Book Title: Dvadasharnaychakram Part 3
Author(s): Mallavadi Kshamashraman, Labdhisuri
Publisher: Chandulal Jamnadas Shah

View full book text
Previous | Next

Page 330
________________ शब्दस्याभासता ] wwwwwwwwwwwwww ( सपक्षेति ) सपक्षापक्षेपण क्षीणशक्तेश्च सपक्षादन्योऽसपक्षः पक्ष इत्युक्ते सपक्षव्यावृत्तिमात्रे चरितार्थत्वात् पक्षापक्षयोर्विशेषं गमयितुं नालं पक्ष एवायं नापक्ष इति, कस्मात् ? उक्तकारणात्, किमिव ? साध्यनिर्देशवत्-यथा 'साध्यनिर्देशः प्रतिज्ञा' ( गौ. १. १. ३३ ) इत्यक्षपादपक्षलक्षणं सिद्धिनिवृत्तौ चरितार्थत्वात् साध्यविशेषं पक्षमेव असिद्धात् दृष्टान्तेभ्यो व्यतिरिक्तं न गमयितुमलम्, विपक्षापक्षेपणक्षीणशक्तित्वात् तदा सपक्षादन्योऽसपक्ष इति सपक्षात् पक्षं विशेष्य न गमयितुमलम्, सामान्यमात्रवृत्तेः, 5 त्वया तु विशेषवृत्तेः पक्ष एव सपक्षावच्छिन्नवृत्तिरिष्यते, तत्तु न सिद्ध्यतीत्थं न्यायात्, स्यान्मतं तद्विषयेत्यादि यावच्चेदिति स एव वृक्षार्थो विषयः पक्षः, तस्य पक्षस्य धर्मो वृक्षशब्दः, तस्मात्तद्विषयपक्षधर्मत्वादेव तुल्ये वृत्तिर्वृक्षार्थे, तच्च दृष्टं, पक्षस्य धर्मो हेतुरित्यनयैवोक्त्या गतत्वात् विशेषार्थगतिरेवेत्यर्थः, अत्रो - च्यते - अननुमानं तर्हि शब्दः, अनुमानाभास इत्यर्थः, पक्ष एव वृत्तत्वात् तच्च कारणत्वेनाह-अद्विलक्षणत्वादसाधारणवदित्यादि गतार्थं यावत् तद्विषयमात्रार्थत्वात् अन्यापोहशब्दार्थत्वस्येति, स एव विषयस्तद्वि- 10 षयो वृक्षः, तन्मात्रमेव वाच्यमित्युक्तमन्यापोहशब्दार्थत्वम्, अतोऽसाधारणविरुद्धते, किचान्यत्-व्यतिरेकस्य स्वार्थासम्भवादपि व्यर्थतैव वा - अन्यापोहो हि व्यतिरेकमात्रम्, न भवति न भवतीत्यभवनपरमार्थत्वादुभयतोऽप्यभाव एव वन्ध्यापुत्रवन्न स्वार्थः कश्चिदित्युक्तम्, तस्माद्वृक्षशब्दस्य व्यर्थतैव, पक्ष [ धर्म ] मात्रस्याप्य www www.wm www. द्वादशारनयचक्रम् बोधयितुं शक्तिरस्तीति व्याचष्टे - सपक्षादन्य इति । विशेषमाह पक्ष एवायं नापक्ष इतीति पक्षं वाऽपक्षं वा विशिष्यासपक्षशब्दो न गमयतीति भावः । हेतुमाह-उक्तकारणादिति, सपक्षापक्षेपणक्षीणशक्तिरूपकारणादित्यर्थः । दृष्टान्तमाह - साध्यनि- 15 देशवदिति । व्याचष्टे - यथेति, साध्यनिर्देशः प्रतिज्ञेत्यत्र साध्यपदं सिद्धिनिवृत्तावेव चरितार्थमतो दृष्टान्तेभ्यो व्यतिरिक्तमसिद्धहेत्वाभासव्यावृत्तं साध्यविशेषं पक्षमेव न गमयितुं क्षममिति पूर्वं व्याख्यातमेव, साध्यविपक्षस्य सिद्धेर्व्यावृत्तिमात्रेणोपशान्तसामर्थ्यात् तथाऽसपक्षपदमपि