________________
www
mmmmmmm
९०२ न्यायागमानुसारिणीव्याख्यासमेतम्
[उभयनियमारे अथवा शब्दस्याप्रामाण्यं प्रतिपन्नमेव त्वया, यस्मादेतत्त्वन्मतानुसार्येव ज्ञापकं 'शास्त्रेषु प्रक्रियाभेदैः' (वाक्य० का० २, श्लो० २३५) इत्यादिश्लोको गतार्थः, एवं सर्वत्रातुल्य इत्यादि लिङ्गवच्छब्दोऽनुमानं भवति प्रमाणमेव वा नभवतीत्युक्तस्यार्थस्य यथाप्रतिज्ञं प्रतिपादितस्योपसंहारः ।
प्रोक्तार्थक्रमसङ्ग्रहात्मकेन लिङ्गमपि शब्दवन्न भवतीत्युपपादयिष्यामीत्यत आह - 6 शब्दवत्तु लिङ्गाद्वैलक्षण्यमेव स्यादनुमानत्वात् , अननुमानं वाऽद्विलक्षणत्वादसाधारणवत्, अन्वयव्यतिरेकाभावात् पक्षधर्मत्वमानं विरुद्धवत्, सपक्षवृत्त्यभावात्, किमुक्तं भवति अन्यत्र वृत्त्यसम्भवात्, अत एवान्वयाभावाव्यतिरेकव्यापारावकाशाभावस्तस्मादेकलक्षणं शब्दवदिति, सन्निधानमप्यनुमानत्वार्थप्रतिपत्तावकारणम्, तावन्तरेणापि तदुपपत्तेः, साध्यधर्मसाधनव्याप्तिवत्, ततस्तयोरकारणत्वात् पक्षधर्मत्वमात्रकारणत्वादेकलक्षणं शब्द10 वल्लिङ्गमपि, अनुमानत्वात्, एकलक्षणत्वाच्च विरुद्धमपि, उक्तवत् ।
__ शब्दवत्तु लिङ्गाद्वैलक्षण्यमेव स्यादित्यादि, प्रथममेव तावदनुमानत्वाच्छब्दव[द]द्वि. लक्षणं लिङ्गमिति साधयति, ततोऽद्विलक्षणत्वादसाधारण[वत् ]इत्यादि यदुक्तमनन्तरं शब्दे दोषजातं तत्सर्वं लिङ्गस्य शब्दवदित्येवोक्तक्रमेण ज्ञेयमेकलक्षणत्वम् , अन्वयव्यतिरेकाभावात् पक्षधर्मत्वमानं विरुद्धवदिति शब्दे यदुक्तं तल्लिङ्गे, अस्य व्याख्या-सपक्षवृत्त्यभावात्, किमुक्तं भवति-अन्यत्र वृत्त्यसम्भवात् 16 पक्षादन्यत्रावृत्तेरित्यर्थः, अत एवान्वयाभावाद्व्यतिरेकव्यापारावकाशाभावः, तस्माद्व्यतिरेकव्यापारावकाशाभावात् एकलक्षणं शब्दवदिति लिङ्गमपि शब्दस्येवैकलक्षणं प्रागुक्तं विरुद्धवदन्वयव्यतिरेकाभावादिति, सैन्निधानमप्यनुमानत्वार्थप्रतिपत्तावकारणम् , तावन्तरेणाप्यनुमानत्वोपपत्तेः विनापि ताभ्यामर्थगतेस्तयोः
विकल्पप्रतिभास्यर्थविषयतायाः शब्दस्य त्वया स्वीकृतत्वाच्छब्दप्रतिभास्यर्थस्य च विपरीताकाराभिनिवेशितार्थान्तरीयप्रत्ययेषु
भावादतथाविधे तथाविधप्रत्ययजनकत्वाच्छब्दोऽप्रमाणमेवेत्याशयेनाह-अथ वेति । शब्दात् परस्परविरुद्धार्थप्रतिभासो भवतीत्य20 त्रमतान्तरीयसंवादमाह-शास्त्रेष्विति । एवं सर्वत्रेत्यादिग्रन्थो पूर्व प्रतिज्ञातस्य लिङ्गवच्छब्दोऽनुमानमित्यस्य सर्वत्रातुल्य
एव वृत्तिः शब्दस्येत्यनेनोपसंहारः, अननुमानं तर्हि शब्द इत्यस्य चोपसंहारोऽप्रामाण्यं वेत्यनेन कृत इत्याह-एवं सर्वत्रेति । पूर्वोदितार्थान् क्रमेण संगृह्य शब्दवल्लिङ्गमपि अनुमानत्वेनाद्विलक्षणं यद्वा प्रमाणं न भवतीति निरूपयिष्यामीत्याचष्टेप्रोक्तार्थेति। शब्दस्यैकलक्षणत्वेऽपि यथाऽनुमानत्वमिष्टं तथैव लिङ्गस्याप्यनुमानत्वादद्वैलक्षण्यं स्यादिति निरूपयति-शब्द
वत्त्विति, शब्द इव लिङ्गमप्यद्विलक्षणं स्यात् , अनुमानत्वादिति भावः । व्याचष्टे-प्रथममेवेति । अद्विलक्षण25 त्वसिद्धावननुमानं वा तर्हि लिङ्गमद्विलक्षणत्वादसाधारणवदित्यादिग्रन्थं योजयित्वैकलक्षणत्वमुपपादनीयमित्याह-तत इति ।
तदेव दर्शयति-अन्वयव्यतिरेकाभावादिति, पक्षादन्यत्रावृत्तेस्सपक्षवृत्त्यसम्भवेनान्वयाभावः, ततश्च व्यतिरेकोऽपि नास्ति, सपक्षवृत्तित्वं ह्यसपक्षावृत्तित्वरूपं तत एव सपक्षवृत्तित्वाभावेऽसपक्षावृत्तित्वरूपो व्यतिरेकोऽपि नास्तीति दर्शयति-किमुक्तमिति। तात्पर्यमाह-लिङ्गमपीति, पक्ष एव वृत्तेः पक्षस्यासपक्षत्वाच विरुद्धत्वं तन्मात्रवृत्तिलिङ्गस्येति
भावः । यत्र क्वचिल्लिङ्गे पक्षधर्मत्वस्येवान्वयव्यतिरेको सन्निहितौ तत्रापि तावकिञ्चित्करावेव, अन्तरेणापि ताभ्याम 30 नुमानस्य शब्दाचार्थगतेः सम्भवादित्याह-सन्निधानमपीति, अन्वयव्यतिरेकयोः सन्निधानमपीत्यर्थः । तयोरकिञ्चित्करत्वे
१क्ष. छा. यथार्थप्रतियादितः । २ सि. छा. क्ष. डे. सङ्ग्रहात्मकलिङ्ग। ३ सि.क्ष. छा. डे. सन्निहिसामप्पनुमानत्वं अर्थप्रतिपत्तावकारणत्वं ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org