________________
शब्दस्याभासता ]
wwwwwwwwwwwwww
( सपक्षेति ) सपक्षापक्षेपण क्षीणशक्तेश्च सपक्षादन्योऽसपक्षः पक्ष इत्युक्ते सपक्षव्यावृत्तिमात्रे चरितार्थत्वात् पक्षापक्षयोर्विशेषं गमयितुं नालं पक्ष एवायं नापक्ष इति, कस्मात् ? उक्तकारणात्, किमिव ? साध्यनिर्देशवत्-यथा 'साध्यनिर्देशः प्रतिज्ञा' ( गौ. १. १. ३३ ) इत्यक्षपादपक्षलक्षणं सिद्धिनिवृत्तौ चरितार्थत्वात् साध्यविशेषं पक्षमेव असिद्धात् दृष्टान्तेभ्यो व्यतिरिक्तं न गमयितुमलम्, विपक्षापक्षेपणक्षीणशक्तित्वात् तदा सपक्षादन्योऽसपक्ष इति सपक्षात् पक्षं विशेष्य न गमयितुमलम्, सामान्यमात्रवृत्तेः, 5 त्वया तु विशेषवृत्तेः पक्ष एव सपक्षावच्छिन्नवृत्तिरिष्यते, तत्तु न सिद्ध्यतीत्थं न्यायात्, स्यान्मतं तद्विषयेत्यादि यावच्चेदिति स एव वृक्षार्थो विषयः पक्षः, तस्य पक्षस्य धर्मो वृक्षशब्दः, तस्मात्तद्विषयपक्षधर्मत्वादेव तुल्ये वृत्तिर्वृक्षार्थे, तच्च दृष्टं, पक्षस्य धर्मो हेतुरित्यनयैवोक्त्या गतत्वात् विशेषार्थगतिरेवेत्यर्थः, अत्रो - च्यते - अननुमानं तर्हि शब्दः, अनुमानाभास इत्यर्थः, पक्ष एव वृत्तत्वात् तच्च कारणत्वेनाह-अद्विलक्षणत्वादसाधारणवदित्यादि गतार्थं यावत् तद्विषयमात्रार्थत्वात् अन्यापोहशब्दार्थत्वस्येति, स एव विषयस्तद्वि- 10 षयो वृक्षः, तन्मात्रमेव वाच्यमित्युक्तमन्यापोहशब्दार्थत्वम्, अतोऽसाधारणविरुद्धते, किचान्यत्-व्यतिरेकस्य स्वार्थासम्भवादपि व्यर्थतैव वा - अन्यापोहो हि व्यतिरेकमात्रम्, न भवति न भवतीत्यभवनपरमार्थत्वादुभयतोऽप्यभाव एव वन्ध्यापुत्रवन्न स्वार्थः कश्चिदित्युक्तम्, तस्माद्वृक्षशब्दस्य व्यर्थतैव, पक्ष [ धर्म ] मात्रस्याप्य
www
www.wm
www.
द्वादशारनयचक्रम्
बोधयितुं शक्तिरस्तीति व्याचष्टे - सपक्षादन्य इति । विशेषमाह पक्ष एवायं नापक्ष इतीति पक्षं वाऽपक्षं वा विशिष्यासपक्षशब्दो न गमयतीति भावः । हेतुमाह-उक्तकारणादिति, सपक्षापक्षेपणक्षीणशक्तिरूपकारणादित्यर्थः । दृष्टान्तमाह - साध्यनि- 15 देशवदिति । व्याचष्टे - यथेति, साध्यनिर्देशः प्रतिज्ञेत्यत्र साध्यपदं सिद्धिनिवृत्तावेव चरितार्थमतो दृष्टान्तेभ्यो व्यतिरिक्तमसिद्धहेत्वाभासव्यावृत्तं साध्यविशेषं पक्षमेव न गमयितुं क्षममिति पूर्वं व्याख्यातमेव, साध्यविपक्षस्य सिद्धेर्व्यावृत्तिमात्रेणोपशान्तसामर्थ्यात् तथाऽसपक्षपदमपि सपक्षाद्विशिष्टं पक्षं प्रबोधयितुमशक्तम्, सपक्षव्यावृत्तिलक्षणसामान्यमात्रे वृत्तेरिति भावः । एवञ्च त्वदभीप्सितं सपक्षव्यावृत्तपक्षवृत्तित्वमसपक्षशब्दस्य न सेत्स्यतीत्याह - त्वया त्विति । इत्थं न्यायादिति, असपक्षशब्दः पक्षविशेषस्वार्थागमकः, विपक्षापक्षेपण क्षीणशक्तित्वात्, यत्र च शब्दे विपक्षापक्षेपण क्षीणशक्तित्वं तन्न विशेषस्वार्थगमकम्, साध्यनिर्देशवदिति न्यायादित्यर्थः । 