________________
८९४
न्यायागमानुसारिणीव्याख्यासमेतम् [उभयनियमारे ....... किमङ्गमित्यादि, श्लोकत्रयं प्रेर्यप्रस्तावेनोपन्यस्तं समस्तस्य त्वदुक्तस्यार्थजातस्य पूर्वोक्तेन न भवति न भवतीत्यभवनपरमार्थत्वात् खपुष्पवदभावेन गम्यगमकनियमो नास्त्येवेति गतार्थम्, किञ्चान्यत्-यत्तूक्तमित्यादि पूर्वपक्षप्रत्युच्चारणं यावद्भूमादि[वदि]ति, यत् स्वार्थस्यांशेऽप्यदर्शनात्मकत्वं समर्थयतोक्तं-न सर्वत्र लिङ्गिनि लिङ्गं सम्भवतीति तदिदमप्यप्रेक्ष्यवादितया न वा धियां कौशलमित्यभिप्रायः, तद्व्याचष्टे-यदि 5 लिङ्गयेवेत्यादि, लिङ्गमस्यास्तीति लिङ्गि, यदि तत्सर्वं लिङ्गि, भस्मांगारायोगुडपाकाद्यग्याख्यं वस्तु कथं तस्य लिङ्गं नास्ति ? लिङ्गाभावे लिङ्गित्वस्यैव[] भावात् , मत्त्व यनिर्देश्यलिङ्गित्वाभ्युपगमादेव लिङ्गास्तित्वमित्यभिप्रायः । अथ नास्ति लिङ्गं कथं तद्वान् ? लिङ्गमस्यास्तीति लिङ्गवान् , लिङ्गीत्यर्थः, मत्वर्थीयनिर्देश्यो न भवितुमर्हति सोऽर्थः, तन्निमित्ताभावादिति स्ववचनविरोधि ते वचनमिति ।
__ अग्निधूमोदाहरणे चेदमः प्रत्यक्षविषयस्य सप्तम्यन्तनिर्देशेऽत्रेति प्रत्यक्षोपलभ्यधूमा10 धारप्रदेशाभिसम्बन्धो धमवत्त्वाळूमादिति, यथाऽग्निरत्रेति साध्याधारप्रदेशप्रत्यक्षनिर्देशादग्नेः परोक्षस्य जिज्ञासितत्वात् तद्वत्त्वेन देशस्य साध्यत्वम् , इतरथाऽत्रेत्यनर्थको निर्देशः स्यात्, तस्मात् सर्वलोकप्रसिद्धिमत्यग्निमति प्रदेशे साध्ये सर्वत्र ध्मवत्त्वं लिङ्गमस्त्येव, न च सर्वाग्निमप्रदेशसाध्यत्वम् , तत्र दृष्टान्ताभावादसाधारणतादिदोषप्रसङ्गात् ।
अग्निधूमोदाहरणे चेत्यादि, इदं तावत् प्रष्टव्योऽसि[?]अग्निरत्र धूमादिति इदमः प्रत्यक्षविषयस्य 15 प्रातिपदिकस्य सप्तम्यन्तनिर्देशेऽत्रेति प्रत्यक्षोपलभ्यधूमाधारप्रदेशाभिसम्बन्धिधूमवत्त्वाळूमादिति, यथा
ऽग्निरत्रेति साध्याधारप्रदेशप्रत्यक्षनिर्देशादग्नेः परोक्षस्य जिज्ञासितत्वात् तद्वत्त्वेन देशस्य साध्यत्वात् , इतरथाव्याचष्टे-श्लोकत्रयमिति, नास्माभिरेतदुपलब्धमिति न व्याख्यायते, प्रेर्यप्रस्तावेन-त्वदुदिते आक्षेपकर्तुः प्रसङ्गेनोपन्यस्तस्यार्थजातस्य त्वदीयाभ्युपगमेनाभावमात्रविषयत्वात् खपुष्पवदसत्त्वेन कोऽसौ नियम इति भावः । उक्त्यन्तरस्याप्यप्रेक्ष्यवादत्वमाह-यत्तू
