Book Title: Dvadasharnaychakram Part 3
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah

View full book text
Previous | Next

Page 359
________________ ९२८ न्यायागमानुसारिणीव्याख्यासमेतम् [उभयनियमारे धूमोऽपि साध्यश्चेत् प्रत्यक्षमप्रमाणं स्यात् , तदप्रामाण्ये चानुमा निर्बीजा स्यादनुमितिरिति, अपिशब्देन परानुकरणं दोषश्चैषः स्यादिति । किञ्चान्यत् संयोग्येकरूपत्वानुमानाच्चानिष्टापादनमुपेक्षितार्थम्, संयोगित्व...... यत्पुनरुक्तं यस्य त्वविनाभावित्वं................................................ ...............अदोष इति, वयन्तु बमोऽत्र गुणदोषाभिमानः साध्यसाधनधर्मवद्देशाद्यनुमेयत्वमुक्त्वा पुनस्तस्यैव दोषाभिधानादप्रत्यभिज्ञातमग्न्यादिसम्बन्धिदेशस्य लिङ्गित्वं लिङ्गत्वञ्च, न धर्मयोरग्निधूमयोः धूमो लिङ्गं अग्निर्वालिङ्गीत्युक्त्वा यत्पुनरिदमुच्यतेऽग्नितोऽपि धूमा नुमितिप्रसङ्ग इति, वयं ब्रूमस्त्वां शिक्षा ग्राहयन्त इह देशसाध्यतामुक्त्वा लिङ्गलिङ्गितत्त्वव्यव10 स्थानवृत्तरेवं वक्तव्यमग्निमतोऽपि धूमवदनुमानप्रसङ्गः.................. उभयतोऽपि, तथातथेष्टवद्वत्तेः यदि धूमविषय एतदेव स्यात् , अग्निरेव वाऽनुमेयः तदाऽग्नितो धूमानुमानं धूमादग्यनुमानवत् स्यात् प्रसङ्गः, संयोगिनोरविशेषात् । (संयोगीति) संयोग्येकरूपत्वानुमानाच्चानिष्टापादनमनितोऽपि धूमानुमानप्रसंग इति यदेतद्भवसाधनं एतदुपेक्षितार्थम् , तत्प्रदर्शनार्थ साधनं संयोगित्वेत्यादि गतार्थमनिष्टापादनम् , यत्पुनरित्यादि स्वपक्षे 15 दोषाभावप्रदर्शनार्थं यदुक्तं त्वया यस्य त्वविनाभावित्वमित्यादि यावदोष इति, वयन्तु ब्रूमोऽत्र गुणदोषाभिमान इत्यादि, साध्यसाधनधर्मवदेशाद्यनुमेयत्वमुक्त्वा पुनस्तस्यैव दोषाभिधानादप्रत्यभिज्ञातम् , अग्यादिसम्बन्धीत्यादि त्वयैवाभ्युपगतमिति दर्शयति-तस्यैव देशस्य [लिङ्गित्वं] लिङ्गत्वञ्च, न धर्मयोरग्निधूमयोरिति यावल्लिङ्गीति, त्वन्मतमेवेदमिति प्रत्यभिज्ञापयति, इत्थमुक्त्वा यत्पुनरिदमुच्यतेऽग्नितोऽपि धूमानुमितिप्रसङ्ग इति न्यायदिङ्मूढेन तदिति, कथं पुनरमूढा ब्रुवत इति चेत्-बमस्त्वां शिक्षा ग्राहयन्तः, तद्यथा-इह 20 देशसाध्यतामुक्त्वा लिङ्गलिङ्गितत्त्वव्यवस्थानवृत्तेरेवं वक्तव्यमित्यादि तां न्यायव्यवस्थामनुवर्तमानेन त्वया प्रत्यक्षोऽत एवानुमेयो न साधनमिति भावः। तदानीमपि यदि धूमः साध्यः स्यात् प्रत्यक्षमप्रमाणं स्यात् , अनिश्चितस्य निश्चयार्थ हि प्रमाणं प्रवर्तते, धूमे यद्यनुमानं प्रवर्तत तर्हि प्रत्यक्षेण सोऽनिश्चित एव स्यात् , ततश्चानिश्चायकत्वात् संशयादिरिवाप्रमाणं स्यादिति भावः । भवत्वप्रमाणं किं नः छिन्नमित्यत्राह-तदप्रामाण्ये चेति, अनुमितो हि अविनाभावो बीजम् , स च प्रत्यक्षेण निश्चीयते, यदि तु प्रत्यक्षमप्रमाणं कथमविनाभावनिश्चयः, अतो निर्बीजाऽनुमा भवेदिति भावः । धूमोऽपीत्यत्रापिशब्दस्य फलमाह-अपिशदेनेति. तदानीं साध्योऽग्निः न तु धूमः त्वदुक्तिवत्तस्य तदानी लिङ्गित्वे इति परमतस्यानुकरणमपिशब्देन क्रियते तत्र च दोष उक्त इति भावः । ननु अग्नितोऽपि धूमानुमान प्रसज्यते संयोग्येकरूपत्वादिति यदनुमानमुच्यते तदुपेक्षितार्थमित्याह-संयोग्येकेति. व्याकरोति-संयोगीति । उपेक्षितार्थत्वमेव प्रसाधयति-संयोगित्वेत्यादीति, मूलमत्र मृग्यम् । अत्र वादिशंका प्रदर्शयतियत्पुनरिति, अत्रापि मूलं मृग्यम् । उत्तरयति-वयन्तु ब्रूम इति, गुणे दोषाभिमानस्ते अग्निविशिष्टदेशस्यैव लिशित्वं लिङ्गत्वञ्चगुणभूतं प्रथममुक्तत्वा पुनस्तत्रैव दोषोऽमिधीयते त्वया, न पुनः स्मर्यते पूर्वोदितम् धर्मयोरनिधूमयोर्मध्ये न धूमो लि* नवाऽग्निलिङ्गीत्यभिधाय पुनरापाद्यतेऽग्नितोऽपि धूमानुमितिप्रसङ्ग इति, इदच मौव्यमेवेति भावः। तहि कथं वक्तव्यमित्यत्राचार्यस्तं शिक्षयति-तद्यथेति, देशस्य साध्यतामुक्त्वा लिङ्गलिङ्गितत्त्वयोर्व्यवस्थामनुवर्तमान एवं वदेः धूमवतोऽभिमदनुमानवत् अग्निमतोऽपि Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430