20 हेतुरयमसपक्षवृत्तिरित्युक्तौ सपक्षव्यावृत्तिमात्रपरत्वेऽप्यसपक्षशब्दस्य तद्विषयः पक्ष एव तद्धर्मत्वाद्धेतोस्तुल्यवृत्तित्वमिति विशेषार्थस्य पक्षस्यावगतिर्भवत्येवेत्याशङ्कते - स्यान्मतमिति, हेतुः पक्षस्य धर्मो भवति, अत्र पक्षशब्दस्य सपक्षव्यावृत्तिपरत्वेऽपि व्यावृत्तेरपक्षस्य वा धर्मो हेतुर्न भवितुमर्हतीत्यर्थात् व्यावृत्तिमतः पक्षविशेषस्यावगतिः स्यादेवेति भावः । एवञ्चेत्तर्हि शब्दो नानुमानं स्यादि • त्युत्तरयति अननुमानमिति, पक्षमात्रवृत्तित्वेनायं हेतुरहेतुरेवेत्यर्थः । कारणमाह, अद्विलक्षणत्वादिति, सपक्षसत्त्वविपक्षासत्त्वरूपद्विलक्षणरहितत्वादित्यर्थः, वृक्षार्थ एव वृत्तत्वाद्वृक्षशब्दस्य सपक्षाभावेन सपक्षवृत्तित्वाभावादत एवान्वयाभावेऽतुल्या• 25 वृत्तित्वरूपव्यतिरेकस्याप्यभावादसाधारणवदनुमानाभास इति भावः । पक्षशब्दो हि पक्षान्यापोहवचनः, तत्रान्यापोहशब्दस्यान्यव्यावृत्तिमात्रपरत्वे साध्यधर्मसामान्येन समानो यः पक्षान्यस्तदभावरूपतया तत्रैवान्यापोहशब्दस्य क्षीणशक्तित्वाद्व्यावृत्तिमतो न बोधः कथञ्चिद्बोधेऽप्यसाधारणत्वमुक्तम्, यदि चान्यापोहपदस्यान्यव्यावृत्त्यवच्छिन्नस्वार्थपरत्वं तदा साध्यधर्मसामान्येन समानात् पक्षादन्याद्व्यावृत्तो न साध्यवान् भवितुमर्हति किन्तु साध्यशून्यधर्म्येवेति तस्य विपक्षरूपत्वात्तथाविधवृक्षान्यव्यावृत्ते वृक्षे एव वृक्षशब्दस्य वृत्तेर्विरुद्धता स्यादित्याशयेनाह स एवेति । व्यावृत्तिव्यावृत्तिमद्रूपार्थद्वयपक्षेऽपि वृक्षशब्दस्य वृक्षमात्रे 30 वृत्तिः, अतोऽसपक्षवृत्तिगतदोषापत्तिरुक्ता, वस्तुतोऽन्यापोहस्याभावमात्ररूपतया न स्वार्थः कश्चिदस्तीति अन्यतदपोहयोरभवनपरमार्थत्वोक्तेर्वृक्षशब्दो व्यर्थ एवेत्याशयेनाह - व्यतिरेकस्येति । उक्तप्रकारेण पक्षोऽपि न वृक्षशब्दार्थो येन पक्षधर्मता स्यादित्याह -
Jain Education International 2010_04
८९९
१ सि. क्ष छा. नासप० । २ सि.क्ष. छा. डे. असिद्धन्तु । ३ सि. क्ष. डे. छा. एवासय । ४ सि. क्ष. छा. डे. तद्विषद इत्यादि ।
For Private & Personal Use Only
www.jainelibrary.org