________________
म्यायागमानुसारिणी व्याख्यासमेतम्
[ उभयनियमारे
स्यान्मतमयोऽम्यादीनामप्यसिद्धत्वात् पक्षान्तर्गतत्वे सत्युच्यते न सर्वत्र लिङ्गिन्यग्निमति दृश्यते धूम इत्येतदयुक्तम् —
तदसिद्धौ पक्षधर्मादिनिर्मूलत्वाद्वनस्पतिचैतन्ये स्वापवत् स्यात्, देशविशेषानपेक्षाग्निसामान्यसाध्यत्वेऽसाधारणत्वमत्रेत्यभिधानवैयर्थ्यश्च तन्मा भूदित्यत्रशब्दवाच्यस्याग्निविश6 ष्टस्य धूमपक्षविसंवादे साधर्म्या भावालिङ्गशब्दयोः कुतोऽनुमानत्वं शब्दस्य ? यदि लिङ्गवच्छन्दः त्रिलक्षणोऽन्यापोहेन स्वार्थं गमयतीति मन्यसे ततो वृक्षशब्दस्य व्यवच्छिन्नात् वृक्षादभिधेयादन्यत्र तुल्ये सपक्षे वृत्तिः स्यात्, अनुमानत्वात्, अन्वयदर्शनार्थप्रयुक्तघटादिवत् ।
(तदसिद्धाविति ) तदसिद्धौ पक्षधर्मादिनिर्मूलत्वात् - तेषामप्ययोऽन्यादीनां साध्यत्वे धूमः सर्वत्र धर्मिण्यभावात् व्यापिपक्षधर्मासिद्धौ वनस्पतिचैतन्ये स्वापवत् स्यात्, देशविशेषानपेक्षा मिसामान्यसाध्यत्वे 10 सपक्षाभावादसाधारणत्वम्, अत्रेत्यभिधानवैयर्थ्यश्च स्यात्, तन्मा भूदिति अत्रशब्दवाच्यस्याग्निविशिष्टस्य धूमपक्षविसंवादे साधर्म्याभावालिङ्गशब्दयोः कुतोऽनुमानत्वं शब्दस्येति, तद्व्याख्या - यदि लिङ्गवच्छब्द इत्यादि, यदि कृतकत्वादिलिङ्गवच्छब्दस्त्रिलक्षणोऽन्यापोहेन स्वार्थं गमयतीति मन्यसे ततो वृक्षशब्दस्य व्यवच्छिन्नाद्वृक्षादभिधेयात् स्वार्थाशाख्यादन्यत्रं तुल्ये सपक्षे वृत्तिः स्यात्, - पक्षधर्माद्वृक्षशब्दादन्यस्य वृक्षशब्दादिवाच्ये ततो व्यवच्छिन्ने, कृतकत्वानित्यत्वाश्रये घटे इव वृत्तिः स्यात्, अनुमानत्वात्, 15 अन्वयदर्शनार्थप्रयुक्तघटादिवदिति गतार्थम् ।
AMMA
८९६
ननु वृक्ष एव वृत्तिः स्यात् पक्षत्वाद्वृक्षाणाम्, अनुमानत्वादेव त्वदभिमतावृक्षान्निवृत्तिमात्रं वृक्षता, नान्यस्मिन्नपि साध्यधर्मसामान्येन समानार्थाभिमतितुल्यार्थान्तरे वृक्षशब्दस्य यदा तु तेऽसिद्धास्तदा तेऽपि पक्षकुक्षिप्रविष्टाः, तथा च न सर्वत्राभिमति धूमो दृश्यत इत्यत उच्यते सर्वत्र लिङ्गिनि लिङ्गासम्भव इतीत्याशङ्कते - स्यान्मतमिति । समाधत्ते तद् सिद्धाविति । व्याचष्टे - तेषामपीति, अयोऽन्यादीनामप्यसिद्धत्वेन साध्यत्वे 20 धूमोऽव्यापिपक्षधर्मः स्यात्, यथा सचेतना वनस्पतयः, स्वापादित्यत्र वनस्पतौ तालादाववर्तमानः खापो हेतुरिति भावः । आदिपदग्राह्यं दोषान्तरमाह - देशविशेषेति, निखिलानामग्नीनां साध्यान्तर्गतत्वेन निश्चिताग्निमत्सपक्षाभावात्सपक्षविपक्षव्यावृत्तत्वेन धूमोsसाधारणः स्यात् केवलं पक्ष एव वृत्तेः, देशविशेषानपेक्षायाञ्च तद्बोधकात्रशब्दोपन्यासो निष्फल इति भावः । अत्रशब्दसाफल्याय तदर्थोऽग्निसम्बन्धीष्यते तदा सोऽग्निसम्बन्धी किं धूमः, उत सपक्ष इति विसंवादः स्यात्, देशविशेषानपेक्षणात् एवञ्च पक्षमात्रावृत्तिना सपक्षावृत्तिना वा लिङ्गेन सार्धं शब्दस्य त्रैलक्षण्यरूपसाधर्म्याभावात् कथं लिङ्गवच्छन्दोऽनुमानं स्यात् यदुच्यते त्वया 25 ‘कृतकत्वादिवत्स्वार्थमन्यापोहेन भाषते' इतीत्याह - तन्मा भूदिति । भवतु लिङ्गस्य त्रैलक्षण्यं परन्तु यदि शब्दोऽपि तद्वदिष्यते तर्हि सपक्षवृत्तिः स्यात्, अवृक्षव्यवच्छिन्नं हि स्वार्थं गमयति वृक्षशब्दः, तत्र कोऽसौ पक्षादन्यः पक्षसदृशः सपक्षोऽवृक्षव्यवच्छिन्नोऽभिधेयात् स्वार्थादन्यः ? यत्र वृक्षशब्दो वृत्तिः स्यात्, यथाऽनित्यत्वेन निश्चिते सपक्षे पक्षाच्छन्दादन्यस्मिन् घटादौ कृतकत्वं वर्तते वृक्षशब्दस्यानुमानत्वादित्याशयेन व्याकरोति - यदि कृतकत्वादीति । यत्र यत्र कृतकत्वं तत्र तत्रानित्यत्वमित्यन्वयं प्रदर्शयितुं प्रयुक्ते घटे सपक्षेऽनित्यत्ववति कृतकत्वस्य हेतोर्वृत्तित्ववदिति दृष्टान्तमाह- अन्वयेति, अत्रैवं भाति न चैवमत्र सपक्षोऽस्ति, पक्षधर्मभूतादृक्षशब्दा 30 दन्यस्य वृक्षशब्दस्य पक्षधर्मभूतवृक्षशब्दवाच्याद्भिन्ने स्वार्थादन्यस्मिन् सपक्ष इत्यर्थः, पक्षधर्मभूतधूमाद्धि महानसादिवृत्तिधूमोऽन्यः साध्यभूतादनेर्भिन्नश्चेति महानसादिः सपक्ष इत्याशयः स्यादिति । अथ वृक्ष एव वृक्षशब्दस्य वृत्तिरिति निरूपयति- ननु वृक्ष एवेति ।
१ सि० क्ष. छा. डे. अध्यापीपक्षधर्मोऽसिद्धौ । २ सि. क्ष. डे. छा. 'स्याव्यवच्छिन्नेषु । ३ सि. क्ष. छा. डे. 'न्यत्रातुल्ये ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org