________________
mmmm
शब्दलियोकलक्षणता] द्वादशारनयचक्रम्
९०३ सन्निधानमप्यकारणम् । किमिव ? साध्यधर्मसाधनव्याप्तिवत्-यथा यत्कृतकं तदनित्यमिति कृतकत्वस्यानित्यत्वेनाविनाभावेन व्याप्तत्वादविनाभाविनोऽनित्यत्वस्य गतिः कृतकत्वादिष्टा, न तु यदनित्यं तत्कृतकमित्यनित्यत्वस्य कृतकत्वेनाविनाभाविना व्याप्तौ सत्यामप्यगतेरन्यत्र तदभावे सत्यविवक्षितत्वात् प्रयत्नानन्तरीयकत्वादौ त्वन्मतेन यथा तथेहाप्यन्वयव्यतिरेको सन्निहितावप्यकारणम् , शब्दार्थे पक्षधर्मत्वमात्रात्तद्गतेः, तस्मादन्वयव्यतिरेकसन्निधानेऽप्यकारणत्वान्नार्थः शब्दार्थगतौ ताभ्याम् , यथाऽनुमानविचारेऽभिहितं 'प्रतिषेध्याप्रचा- 5 रेण यस्माद्व्याप्तिरपोहते । लिङ्गे लिङ्गिनि[च]व्याप्तिस्तस्मात् सत्यप्यकारणम् ॥' इत्यादिकारिकार्थानुगमः कार्यः, ततः किम् ? ततस्तयोरकारणत्वात् पक्षधर्मत्वमात्रकारणत्वादेकलक्षणं शब्द[वत ]लिङ्गमपि, अनुमानत्वात् , एकलक्षणत्वाच्च विरुद्धमपि तेऽनुमानमित्यापन्नम् , एकलक्षणत्वाच्छब्दवत् , अभिमत त्रिलक्षणलिङ्गवत्त्वमत्रेष्टं एकलक्षणत्वमसिद्धमित्यत आह स्मारणार्थमुक्तन्यायसिद्धस्यैकलक्षणत्वस्य-उक्तवत्-शब्दद्वदिति।
शब्दोऽपि वा नानुमानं विरुद्धवदिति लिङ्गस्यापि प्राप्तम् , व्यर्थतैव वा,स्वार्थस्यासम्भवात्, 10 पक्षधर्ममात्रस्याप्यभावोऽनध्यवसायात् म्लेच्छशब्दज्ञानवत् , विपर्ययाद्वा विरुद्धज्ञानवदग्निरत्र धूमादित्यस्मिन्नपि स्वार्थानुमाने गुणसमुदायो हि धूमाख्योऽर्थः बहलकुटिलत्वाद्यानन्त्ये च धूमत्वाभावो ज्ञातसम्बन्धत्वाभावात्, संवृतिमात्रत्वाच्च समुदायस्य तदर्थागतेस्तद्वारेण नानुमानमित्यलक्षणं लिङ्गं स्वार्थमात्रस्यापीति तदेकलक्षणतापि नैव, इत्थं कुत एव तस्यागृहीतत्वादुभयप्रतिपत्तरभावेऽन्यापोहः ?
शब्दोऽपि वा[ ना]नुमानं विरुद्धवदिति शब्दस्यानुमानत्वाभावे लिङ्गस्यापि प्राप्तमेव, अन]नुमान[त्वं]द्वयोरपीत्यभिप्रायः, व्यर्थतैव वेत्यादि, शब्दवल्लिङ्गस्य वैयर्थ्य प्राग्व्याख्यातविधिना योज्यम् , खार्थस्येति, पक्षधर्ममात्रस्याप्यभावोऽनध्यवसायात् , म्लेच्छशब्दज्ञानवत् , विपर्ययाद्वेति, विरुद्धज्ञानवत , दृष्टान्तमाह-साध्यधर्मेति, साध्यधर्मेऽनित्यत्वे या साधनस्य कृतकत्वस्य व्याप्तिः सा यथा न साध्यसाधिका तद्वदित्यर्थः । दृष्टान्तमेव व्याकरोति-यथेति, कृतकत्वनिष्ठाऽनित्यत्वव्याप्तिर्गमकत्वेन विवक्षिता, अव्यभिचारात्, अनित्यत्वनिष्ठा तु कृतकत्व-20 व्याप्तिन गमकत्वेन विवक्षिता, व्यभिचारात्, अनित्यस्य सर्वस्य प्रयत्नानन्तरीयकत्वाभावेन कृतकत्वाभावात् नानित्यत्वेन कृतकत्वस्य गतिरिति भावः । दार्टान्तिकमाह-तथेहापीति, शब्दे पक्षधर्मतामात्रेणार्थगतेलिङ्गेऽपि तस्यैव लक्षणत्वौचित्यात् सन्निहितावप्यन्वयव्यतिरेको न कारणमिति भावः । उक्तञ्चैतदनुमानविचारे त्वयैवेत्याह-यथेति । प्रतिषेध्येति, यस्मात् प्रतिषेध्यमपोहते व्याप्तिन प्रकर्षेण गमयति, सा लिङ्गे लिङ्गिनि च यद्यपि वर्तते तथापि तस्मादेव क्वचित् सा सत्यपि न कारणमिति तदर्थः, भावार्थस्त्वने व्यक्तीभविष्यति । सन्निहितयोस्तयोरकारणत्वं भवतु तेन किमित्यत्राह-ततस्तयोरिति । 25 तदेवं प्रथममेवोक्तस्यानुमानत्वाद्विलक्षणत्वसाधनस्योपसंहारः । अननुमानत्वं तावदाह-एकलक्षणत्वादिति। ननु लिङ्गे त्रिलक्षणत्वमेवेष्टमिति हेतुरयमसिद्ध इत्यत्राह-अभिमतेति। शब्देऽप्यननुमानत्वं साधयति-शब्दोऽपि वेति। ननु लिङ्गे शब्दे प्रोक्तदोषा वाच्याः तत्कथमत्र शब्देऽननुमानत्वं साध्यत इत्यत्राह-शब्दस्येति, एकलक्षणत्वादिति भावः । तदेकस्याप्यभवनपरमार्थत्वेनासत्त्वाव्यर्थता लिङ्गस्य, लिनिनोऽभावादित्याशयेनाह-शब्दवदिति। अग्नेधूमज्ञाप्यस्यार्थस्यासत्त्वात्तद्वद्भूमस्याप्यभावोऽभवनपरमार्थत्वेनाध्यवसायाविषयत्वात् , यथा मेच्छोदितशब्दस्य परिज्ञानं न भवतीत्याह-पक्षधर्ममात्रस्यति, पक्षधर्मतयाभिमतस्य 30 लिङ्गस्येत्यर्थः । अनुमानस्यास्य विपरीतप्रतिपत्त्यात्मकत्वाद्विरुद्धज्ञानवदननुमानतेत्याह-विपर्ययाद्वेति । कथं विपर्यय इत्यत्राह
15
१ सि. स्वयंमा० क्ष. छा. डे. र्थेन्वत्यामा। २ सि. क्ष. छा. डे. विरूद्धोऽपि । ३ °वत्वमात्रांष्टा०, क्ष. डे. वश्वमाशब्दो०। ४ सि.क्ष.डे. वानुमानं। ५ सि.क्ष.डे.छा. न्यथतेत्तदवेत्यादि। ६ सि. सायोयावत्. क्ष.छा.डे. सायबत्।
द्वा० ३० (११४)
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org