाग्निधूमाभ्यां ततोऽन्ययो:-अनम्यधूमयोरपोहौ स्याताम् ? तदभावात् कुतः तावपि ? इति ।
यच्च धूम.............गुणसमुदायोऽसौ नाग्निदेशौ नाम कौचिदपि स्तः, तज्ज्ञानाभ्यां 15 तु तदध्यारोपणेनेत्यादि आ नन्वित्येतस्मादन्थात् स एव ग्रन्थो यावदन्योपादानमात्मनश्च त्याग
इति, एवं तावत् पक्षधर्मस्य चानुपपत्तिः किं भवदेव भवति ? उताभवत् ? अन्यापोहश्च गुणसमुदायपरमार्थश्च स्वार्थ इत्यादि विकल्पैरात्मापोहात्, तैरेव विकल्पैर्विचार्यमाणयोः सपक्षासपक्षयोरभावात् , एवमनुमानमप्रमाणमेव, अतत्तत्प्रत्ययात्मकत्वात् , अलातचक्रधीवदिति ।
सङ्गतार्थम् , न तु न प्रमाणान्तरं शाब्दमितीत्याह-एष तु पाठ इति । यदि तु न प्रमाणान्तरं शाब्दमनुमानात्तथाहि तत् , 20 कृतकत्वादिवत् अन्यापोहेन स्वार्थ गमयतीति मन्यते तर्हि अन्यापोहनर्मूल्यादिप्रयुक्ताः प्रागुक्ता दोषाः स्युरित्याह-यदि न प्रमाणान्तरमित्येतदेवेति। न केवलं शब्द एवैते दोषाः, प्रसज्यन्ते, अपि तु ते अनुमानमपि तथाविधदोषजालकलुषितमेव अन्यापोहेन स्वार्थगमकत्वाभ्युपगमादित्याह-न शब्द एवेति । अनुमाने शब्दवत्त एव दोषाः प्रसज्यन्त इति साधनेन दर्शयति-नन्वेवमिति, कृतकत्वाद्यनुमानं स्वार्थ वा परार्थ वा त्रिलक्षणयुतं लिङ्गमवश्यं नाशयति स्वप्रतिपाद्यमर्थमात्मापोहेन,
अन्यापोहार्थनैर्मूल्यस्वार्थत्वांशादर्शनश्रुतिसम्बन्धदौष्कर्यव्यभिचाराभवनपरमार्थत्वादिविधिना शब्दवदन्यापोहेन स्वार्थप्रतिपत्त्यजन25 कत्वादिति मानार्थः। दृष्टान्तमाह अन्यापोहशब्दार्थवदिति, उभयविषयस्यान्यत्वस्याग्रहणेन तदपोहप्रतिपत्त्यजननादन्यापोहशब्दो यथा स्वार्थ नाशयति तद्वदित्यर्थः । आत्मनोऽपोहमेव भावयति धूम इतीति, इयं प्रतीतिः स्वार्थरहिताभावप्रतिपत्तिरेव, स्वार्थाभावेनेयमप्रतिपत्तिरेव, गगनकुसुमादिप्रतिपत्तिवदिति भावः । हेतुमाह-ग्राह्यस्येति, ग्राह्यस्य स्खलक्षणस्यानिर्देश्यत्वादत्यन्तापूर्वत्वानिर्बीजत्वात् , धूमस्य च खार्थस्य संवृतिरूपसमुदायात्मकत्वादभवनपरमार्थत्वाच्च दर्शनाभावादिति भावः । अत्र टीकाकारो दृष्टान्त
माह-स्थाण्विति । व्याचष्टे-यथेति । निरन्वयत्वमेव तावद्दर्शयति-गुणसमुदायो हीति । मूलकृदुक्तदृष्टान्तं दर्शयति30 अग्रहीतेति । तदेवं लिङ्गस्यात्मापोहं निगमयति-एवं तावदिति । एवं स्वस्यैवानिश्चये स्वप्रतिपाद्यस्य वधर्मिणो गुण
समुदायरूपस्यापरमार्थस्याग्नेः कथं निश्चयस्तेन स्यात् ? धूमान्योश्चाग्रहणे कथं तदन्ययोः प्रतिपत्तिः ? कथं वा तदग्रहणेऽन्ययोरपोहो स्याताम् ? अन्यापोहाभावे च कथमन्यापोहेन खार्थप्रतिपत्तिः? नास्त्येवेति स्वार्थमात्मापोहेन नाशयेदेवेत्याह-किं पुनरिति,
१ स. ग्राह्यामद। २ सि. क्ष, धा. स्थाएवस्थाष्वप्र० ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org