________________
mmmmmmmmmmmm
शब्दस्याननुमानता]
द्वादशारनयचक्रम् वृत्तिरस्ति, सपक्षधर्मार्थावच्छिन्नार्थत्वात्, कृतकत्वस्येवानित्येषु, तस्मात् सपक्षाभावात्तत्तुल्ये नास्ति वृत्तिः शब्दस्य, किं तर्हि ? तत्रैव वृत्तिः, तस्मात्रैलक्षण्याभावान्नानुमानं शब्दः, त्वन्मतवत्तत्रैव वृत्तावसपक्षवृत्तिगतदोषापत्तिश्च ।
(नन्विति) ननु वृक्षेषु वृत्तिः स्यात् , किं कारणम् ? पक्षत्वाद्वृक्षाणाम् - पक्ष एव वृक्षशब्दाख्यस्य धर्मस्य धर्मिणो वृक्षार्थाः सपक्षादवच्छिन्नाः, तेष्वेव ननु वृत्तिः स्यात् , अनुमानत्वादेव त्वदभित[]वृक्षान्नि- 5 वृत्तिमात्रं वृक्षता, नान्यस्मिन्नपि-साध्यधर्मसामान्येन समानेनार्थेन तदभिमत्या तुल्यत्वं येषु साध्याद्वक्षाद्भिन्नेषु अर्थान्तरेषु वृक्षशब्दस्य वृत्तिर्नास्ति पक्षधर्माभिमतस्य, कस्मात् ? सपक्षधर्मार्थावच्छिन्नार्थत्वात् , किमिव ? कृतक[त्वस्येव[T] नित्येष्विति, तस्मादिति वैधhण, तस्मात् सपक्षाभावात्तत्तुल्ये नास्ति वृत्तिः शब्दस्य, किं तर्हि ? तत्रैव वृत्तिः, तस्मात्रैलक्षण्याभावान्नानुमानं शब्दः, किश्चान्यत्-त्वन्मतवत्तत्रैव वृत्तावसपक्षवृत्तिगतदोषापत्तिः सपक्षादन्यो वा सपक्षाभावो वा स्यादसपक्षः, स च साध्यधर्मसामान्येन समाना- 10 दर्थात् , सपक्षादन्यः[स]पक्षाभावः पक्ष एवासपक्षः, इह तत्रैव वृक्षार्थे वृत्तत्वात् वृक्षशब्दस्तद्धर्मोऽपि सन् विरुद्धोऽसाधारणानैकांतिको वा स्यात् ।
हेत्वपवादनियमितत्वादसत्तिगतदोषो नेति चेन्न, पक्षसपक्षासपक्षाव्यवस्थायां तद्व्यवस्थाभावात्, आपत्त्यभ्युपगमे त्वन्यापोहान्यथात्वात् खार्थापोह एव स्यात्, सपक्षावच्छिनस्यापि सपक्षत्वात् ।
15 हेत्वपवादेत्यादि, यावन्नेति चेत्-स्यान्मतं 'स हेतुर्विपरीतोऽस्माद्विरुद्धोऽन्यस्त्वनिश्चितः ॥'
) इति लक्षणात् त्रिलक्षणस्य हेतोरपवादो-हेत्वाभासो विरुद्धोऽसाधारणः साधारणोऽसिद्धो वेति नियमितत्वात् असपक्षवृत्तिगतदोषाभावोऽस्य वृक्षशब्दस्येति, एतच्च न, पक्षिसप]क्षासपक्ष[7]व्यवस्थायां तद्व्यवस्थाभावात्-हेतुहेत्वाभासव्यवस्थायाः]पक्षसपक्षासपक्षव्यवस्थायां सिद्धायां सिद्धिस्तदसिद्धा
व्याकरोति-ननु वृक्षेष्विति, क्षेष्वेव वृक्षशब्दास्तिता, ते च सपक्षाद्भिम्नाः पक्षस्वरूपा एव, अनुमानत्वादेव वृक्षशब्दस्य नान्यत्र 20 वृत्तिताऽस्ति, अन्यापोहेन हि स्वार्थ गमयति वृक्षशब्दः तथा च स्वार्थादन्यत्र साध्यधर्मसामान्येन तुल्ये कथं वृत्तिः स्यात्, वृक्षशब्दस्य सपक्षधर्माश्यावृत्तरूपत्वादिति भावः । कारणमाह-सपक्षधर्मेति | सपक्षधर्मरूपो योऽर्थस्तद्व्यवच्छिन्नार्थत्वादित्यर्थः, वैधर्म्यदृष्टान्तमाह-कृतकत्वस्येति, यथाऽनित्येभ्यो घटादिभ्यः सपक्षेभ्यः कृतकत्वं न व्यावृत्तरूपं तद्वैधावृक्षशब्दः सपक्षाभावान्न तुल्ये वर्तते किन्तु केवलं पक्ष एव वर्तत इति कथं शब्दोऽनुमानं त्रैलक्षण्याभावादिति भावः । यदि तत्रैव वृत्तिरभ्युपगम्यते तदा दोषा न्तरमाह-त्वन्मतवदिति । असपक्षवृत्तीति, असपक्षपदेन साध्यधर्मसामान्येन समानार्थात् सपक्षादन्यः विरुद्धो धर्मी तत्रैव 25 हेतोवृत्तौ विरोधो दोषः, यस्य सपक्षो नास्ति तथाविधः पक्ष एवासपक्षः, तत्रैव वृत्तौ दोषोऽसाधारणानकान्तिकत्वम् , त इति भावः। नन्वयं हेतुरयन्तु हेत्वाभास इति प्रतिनियमितत्वात् वृक्षशब्दस्य हेतुत्वेन कथमसपक्षगता दोषास्तत्रापद्यन्त इत्याशङ्कतेहेत्वपवादेति। व्याचष्टे-स्यान्मतमिति,स हेतुः यस्त्रिलक्षणसम्पन्नः, अस्माद्विपरीतस्तु द्विविधः एको विरुद्धः, अन्यस्त्वनिश्चितः, अनिश्चितश्च त्रिविधः, साधारणासाधारणासिद्धभेदादित्यर्थो भाति, तदेवं हेतुतदाभासयोर्नियतत्वादृक्षशब्दस्य हेतुत्वेनासपक्षगतदोषापत्तिर्नास्तीति भावः । समाधत्त-एतच्च नेति, पक्षसपक्षासपक्षव्यवस्थाधीना हेतुतदभासव्यवस्था, 'हेत्वाभासास्ततोऽपरे' 30
१सि.क्ष. छा. डे. समानोऽर्थः सपक्षा। २ सि.क्ष. छा. डे. असत्तिगत। ३ सि.क्ष. छा. सिद्धेत्तद।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org