________________
गम्यगमकनियमः]
द्वादशारनयचक्रम् शब्दादिमर्थ नातिक्रम्य वर्तते येन रूपेण, केन च नातिवर्तते ? धूम इत्यथूमो न भवति कृतक इत्यकृतको न भवतीत्यधूमाकृतकनिवृत्त्यात्मना नातिकामति तेनैव च रूपेणान्यतो व्यावृत्त्यात्मकेन गमयति, सत्त्वद्रव्य[व]ाद्यनेकधर्मापि सन् तैस्तान् व्यभिचारान्न गमयति-सत्त्वादिसामान्यधमैरिति, एष तावद्गमकनियमः, गम्यनियमोऽपि-गम्यन्त इत्यादि, लिङ्गिनोऽनुबन्धिनः सा[मान्यधर्माः सत्त्वद्रव्यत्वादयो गम्यन्ते, तैरविनाभावात् , लिङ्गस्य विशेषास्तौषकारीपादयो न गम्यन्ते तस्यैव व्यभिचारित्वात्-लिङ्गस्य विशेषैः सहादृष्ट- । त्वात् , एवं लिङ्गस्यान्यव्यावृत्तं सामान्यं गमकं नाव्यावृत्तमन्यतः, सत्त्वादिलिङ्गिनः सामान्यं गम्यं निवृत्तंअनग्यादिभ्यः, अमित्वं सत्त्वादि चाग्निनाऽनुबंद्धमव्यभिचारादिति, लिङ्गे स्वयं पुनर्विशेषः 'लिङ्गानुबन्धिनः स्वार्थाः इत्यादि श्लोकः, पूर्वोदाहृताः सामान्यधर्माः सत्त्वादयो लिङ्गस्य धूमस्य न गमयत्युक्तकारणत्वात्, विशेषास्तु केचिल्लिंग्यविनाभाविनः प्रतीताः प्रतिपादकाः पाण्डुत्वबहलत्वादय इति ।
10 एतत्पुनः कथं पूर्ववदलक्षणमित्यत आहकिमङ्गं
......... । .......... ...............................
..................... ॥ ......
................ ॥ यत्तूक्तं न सर्वत्र लिङ्गिनि लिङ्गं संभवत्यग्निधूमादिवदिति तदिदमपि यदि लिङ्गयेव, कथं तस्य लिङ्गं नास्ति ? अथ 15 नास्ति लिङ्गं कथं तद्वानिति स्ववचनविरोधि ते वचनम् ।
मिमद्देशादिकं गमयति, व्यभिचारात् किन्तु अधूमादिव्यावृत्तिरूपेणैव तं गमयति, एवं कृतकत्वादिकमपि अकृतकनिवृत्त्यात्मनाऽनित्यत्वविशिष्टं शब्दं गमयतीति गमकस्य नियम इति भावः । गम्यनियममाह-गम्यनियमोऽपीति, लिङ्गिनि अग्न्यादौ गताः केचित्सामान्यधर्माः सत्त्वद्रव्यत्वादयो गम्यन्ते, तैः स्वव्यापकव्यापकैः सह लिङ्गस्याव्यभिचारात् केचिच्च तदभावादेव विशेषास्तौषकारीषादयो न गम्यन्ते, तेषां लिङ्गनिरूपितव्यभिचारादिति भावः । तदेवाह-एवमिति, लिङ्गगतं परेभ्यो व्यावृत्तमेव सामान्यं 20 गमकं भवति, लिङ्गिनिष्ठं सत्त्वादिसामान्यमन्यव्यावृत्तं गम्यं भवति । तच्च सामान्यमग्नित्वं सत्त्वादि च, अम्यनुबद्धत्वेनाव्यभिचारादिति भावः । अयमत्र भावः, कार्य कारणादुत्पत्तेर्यदि कारणस्य गमकं तर्हि सर्वथा गम्यगमकभावः प्रसज्यते, अग्नेः सामान्यधर्मवद्विशेषधर्मा अपि तार्णपार्णत्वादयो गम्याः स्युः, धूमस्यापि विशेषधर्मवत् सत्त्वद्रव्यत्वपार्थिवत्वादयोऽपि सामान्यधर्मा गमका भवेयुः, सर्वथा जन्यजनकभावात् , यथा हि अग्निरग्नित्वद्रव्यत्वसत्त्वादिभिः सामान्यधर्मर्जनकः तथा तार्णपार्णत्वादिभिरपि विशेषैः । यथा च धूमो धूमत्वपाण्डुत्वबहलत्वादिभिः म्वनियतैर्विशेषधमैर्युक्तो जन्यस्तथा सामान्यधर्मेरपिसत्त्वद्रव्यत्वादिभिः,ततश्च यथा तयोः कार्यकार-25 णभावस्तथैव गम्यगमकभावः स्यादिति चेन्न, न हि सर्वथा जन्यजनकभावः ततश्च कथं तथा गम्यगमकभावः स्यात् तार्णपार्णत्वादि विशेषधर्माणामभावे भवतो धूममात्रस्य तदुत्पत्तिनियमाभावात् , एवमग्न्यभावे भवतो द्रव्यत्वादिसामान्यधर्मस्याग्नेरुत्पत्तिनियमो नास्ति, एवञ्च स्वगतैर्यावद्भिर्धमत्वादिभिः धूमोऽग्निगतैर्यावद्भिरग्नित्वद्रव्यत्वादिभिर्विना न भवति तेषां कारणगतसामान्यधर कार्य गमकम् । न हि तत् सामान्यधर्मात् कदाचिदपि कार्य व्यभिचरति. एवं कारणगताः सामान्यधर्मा गम्याः, कार्यमपि तैरेव खगतैः कारणगतानां धर्माणां गमकम् , येऽर्थान्तरासम्भविनो धूमत्वपाण्डुत्वबहलवादयो विशेषरूपाः, एते हि कारणगतैः सामान्य-30 धर्मेविना न भवन्तीति। लिङ्गे विशेष प्रागुक्तं दर्शयति-लिङ्गानुबन्धिन इति. लिङ्गगताः सत्त्वद्रव्यत्वादि सामान्यधर्मा न लिङ्गिन गमयन्ति, अधूमेऽपि तेषां वृत्तः, लिङ्गिव्याप्याव्याप्यत्वात् , कचित्तु लिङ्गनिष्ठाः विशेषाः पाण्डत्वबहलत्वाविच्छिन्नमूलत्वादिधर्मालिग्यविनाभाविनो लिङ्गिच्याप्यव्याप्यत्वाल्लिनिनं गमयत्येवेति भावः । उक्तगम्यगमकनियमोऽपि पूर्ववदलक्षणमेवेत्साह-किममिति।
१ सि.क्ष. छा. डे. "मुबद्धानन्य० । २ सि.क्ष. छा. डे. लिङ्गस्याधः ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org