________________
सर्वत्र लिङ्गिनि लिङ्गसत्ता] द्वादशारनयचक्रम्
८२५ ऽत्रेत्यनर्थको निर्देशः स्यात् , तस्मात् सर्वलोकप्रसिद्धेऽग्निमति प्रदेशे साध्ये सर्वत्र धूम[व]त्त्वं लिङ्गमस्त्येव, न च सर्वाग्निमत्प्रदेशसाध्यत्वम् , तत्र दृष्टान्ताभावादसाधारणतादिदोषप्रसङ्गात् तस्मादस्ति सर्वत्र लिङ्गिनि लिङ्गमिति ।
अयोगुडाङ्गाराद्यग्नौ धूमासम्भवादिति चेन्न, अग्निसत्त्वस्य सिद्धत्वात्, अयोगुडाङ्गारभस्मच्छन्नाग्निष्वपि धूममात्रायाः कस्याश्चिद्दर्शनात्तदविनाभावात् तद्विषयलिङ्गालिङ्गत्वा- 5 त्तदलिङ्गित्वात् प्रत्यक्षविषयवत् ।
(अयोगुडेति) अयोगुडाङ्गाराद्यनौ धूमासम्भवादिति चेत् - स्यान्मतं सर्वत्र लिङ्गिनि लिङ्गं नास्ति, अयोऽनौ गुडाग्नौ अङ्गाराप्तौ च सत्यपि धूमस्य प्रत्यक्षत एवादर्शनादित्येतच्च न, अग्निसत्त्वस्य सिद्धत्वात्-न ह्यग्निरत्रेति प्रतिज्ञायामप्रतीतमग्निसामान्यं साध्यते, अग्निमसत्तायाः प्रतीतत्वात् , लोके प्रत्यक्षोपलव्धधूमबलेना।ति देशविशिष्टस्याप्रत्यक्षस्य सिषाधयिषितत्वात् , अयोगुडांगारभस्मछन्नाग्निष्वपि धूम- 10 मात्रायाः कस्याश्चिद्दर्शनात्तदविनाभावात् , तद्विषयलिङ्गालिङ्गत्वादिति-अयोगुडाङ्गारादिविषयस्य लिङ्गस्य धूमस्यालिङ्गत्वात-अविवक्षितत्वादप्रत्यक्षत्वाद्वेत्यर्थः, तदलिङ्गित्वात् प्रत्यक्षविषयवदिति-ते ह्ययोगुडाङ्गाराद्यग्नयो न लिङ्गिनो लिङ्गाभावात्तेषाम् , तस्यामवस्थायां देशे च तस्मिन्नविज्ञातत्वात् , लिङ्गयते च लिङ्गदर्शनबलेन लिङ्गि वस्तु, न हि ते लिङ्गयन्ते लिङ्गदर्शनात् , लिङ्गनिरपेक्षप्रसिद्धेश्व, यथा प्रत्यक्षोपलब्धिकाले, तस्मात्तेषामलिङ्गित्वात् प्रत्यक्ष विषय]वदिति, [न] लिङ्गं धूमस्तेषाम् , यत्र चासौ लिङ्गं तत्र लिङ्गिनि देशे 15 सिद्धत्वादेव लिङ्गम् , तत्रासिद्धरग्नि[मत्त्वेन देशो लिङ्येवेति ।
प्रदेशस्यैव लिङ्गित्वात् प्रदेशविशेषयोरुभयोरप्यत्रेत्येकपदोपात्तत्वेनाभेदात् सर्वलोकप्रसिद्धेऽग्निमति प्रदेशे साध्ये सर्वत्र धूमवत्त्वं लिङ्गमस्त्येवेति सर्वत्र लिशिनि लिङ्गासम्भवोक्तिरयुक्तेति भावः । ननु यावन्तोऽग्निमत्प्रदेशास्ते सर्वे साध्यन्ते न च तत्र सर्वत्र लिङ्गसम्भव इत्याशङ्कते-न चेति । तथा च निश्चितसाध्यवतः सपक्षस्याभावात् सपक्षवृत्तित्वलक्षणान्वयस्याभावेन व्यतिरेकस्याप्यभावात् सर्वसपक्षविपक्षव्यावृत्तलक्षणासाधारणत्वादिदोषाः प्रसज्यन्त इत्युत्तरयति-तत्र दृष्टान्ताभावादिति। नन्वयो- 20 ऽन्यादिलिगिनो न लिङ्गसम्भवः, तत्र धूमादेः प्रत्यक्षत एवादर्शनादिति शङ्कते-अयोगुडेति । व्याकरोति-स्यान्मतमिति । न ह्ययोऽन्यादयो लिङ्गिनः, तेषां प्रतीतत्वात् , न ह्यग्निरत्रेति प्रतिज्ञायामप्रतीतमग्निसामान्य साध्यते, अग्नेश्च प्रतीतत्वादेव न लिङ्गित्वम्, किन्तु देशविशिष्टोऽग्निरेव लिङ्गी, देशविशिष्टत्वेनाग्नेरप्रत्यक्षत्वेन सिषाधयिषितत्वात् , सोऽपि देशो लिङ्गाधार एव ग्राह्यः, लोके प्रदेशविशेषे लिङ्गं दृष्दैव लिङ्गिनोऽनुमानादित्याशयेन समाधत्ते-अग्निसत्त्वस्येति । वस्तुतस्तु अयोऽनयादिष्वपि ईषद्धमो दृश्यत एव, तथापि नासो लिङ्गत्वेन विवक्षितः, अप्रत्यक्षत्वात् , अत एव प्रत्यक्षदृष्टस्याग्नेरलिङ्गित्ववदयोऽम्यादीनामप्यलिङ्गित्वमित्याश-25 येनाह-अयोगुडाङ्गारेति । तद्भूमस्यालिङ्गत्वमाह-तद्विषयेति, अयोगुडाङ्गाराद्यम्यविनाभाविधूममात्रावगाहिदर्शनविषयेत्यर्थः । अयोऽग्यादेरलिङ्गित्वमाह-तदलिकित्वादिति । कथं लिङ्गाभाव इत्यत्राह-तस्यामवस्थायामिति, धूममात्राऽवस्थायां स्तोकत्वादेव तस्मिन् प्रदेशेऽविज्ञातत्वादिति भावः । लिङ्गदर्शनबलेन यदेव वस्तु लिङ्ग्यते तदेव लिङ्गीत्युच्यते, न ह्ययोऽम्यादयः खत एव सिद्धा लिङ्गदर्शनबलेन लिङ्यन्ते तत्र लिङ्गादर्शनादित्याह-लिङ्यते चेति। प्रत्यक्षसिद्धाग्निं दृष्टान्तयति-यथेति। एवञ्च प्रत्यक्षदृष्टानिवदयोऽम्यादीनामलिङ्गित्वात्तेषां धूमो लिङ्गं न भवतीत्साह-तस्मात्तेषामिति । अग्निमति सिद्धो धूमो लिङ्गं भवति 30 अग्निमत्त्वेनासिद्धो देशो लिङ्गी भवतीत्याह-यत्र चासाविति । स्यान्नाम न लिङ्गिनोऽयोऽन्यादयस्तदा, यदा ते सिद्धाः भवन्ति
सि.क्ष. चकनत्स्वपि । २ सि. छा. असत्त्वादित्यधिक दृश्यते । ३ सि. क्ष. छा. डे. 'ननिज्ञानत्वान् । ४ सि.क्ष. डे. छा. तत्रासिद्धे०
द्वा० न० ३६ (११३)
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org