Book Title: Dvadasharnaychakram Part 3
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah

View full book text
Previous | Next

Page 355
________________ ९२४ न्यायागमानुसारिणीव्याख्यासमेतम् [उभयनियमारे प्रसिद्धसम्बन्ध्येवाप्रसिद्धसम्बन्धिनो गमकम् , तदव्यभिचारस्वरूपावधारणार्थ व्यभिचारविशेषव्यावृत्तिरुच्यते यथा कृतकत्वस्यानित्यत्वाव्यभिचारप्रदर्शनार्थ यदनित्यं न भवति तत्कृतकमपि न भवतीति व्यतिरेक उच्यते । (इत्थं हीति) इत्थं हि व्यभिचारिविशेषव्यावर्तनेनापि स एव सम्बन्धी-धूमादिरश्वादिर्वा गमकः 5 सम्बन्ध्यन्तरस्य-प्रत्यक्षोऽनुमेयस्य, द्वितीयस्यैकः सम्बन्ध्यन्तरम्य, सम्बन्धित्वात् , न ते विशेषा व्यावाविधेया वा गमकाः, तत्समर्थनार्थत्वात् , यथा-न हि वात्या प्रसङ्गव्यावर्तनेन धूमस्याव्यञ्जकत्वम् , अधूमो वात्यया न भवत्ययं धूम इति, वात्यायां निवर्तिता[या]मग्नेर्गमको भवति धूमः यत्रादृष्टस्तद्व्यवच्छेदमात्रेण यस्माद्बह्येव वात्याघटपटादि, न हि तद्वदग्नेरगमको धूमः न वा वात्यादि व्यञ्जकं गमकमग्नेर्भवितुमर्हति घटपटादि, धूमतायामसत्यामेव, किं तर्हि ? धूमतैव हि सती वह्नितायाः सम्बन्धिनी सम्बन्धिन्यां व्यञ्जकतेति 10 तस्माच्छेषसिद्धिवचनात् निरस्तव्यभिचाराशङ्कं सम्बन्धानुमानमेव प्रत्यक्षैकत्वविशेषणाभ्यां निरस्तसर्वाभा सम् , किश्चान्यत्-त्वयापीष्यत एतत् प्रसिद्धसम्बन्ध्येवाप्रसिद्धसम्बन्धिनो गमेकम् , तदव्यभिचारस्वरूपावधारणार्थ व्यभिचारिविशेषव्यावृत्तिरुच्यत इति, अतस्तत्प्रदर्शनार्थमाह-यथा कृतकत्वस्येत्यादिना, अनित्यः शब्दः कृतकत्वात् , यद्यत् कृतकं तत्तदनित्यमिति सम्बन्धं विधिना प्रदर्य कृतकत्वस्यैवानित्यत्वाव्यभिचारप्रदर्शनार्थं यदनित्यं न भवति तत्कृतकमपि न भवतीति व्यतिरेक उच्यते ।। 15 यधुपलब्धसम्बन्धस्य पुनरव्यभिचारित्वापेक्षमनुमानं न स्यात् व्यतिरेकवचनं पक्षधर्म साध्यानुगतिसमर्थनार्थ न स्यात् , नापि च तस्यैवाभिव्यञ्जकत्वमापद्यते; तथा चास्मन्यायेन कृत नान्य इति व्याकरोति-इत्थं हि व्यभिचारीति । विशेषास्तु व्यावाः केवलं गमकस्य सम्बन्धिनः समर्थका एव न गमका इत्याह-न ते विशेषा इति । नहि केनचिद्विशेषेण वात्यायाः-पवनस्य प्रसङ्गस्य व्यावर्त्तनमात्रेण धूमादि न व्यञ्जकमग्नः सम्बन्ध्यन्तरस्य, धूमादेरधूमता भवति किन्तु वात्यायां निवर्तितायां स एव धूमोऽग्नेर्गमको भवत्यनग्निमद्देशव्यवच्छेदेन, 20 न विशेषाः, तेषां वात्याघटपटादिरूपतो बहुत्वात्, न हि वात्याघटपटादिरिव धूमोऽगमकोऽग्नेः, नापि वात्साघटपटादि व्यञ्जक गमकं वाऽमेधूमताया असत्त्व इति भावः । धूमस्याव्यञ्जकत्वं निराकरोति-न हीति । धूम एव गमक इत्याह-वात्यायामिति । विशेषाणां बहुत्वं गमकत्वमव्यजकत्वञ्चाह-यस्मादिति । किं धूमताया एव सम्बन्धिन्याः खसम्बन्ध्यग्नितायां व्यञ्जकत्वं व्यञ्जकतात्मकत्वं वेत्याह-धूमतैव हीति । एवञ्च शेषसिद्धिवचनेन प्रत्यक्षैकत्वविशेषणाभ्याच निराकृतनिखिलाभासाशङ्क सम्ब न्धप्रयुक्तानुमानं भवतीत्याह-तस्मादिति । प्रसिद्धसम्बन्ध्येव गमकमिति तवापि सम्मतमेवेत्याह-किश्चान्यदिति । गमकस्य 25 प्रसिद्धसम्बन्धिनोऽव्यभिचारखरूपताव्यवस्थापनार्थ व्यभिचारविशेषस्य व्यावृत्तिः त्वया क्रियत इत्याह-तदव्यभिचारेति, यदि प्रसिद्धसम्बन्धि गमकं न स्यात् , विशेषा एव गमकाः स्युस्तर्हि व्यभिचारिविशेषस्य व्यावृत्तिकरणं निष्फलं स्यादिति भावः । दृष्टान्तमत्रार्थे दर्शयति-अनित्यः शब्द इति साधर्म्यप्रयोगेण यत्कृतकं तदनित्यमित्यनेन विधिरूपतः सम्बन्धमुपदर्य यद्यन्वय एव साध्यप्रतिपादकस्तर्हि प्रमेयत्वादिरपि हेतुरन्वयात् प्रतिपादकः स्यादिति सम्बन्धस्याव्यभिचारप्रदर्शनार्थमुच्यते यदनित्यं न भवति तत्कृतकमपि न भवतीति व्यतिरेकः, प्रतिपादकस्तु प्रसिद्धसम्बन्ध्येवेति भावः । अन्यथा व्यतिरेकोक्तिरव्यभि१०चारिसाधनसमर्थनार्था न भवेदित्याह-यापलब्धेति । अनुमानं हि प्रसिद्धसम्बन्धेऽव्यभिचारित्वमपेक्ष्य भवति साधनस्य १ सि.क्ष छा. डे. अधूमोवात्यासा। २ सि.क्ष. छा.डे. 'ग्नेनमिको। ३ सि.क्ष. छा. डे. वात्येति । ४ सि.क्ष. छा. डे घटपटाद्यधू । ५ सि. क्ष. छा. डे. गमकमुदव्यभिः । Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430