सपक्षाद्विशिष्टं पक्षं प्रबोधयितुमशक्तम्, सपक्षव्यावृत्तिलक्षणसामान्यमात्रे वृत्तेरिति भावः । एवञ्च त्वदभीप्सितं सपक्षव्यावृत्तपक्षवृत्तित्वमसपक्षशब्दस्य न सेत्स्यतीत्याह - त्वया त्विति । इत्थं न्यायादिति, असपक्षशब्दः पक्षविशेषस्वार्थागमकः, विपक्षापक्षेपण क्षीणशक्तित्वात्, यत्र च शब्दे विपक्षापक्षेपण क्षीणशक्तित्वं तन्न विशेषस्वार्थगमकम्, साध्यनिर्देशवदिति न्यायादित्यर्थः । 20 हेतुरयमसपक्षवृत्तिरित्युक्तौ सपक्षव्यावृत्तिमात्रपरत्वेऽप्यसपक्षशब्दस्य तद्विषयः पक्ष एव तद्धर्मत्वाद्धेतोस्तुल्यवृत्तित्वमिति विशेषार्थस्य पक्षस्यावगतिर्भवत्येवेत्याशङ्कते - स्यान्मतमिति, हेतुः पक्षस्य धर्मो भवति, अत्र पक्षशब्दस्य सपक्षव्यावृत्तिपरत्वेऽपि व्यावृत्तेरपक्षस्य वा धर्मो हेतुर्न भवितुमर्हतीत्यर्थात् व्यावृत्तिमतः पक्षविशेषस्यावगतिः स्यादेवेति भावः । एवञ्चेत्तर्हि शब्दो नानुमानं स्यादि • त्युत्तरयति अननुमानमिति, पक्षमात्रवृत्तित्वेनायं हेतुरहेतुरेवेत्यर्थः । कारणमाह, अद्विलक्षणत्वादिति, सपक्षसत्त्वविपक्षासत्त्वरूपद्विलक्षणरहितत्वादित्यर्थः, वृक्षार्थ एव वृत्तत्वाद्वृक्षशब्दस्य सपक्षाभावेन सपक्षवृत्तित्वाभावादत एवान्वयाभावेऽतुल्या• 25 वृत्तित्वरूपव्यतिरेकस्याप्यभावादसाधारणवदनुमानाभास इति भावः । पक्षशब्दो हि पक्षान्यापोहवचनः, तत्रान्यापोहशब्दस्यान्यव्यावृत्तिमात्रपरत्वे साध्यधर्मसामान्येन समानो यः पक्षान्यस्तदभावरूपतया तत्रैवान्यापोहशब्दस्य क्षीणशक्तित्वाद्व्यावृत्तिमतो न बोधः कथञ्चिद्बोधेऽप्यसाधारणत्वमुक्तम्, यदि चान्यापोहपदस्यान्यव्यावृत्त्यवच्छिन्नस्वार्थपरत्वं तदा साध्यधर्मसामान्येन समानात् पक्षादन्याद्व्यावृत्तो न साध्यवान् भवितुमर्हति किन्तु साध्यशून्यधर्म्येवेति तस्य विपक्षरूपत्वात्तथाविधवृक्षान्यव्यावृत्ते वृक्षे एव वृक्षशब्दस्य वृत्तेर्विरुद्धता स्यादित्याशयेनाह स एवेति । व्यावृत्तिव्यावृत्तिमद्रूपार्थद्वयपक्षेऽपि वृक्षशब्दस्य वृक्षमात्रे 30 वृत्तिः, अतोऽसपक्षवृत्तिगतदोषापत्तिरुक्ता, वस्तुतोऽन्यापोहस्याभावमात्ररूपतया न स्वार्थः कश्चिदस्तीति अन्यतदपोहयोरभवनपरमार्थत्वोक्तेर्वृक्षशब्दो व्यर्थ एवेत्याशयेनाह - व्यतिरेकस्येति । उक्तप्रकारेण पक्षोऽपि न वृक्षशब्दार्थो येन पक्षधर्मता स्यादित्याह - Jain Education International 2010_04 ८९९ १ सि. क्ष छा. नासप० । २ सि.क्ष. छा. डे. असिद्धन्तु । ३ सि. क्ष. डे. छा. एवासय । ४ सि. क्ष. छा. डे. तद्विषद इत्यादि । For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430