________________
९०५
शाब्दस्यानुमान ताभञ्जनम् ]
द्वादशारनयचक्रम्
कांक्षा स्यात
सा तु पक्षस्यैवाभावान्नास्ति व्यतिरेकाकांक्षा, तस्मादन्वयव्यतिरेकौ न स्तः । अथ भवति ज्ञानमिति–विनाप्यन्वयव्यतिरेकाभ्यां भवति ज्ञानं धूमोऽयमग्निरयं वृक्षोऽयमिति, ततः किं ? ततः प्राप्ते प्रत्यक्षे, कतमे ते प्राप्ते ? शाब्दलिङ्गिके अपि ज्ञाने प्रत्यक्षे एव प्राप्नुतः, कस्मात् ? अन्वयव्यतिरेकवियुततथ्यज्ञानत्वात् अविकल्पकत्वात्, सन्निकृष्टार्थवदिति व्याख्यातोऽर्थसङ्ग्रहः साधनं स्वार्थपरार्थानुमानयोः श[T]ब्दलिङ्गिकयोः प्रत्यक्षत्वासञ्जनं गतार्थम् ।
किञ्चान्यत्
अत इदं स्वप्रतिपाद्यवस्तुधर्मत्वे सत्यन्वयव्यतिरेकाभ्यां तस्य गमकत्वादनुमानं शब्द इति पूर्वापरासमीक्षयैवोक्तम्, अन्वयव्यतिरेकरहितत्वस्योक्तत्वात् प्रत्यक्षत्वस्योपपादितत्वात्, एष तु पाठो घटमान उपलक्ष्यते 'नाप्रमाणान्तरं शाब्दमनुमानात्तथा हि तत् । कृतकत्वाद्यपि स्वार्थमात्मापोहेन नाशयेत् ॥' ( ग्रन्थकृतः ) इति, यदि न प्रमाणान्तरं शाब्दमनुमानात्तथा हि 10 तत् । कृतकत्वादिवदिति मन्यते ततोऽन्यापोहार्थकृता दोषाः, न शब्द एवैकस्मिन् दोषाः, तद्विधदोषजालोपनिपातसम्बन्ध्येव तेऽनुमानमपि, नन्वेवं कृतकत्वाद्यप्यनुमानं स्वार्थमात्मापोहेन नाशयेदेव, अन्यापोहेन स्वार्थप्रतिपत्त्यगमकत्वात्, अन्यापोहशब्दार्थवत्, धूम इत्यधूमो न भवतीति निरन्वया प्रतिपत्तिरेव, ग्राह्यस्य दर्शनरहितत्वात्, अगृहीतब्राह्मणाब्राह्मणार्थप्रतिपत्तिवत् गुणसमुदायो हि धूमाख्योऽर्थः पाण्डुबहलोत्सङ्गाद्यानन्त्ये धूमाभावात्, संवृतिमात्रत्वाच्च 10 समुदायःस्य तदर्थागतेः कुत एवान्यापोहः ? एवं तावद्धूमार्थ एव न निश्चीयते, किं पुनर्यत्रास धूमः स ताभ्याञ्चान्ययोरपोहौ ? तदभावात् कुतः तावपि ? इति ।
अत इदमित्यादि । स्वप्रतिपाद्यवस्तुधर्मत्वे सत्यन्वयव्यतिरेकाभ्यां तस्य गमकत्वात् अनुमानं शब्दो नानुमानादन्यत् प्रमाणमित्येतदप्यत एव पूर्वापरासमीक्षयैवोक्तम्, अन्वयव्यतिरेकरहितत्व स्योक्तत्वात्,
5
तथापि यदि भवतीत्युच्यते तदा दोषमादर्शयति-अथ भवतीति, प्रत्यक्ष भिन्नप्रमाणान्तरतयाऽभ्युपगतं शाब्दं लैङ्गिकच ज्ञानं 20 प्रत्यक्षमेव स्यात्, अन्वयव्यतिरेकाजन्ययथार्थज्ञानत्वात्, अयथार्थज्ञानवारणाय यथार्थेति, प्रत्यक्षवदिति दृष्टान्त इति भावः । तमेव हेतुं दर्शयति-अन्वयेति, अन्वयव्यतिरेकाभ्यामसंस्पृष्टं कारणतया प्रतिभासतया वा तथा तथ्यं साक्षाद्विषयजन्यं ज्ञानं तद्भावस्त स्मात् इन्द्रियसन्निकर्षानन्तरभाविप्रत्यक्षं विषयजन्यमनुवृत्तिव्यावृत्तिधर्मानवभासि तद्वदेव लैङ्गिकं शाब्दश्च ज्ञानं तथ्यमन्वयात्मकसामान्यव्यतिरेकात्मकव्यावृत्तिरहितश्चात एव जात्यादिकल्पनाशून्यत्वादविकल्पकमिति भावः । शब्दस्यानुमानता साधकं हेत्वन्तरं दूषयति-अत इदमिति, शाब्द लैङ्गिकयोरन्वयव्यतिरेकव्यतिरेकेण भवनस्यापादितत्वादेवेत्यर्थः, खेन प्रतिपाद्यं यद्वस्तु तद्धर्मत्वे सति 25 अन्वयव्यतिरेकसहकारेण स्वार्थगमकत्वादनुमानं शब्द इति यदुच्यते तद्विरुद्धम्, शब्दो हि स्वप्रतिपाद्यस्य वृक्षार्थस्य धर्मः अन्वयव्यतिरेकराहित्येन वृक्षार्थस्य गमकश्च सपक्षासपक्षाभावात् धूमादिरपि स्वप्रतिपाद्यस्याभ्यादेर्धर्मः सपक्षासपक्षाभावादेव तुल्यातुल्यवृत्त्यवृत्त्यभावादन्वयव्यनिरेकरनिपेक्षेग अन्यादेर्गमकः अत एव शाब्दं लैङ्गिकं च ज्ञानं प्रत्यक्षमित्युपपादितमित्यतो विरुद्धमिति भावः । एतदेव निरूपयति-स्वप्रतिपाद्येति । तन्निराकरोति - अत एवेति, अन्वयव्यतिरेकापेक्षा रहितज्ञानत्वादेवेत्यर्थः, उपपादितं हि अन्वयव्यतिरेकरहितत्वं प्रत्यक्षत्वञ्च तदसमीक्षयैव त्वयोच्यत इति भावः । अतोऽप्रमाणादनुमानान्नाप्रमाणान्तरं शाब्दमित्येव 30
१ सि. क्ष. प्राप्ते शाब्द० ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org