________________
८९८ न्यायागमानुसारिणीव्याख्यासमेतम्
[उभयनियमारे वसिद्धिः, हेतुतदाभासव्यवस्थानियमस्य पक्षादिव्यवस्थाश्रयत्वात् , पक्ष एव तावदव्यवस्थितः, उभयतोऽप्यभवनपरमार्थत्वादित्युक्तत्वात् , सपक्षस्त्वनन्तरन्यायो नास्ति, असपक्षस्तु स एव पक्षः त्वन्मताभ्युपगमात् स्यात् सपक्षाभवामात्रत्वात्, इतरथा नैव स्यादुक्तवदेव, तस्माद्धेत्वपवादनियमादसपक्षवृत्तिगतदोषापत्तिस्तदवस्थैव, आपत्त्यभ्युपगमे त्वित्यादि, यद्येवमापत्तिदोषमभ्युपैष्यसपक्षवृत्तिगतं ततोऽन्यापोहान्यथात्वं दोषः5 अन्यापोहोऽपि त_न्याभावात्तदपोहाभावाच्च स्वार्थापोह एव स्यात्, कस्मात् ? सपक्षावच्छिन्नस्यापि
सपक्षत्वात्-पक्षादन्यः सपक्षः, ततोऽवच्छिन्नोऽसपक्षो वा स एव पक्षः, ततः[स]पक्षादन्यः पक्ष एंव पक्षादन्यः, सपक्षादन्यत्वात्, ततोऽन्यापोहः पक्षापोहः स्वार्थापोह इत्यापन्नः।
किश्चान्यत्
सपक्षापक्षेपणक्षीणशक्तेश्च पक्षापक्षयोर्विशेष गमयितुं नालम्, साध्यनिर्देशवत्, तद्विषय10 पक्षधर्मत्वादेव तुल्ये वृत्तिरिति चेत् , अननुमानं तर्हि शब्दोऽद्विलक्षणत्वात्, असाधारणवत् विरुद्धोऽपि तद्विषयमात्रार्थत्वादन्यापोहशब्दार्थत्वस्य, व्यतिरेकस्य स्वार्थासम्भवादपि व्यर्थतैव वा, पक्षमात्रस्याप्यलक्षणत्वात्, अव्यक्तश्रुतिवत् ।।
mom
इति युक्तम्, तत्र तत इत्यनेन त्रिलक्षणयुतस्य हेतोरेव ग्रहणात्तझ्यवस्थाधीनत्वं हेत्वाभासस्य, 'अनुमेयेऽथ तत्तुल्ये सद्धावो
नास्तिताऽसति । निश्चितानुपलम्भाऽऽत्मकार्याख्या हेतवस्त्रयः ।' पक्षसत्त्वसपक्षसत्त्वविपक्षासत्त्वरूपौलक्षण्ययुतो हेतुरुक्तः, 15 तस्मात् पक्षादिव्यवस्थाश्रया हेतुतदाभासव्यवस्थेति भावः। इत्थं तद्व्यवस्थायां तव मतेन पक्ष एव न व्यवस्थितः, स्वान्ययोर्न
भवति न भवतीत्यभावविषयत्वेनाभवनपरमार्थत्वात् तयोरभावेन तस्यैव चाभावस्यान्यापोह निबंधनत्वान्न कश्चिच्छब्दार्थ इति पक्षाव्यवस्थेत्याशयेनाह-पक्ष एव तावदिति । सपक्षोऽपि नास्ति, वृक्षाणां पक्षत्वस्योक्तत्वादित्याह-सपक्षस्त्विति । सपक्षाभावरूपोऽसपक्षः पक्ष एव, स चाव्यवस्थित इत्याह-असपक्षस्त्विति. साध्यधर्मसामान्येन समानः सपक्षभिन्नः पक्षव्यतिरिक्तश्च नास्ति कश्चित्, सपक्षादन्यः किन्तु पक्ष एवासपक्षः, यदि स्यात् सपक्षादन्यः सोऽप्यभवनपर20 मार्थत्वादसन्नेवेति भावः । भवत्वसपक्षवृत्तिगतदोषापत्तिरित्युच्यते तर्हि अन्यापोहस्यान्यथात्वं स्यात् , यथा त्वयाऽन्यापोह इप्यते तद्विपरीतार्थो भवेदित्याह-यद्येवमिति, अन्यत्वं हि पक्षादन्यः सपक्षः, सपक्षादन्यः पक्ष इत्युभयं विषयीकरोति, सपक्षस्य पक्षादन्यत्वात् पक्षस्य सपक्षादन्यत्वाच्च, पक्षसपक्षयोद्वयोः स्वरूपतो ग्रहणाभावेऽन्यत्वस्य तन्निष्ठस्याग्रहात् कोऽसौ पक्षादन्यो यदपोहादन्यापोहः सपक्षापोहः सिद्ध्येत् , कस्माद्वा सपक्षोऽन्यः, यतोऽन्यस्यान्यत्वं सिद्धयेत् , तदेवं परस्परापेक्षया परस्परस्यान्यत्वे
च पक्षोऽप्यन्यो न भवति, सपक्षोऽप्यन्यो न भवतीत्युभयतोऽयभवनमेव परमार्थः स्यादित्यादिरूपतोऽन्यापोहः स्वार्थापोहो भवतीति 26 भावः । कथमन्यापोहः स्वार्थापोह इत्यत्राह-सपक्षेति । प्रथममन्यापोहं दर्शयति-पक्षादम्य इति, पक्षादन्यः सपक्षो भवति तघ्यावृत्तश्च पक्षो भवतीति भावः । तदन्यथात्वमाह-ततःसपक्षादन्य इति, पक्ष एव पक्षादन्यः स्यात् , तस्य सपक्षादन्यत्वात्, तथा चान्यशब्देन पक्षग्रहणात् पक्षापोह एवान्यापोहः संवृत्तः स तु स्वार्थापोह एव नान्यापोहः परापोहरूपस्त्वदिष्ट इति भावः । किञ्च पक्षशब्दोऽपक्षनिवृत्तिमात्रं विधत्ते न तु पक्षं गमयितुं समर्थः, तत्रैव पक्षशब्दसामर्थ्यस्यापक्षीणत्वादित्याह-सपक्षापक्षे. पणेति । असपक्षशब्दस्य यः प्रतिपक्षः सपक्षस्तस्यापक्षेपणे शक्तेः क्षीणत्वात् सपक्षव्यावृत्तिमात्रे वृत्तेन तव्यावृत्तं पक्षं अपक्षं वा
.सि. क्ष. छा. तस्माद्धे त्वादिरिति । २ सि.क्ष. छा. डे. भपत्हन भ्युः। ३ सि. क्ष. डे. छा. °भ्युपेत्य७० ७क्ष. एवऽप०।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org