________________
९०४ न्यायागमानुसारिणीव्याख्यासमेतम्
[उभयनियमारे तद्भावयति-अग्निरत्र धूमादित्यस्मिन्नपि स्वार्थानुमाने गुणसमुदायो हि धूमाख्योऽर्थ इति, वृक्षस्य मूलादिकोटराद्यानन्त्ये वाच्यत्वाभाववद्बहलकुटिलत्वाद्यानन्ये च धूमत्वाभावो ज्ञातसम्बन्धत्वाभावात् । संवृतिमात्रत्वाच्च समुदायस्य तदर्थागतेः, तस्मात्तद्वारेण[न]नुमानमित्यलक्षणं लिङ्गं स्वार्थमात्रस्यापीति, इति तदेकलक्षणतापि
नैव, इत्थं-उक्तस्वार्थमात्रस्यालक्षणत्वे कुत एव तस्यागृहीतत्वात् स भवति धूमो नाधूमः, अन्यो न भवतीत्य5 विषयत्वादुभयप्रतिपत्तेरभावेऽन्याभावादन्यापोहः ? कुतोऽग्निरित्यनग्निर्न भवति, धूम इत्यधूमो न भवतीति च दूरत एवैतत् तन्न घटामियति ।
पक्षधर्मे च वाऽग्निः धूमस्याधारः प्रामोत्यनुमेयत्वादिति सपक्षस्य तुल्यादेरभावस्तदभ्युपगमे पक्षाभावः, प्रागुक्तशब्दानुमानविषयवदिति तस्मिन्नेव पक्षधर्ममात्रलक्षणा वृत्तिः स्याद. न्यत्र न, तस्मादन्वयव्यतिरेको न स्तः, अथ भवति ज्ञानं धूमोऽयमग्निरयं वृक्षोऽयमिति ततः 10 शाब्दलिङ्गिके अपि ज्ञाने प्राप्ते प्रत्यक्षे, अन्वयव्यतिरेकवियुततथ्यज्ञानत्वात्, सन्निकृष्टार्थवत्।
पक्षधर्मे च वेत्यादि, यथैव वृक्ष एव न कश्चित् सपक्ष इति प्रसञ्जिता शब्द[स्य ]र्थेि वृत्तिः तथाऽग्निरिति पक्षधर्म[स्य धूमस्याधारः प्राप्नोति, अनुमेयत्वादिति सपक्षस्य तुल्यादेरभावः तदभ्युपगमे पक्षाभावः, प्रागुक्तशब्दानुमानविषयवदिति तस्मिन्नेव वृत्तिः स्यात् पक्षमात्रे, सपक्षाभावात् , सा कीदृशीति
चेदुच्यते-पक्षधर्ममात्रलक्षणा, किमुक्तं भवति न तुल्यान्वयात्मिका, अन्वयार्थाभावात् न स्याद्वृत्तिः, अन्यत्र 15 नेत्यादि, पक्षधर्मस्य चान्यत्र सपक्षे वृत्तौ तुल्ये तद्वदतुल्येऽपि वृत्तिः स्यात् इत्याशङ्काया व्यावृत्तये व्यतिरेका
अग्निरत्रेति, अपिशब्देन शब्दार्थ इवेति सूच्यते तत्र यथा वृक्षो गुगसमुदायरूपः संवृतिरूपत्वादसन् तथा धूमोऽपि बहलकुटिलवतुलोच्चपाण्डुत्वादिगुणसमुदायरूपः, मूलकोटरादिगुणानामानन्त्येन सम्बन्धग्रहासम्भवादज्ञातसम्बन्धेन वृक्षशब्देन यथाऽवाच्यत्वं तथैव बहलकुटिलादीनामानन्त्यान्यभिचाराचाविनाभावसम्बन्धग्रहासम्भवादगमकत्वादलिङ्गत्वमिति भावः। ननु बहलकुटिलादि
नामानन्त्य भवतु नाम, तेषां समुदायो हि धूम उच्यते, स च ज्ञातसम्बन्ध एवेत्यत्राह-संवृतिमात्रत्वाच्चेति, कल्पितो हि 20 समुदायो न पारमार्थिकः, तस्मान्न ततो धूमस्य ज्ञानमिति समुदायद्वारेणापि नानुमानसम्भव इति न धूमादिलिङ्गमन्यादेर्गमकमिति
भावः । तदेवं धूमो न स्वार्थमपि गमयितुं क्षम इति स्वरूपापरिज्ञानादयं धूमो न त्वधूम इति, अग्निरयं न त्वनग्निरिति स्वपरयोर्विज्ञानाभावादुभयविषयोऽन्यापोहः कथं भवतीत्याह-उक्तस्वार्थमात्रस्येति । पक्षधर्म धूममभ्युपेत्यापि दूषणमाह-पक्षधर्म च वेति। ननु वृक्षशब्दार्थोऽवृक्षान्निवृत्तिमात्रं तदेव वृक्षत्वं, तथा च सर्वे वृक्षाः पक्षान्तर्गताः न हि कश्चिदस्ति साध्यधर्मसामान्येन पक्षभिन्नः पक्षसमानः यः सपक्षो भवेत् तस्मात्तत्रैव वृत्तिः शब्दस्येति यथोक्तं तथैव लिङ्गस्याप्यन्यापोहेन स्वार्थबोधनादनग्निनिवृत्तिमात्रमग्नित्वं 25 तच्च सर्वेष्वमिषु, न च स कश्चिदग्निरस्ति अग्निसदृशोऽग्निभिन्नो यः सपक्षो भवेत् , तस्मात् स एव धूमस्य पक्षधर्मस्याधारः स्यात्, तत्रैव धूमः पक्षधर्ममात्रत्वेन वृत्तिः स्यात् न तु सपक्षवृत्तिः सपक्षाभावादित्याशयेन व्याचष्टे-यथैव वृक्ष एवेति । पक्षधर्ममात्र. लक्षणेत्यत्र मात्रपदार्थ स्फुटयति-किमुक्तम्भवतीति, तुल्यधर्मरूपा न वृत्तिः, तुल्यस्य सपक्षस्यान्वयविषयस्यैवाभावान्न तद्धर्मों धूम इति भावः । यदि पक्षादन्यत्र धूमो वृत्तिः स्यात्तर्हि अन्यत्र तुल्य एव वर्तते नातुल्य इत्यत्र नियामकाभावात् पक्षादन्यत्वस्य च
तुल्येऽतुल्ये च समानत्वादतुल्ये वृत्तित्वशङ्का स्यात, तद्यावत्तनाय च व्यतिरेकस्य तदभावे तदभाव एवेत्येवंविधस्याकाङ्क्षा स्यात्, 30 यदा च सपक्ष एव नास्ति ततः कुतो विपक्षवृत्तित्वशङ्का तस्मान्नास्त्यन्वयव्यतिरेको, अत एकलक्ष
पक्षधर्मस्य चेति । ननु सपक्षवृत्तित्वासपक्षवृत्तित्वाभावेनान्वयव्यतिरेकाभावात् कथं शब्दलिङ्गाभ्यां स्वार्थलिङ्गिप्रतिपत्तिः स्यात्,
२ सि. क्ष. डे. छा. °मात्रत्वाल्लक्ष।
३ सि. क्ष. छा. डे० पक्षधर्मोधूम
१ सि.क्ष. छा. डे. छा. "भावात् । स्यधा.। ४ सि.क्ष. डे. सत्यावृत्तौ :
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org