तमिति, अन्वयव्यतिरेकद्धारभूते तुल्यातुल्ययोवृत्त्यवृत्ती प्रदर्शयता तत्र तुल्ये नावश्यं सर्वत्र वृत्तिराख्येया, क्वचिदानन्त्येऽर्थस्या20 ख्यानासम्भवात्, न हि सम्भवोऽस्ति वृक्षशब्दस्य सर्ववृक्षेषु दर्शनस्य, नापि सर्वत्र लिङ्गिनि सर्वलिङ्गस्य सम्भवः, अग्निधूमादिवदित्युक्तं त्वया तदपि न युज्यत इति भावः । अयुक्ततामेव प्रदर्शयति यदि लिङ्गयेवेति-भस्मच्छन्नाम्न्यनारायोऽग्निगुडपाकाम्न्यादीनां सर्वेषां यदि लिङ्गित्वं तर्हि न लिङ्गासम्भवः, लिङ्गमस्यास्तीति लिङ्गीति व्युत्पत्त्या तेषां लिङ्गसत्त्वसिद्धेः, अन्यथा ते लिङ्गिन एव न भवेयुः, तेच लिगिन इति चाभ्युपगम्यते त्वया, तत्कथं लिङ्गासम्भवः लिङ्गासम्भवे वा ते कथं लिङ्गिनः, लिङ्गिशब्दप्रवृत्तिनिमित्तस्य लिङ्गस्या
भावादिति तेषां लिङ्गित्वोक्तिः लिङ्गं नास्तीति स्ववचनेनैव विरुध्यत इति भावः । अग्निधूमोदाहरणेऽपि सर्वत्र लिगिनि लिङ्ग26 मस्त्येवेति दर्शयति-अग्निधूमोदाहरणे चेति । इदं तावदिति, अत्र तावत् प्रश्नोऽस्फुटः । सर्वत्र लिङ्गिनि लिङ्गास्तित्व
प्रतिपादनाय अग्निरत्र धूमादिति वाक्येऽत्रेति पदं धूमपदेनाग्निपदेन च योजयित्वाऽर्थमाह-इदम इति, इदंशब्दात् सप्तम्यर्थे त्रल् प्रत्ययः, अत्रेदंशब्दः प्रत्यक्षविषयदेशविषयः, सप्तम्यर्थोऽभिसम्बन्धः, सोऽपि प्रत्यक्षविषयो देशो धूमाधारो ग्राह्यः, अत्रशब्दस्य धूमशब्देनाभिसम्बन्धात्, तथा चात्र धूमादित्यस्य प्रत्यक्षविषयधूमाधारप्रदेशाभिसम्बन्धिधुमवत्वादित्यर्थः, शब्दबोधस्येदृशत्वेऽपि
हेतुत्वेनेप्सितो धूमादित्येवेति भावः । तत्रनिदशेनं दर्शयति-यथाऽग्निरत्रेति। अत्रपदसमभिव्याहृताग्निपदमहिना यथा प्रत्यक्ष30 विषयीभूतान्याधारप्रदेशलाभेऽपि प्रदेशस्य प्रत्यक्षविषयत्वेनाजिज्ञासितत्वात् परोक्षविषयाग्नेरेव जिज्ञासितत्वम् , अत एव प्रदेशत्वा दिना प्रदेशस्य सिद्धत्वेऽपि अग्निमत्त्वेन प्रदेशः साध्यं भवति तद्वदित्यर्थः । अन्यथा प्रदेशस्य तत्त्वेनासाध्यत्वेऽजिज्ञासितत्वादोरेव साध्यत्वसम्भवेऽत्रेति पदोपादानं व्यर्थ स्यादित्याह-इतरथेति । एवञ्च लिङ्गाधारप्रदेशाभिसबन्धिहेतोरेव लिङ्गत्वात् साध्याधार
१ सि.क्ष. छा.डे. प्रेयप्रसारणो०।
२ सि.क्ष.डे. सम्बन्धो। ३ सि.क्ष. छा.डे. समाधार।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org