Book Title: Dvadasharnaychakram Part 3
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah

View full book text
Previous | Next

Page 360
________________ देशस्यैव लिङ्गलिङ्गिते ] द्वादशारनयचक्रम् ९२९ इत्थं वक्तव्यमग्निमतोऽपि धूमवदनुमानप्रसङ्ग इत्याद्युपदेशग्रन्थो यावदुभयतोऽपि तन्मतमुपन्यस्य तथातथेष्टवद्वृत्तेरिति तत्कारणोक्तिः, धूमविषय एतदेव स्यात्-धूम एव देशविशेषानपेक्षोऽनुमापकः स्यात्, अग्निरेव वानुमेयः तदानितो धूमानुमानं धूमादन्यनुमानवत् स्यात् प्रसङ्गः, संयोगिनोरविशेषात् । Www अथ पुनर्देशस्य साध्यसाधनत्वान्नास्ति दोषगन्धोऽपि धूमवत्त्वस्य हि लिङ्गत्वं युक्तम्, धूमवत्त्वेन सिद्धस्य देशस्य साधकत्वात्, अग्निमत्त्वविशिष्टदेशस्यैव लिङ्गित्वम्, न ह्यग्निमस्वस्य 5 युक्तं लिङ्गत्वम्, साध्यत्वात् साध्यत्वं लिङ्गित्वात्, लिङ्गित्वमसिद्धत्वात्, अस्मन्मतेन तु लिङ्गत्वमप्यग्निमत्त्वविशिष्टस्य देशस्यैव शक्यं भावयितुं कदाचित्, अत एव मया तत्प्रधानमेोच्यतेऽग्निमतोऽपि धूमवदनुमितिप्रसङ्ग इति । ( अथेति ) अथ पुनर्देशस्य साध्यसाधनत्वान्नास्ति दोषगन्धोऽपीति, तद्भावयति-धूमवत्त्वस्य हीत्यादि, धूमवत्त्वधर्मविशिष्टस्य देशस्यैव लिङ्गत्वं युक्तम्, धूमवत्त्वेन सिद्धस्य तस्य साधकत्वात्, 10 लिङ्गत्वमपि तद्देशविवक्षया हेतोः, अग्निमत्त्वविशिष्टस्य देशस्यैव लिङ्गित्वं युक्तम्, अग्निविषये तु देशे लिङ्गत्वं न युक्तम्, किं कारणं ? न ह्यग्निमत्त्वस्य युक्तं लिङ्गत्वं साध्यत्वात् साध्यत्वं लिङ्गित्वात्., लिङ्गित्वमसिद्धत्वात्, अस्मन्मतेन तु लिङ्गत्वमप्यग्निमत्त्व विशिष्टस्य देशस्यैव शक्यं भावयितुम्, अभिप्रत्यक्षत्वे धूमा प्रत्यक्षत्वे च कदाचित्, अत एव मया तत्प्रधानमेव - देशप्रधानमेवोच्यतेऽग्नि[म]तोऽपि धूमानुमितिप्रसङ्ग इति । www www अत्राह - नन्वेवं देशमुपेक्ष्याग्नेरेव लिङ्गित्वं स्यात्, अनुमेयत्वात्, उच्यते, न चासौ लिङ्गी भवितुमर्हति लोके सिद्धत्वात्, तथा चोक्तं त्वयाऽस्मन्मतमेव 'न धर्मो धर्मिणा साध्यः सिद्धत्वात्तेन धर्म्य | धर्मेण धर्मः साध्यः स्यात् साध्यत्वाद्धर्मिणस्तथा ॥ ( ) इति, न धर्मो धर्मिणः ... धूमवदनुमानं प्रसज्यत इति । तत्र कारणं दर्शयति - तथातथेति, तेन तेन प्रकारेण यथाभिलषितं वृत्तेरुक्तानुमानमपि प्रसज्यते 20 विनिगमनाविरहादिति ब्रुवतेऽमूढा इति भावः । त्वदुक्तप्रसङ्गस्तु देशविशेषनिरपेक्षस्य धूमस्यानुमापकत्वेऽमेरनुमेयत्वे एव संयोगिनोरविशेषात् धूमादभ्यनुमानवत्, अमेरपि धूमानुमानं स्यादिति वक्तुं युज्यत इति दर्शयति- धूम विषय इति । देशस्य च साध्यत्वे साधनत्वे च न कश्चिद्दोष इत्याह- अथेति । कथं दोषगन्धो नास्तीत्यत्राह - धूमवत्त्वेति, धूमवत्त्वं प्रदेशधर्मस्तद्विशिष्टो देशो लिङ्ग, प्रसिद्धत्वात् प्रदेशस्य धूमवत्त्वेन, लिङ्गयपि देश एवाग्निमत्त्वविशिष्टः, एवमेव लिङ्ग लिङ्गिभावो युक्त इति भावः । अग्निमत्त्वविशिष्टदेशस्य लिङ्गत्वन्तु न युक्तमित्याह-अग्निविषय इति । हेतुमाह - साध्यत्वादिति, साधयितुं योग्यत्वादित्यर्थः तच्च लिङ्गित्वात् 25 ज्ञापकतया लिङ्गविशिष्टत्वात् तदपि असिद्धत्वात्-निश्चयाविषयत्वादित्यर्थः, निश्चयाविषय एव हि ज्ञापकतया लिङ्गविशिष्टो निश्चयविषयी क्रियते न तु कृतनिश्चय इति भावः । तदेवं वादिनं शिक्षयित्वा खमतमादर्शयति अस्मन्मतेन त्विति, अग्निमत्त्व विशिष्टो देशो लिङ्गमपि भवितुमर्हति प्रतिपतृमत्यपेक्षया, अभिर्यदा प्रत्यक्षो धूमोऽप्रत्यक्षस्तदाऽग्निमद्देशो लिङ्गम्, धूमवद्देशस्तु लिङ्गीति । अत एव मया देशप्राधान्येनैव त्वां शिक्षां ग्राहयतोच्यतेऽग्निमतोऽपि धूमवदनु मितिप्रसङ्ग इत्याह- अत एवेति । देशानपेक्षा मिसाध्यतामा - १ सि. क्ष. छा. डे. तन्मनुपर्यस्य० । २ सि. क्ष. छा. डे. रणोति धूमविषय ऐतदेक स्यात् । ३ सि. क्ष. डे. छा. लिङ्गत्वं । Jain Education International 2010_04 For Private & Personal Use Only 15 www.jainelibrary.org

Loading...

Page Navigation
1 ... 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430