________________
८९२ न्यायागमानुसारिणीव्याख्यासमेतम्
[उभयनियमारे मूलादिमति पलाशादौ खार्थांशे वा वृत्तिवत् , तस्मादेव चानन्त्यादकृतसम्बन्धजातिशब्दभेदवाचित्वेऽप्यदोषः तथार्थांशेऽदृष्टत्वात्-अदृष्टस्वार्थांशत्वादित्यर्थः, अपोहस्वार्थवत्-अवृक्षो न भवतीत्यवृक्षापोहस्य स्वार्थो मूलादिमाननन्तःकोटरादिभेदेन तद्वाचित्वे चादोषो दृष्ट एवं भेदवादिनोऽप्यानन्त्येऽपि भेदानामकृत
सम्बन्धेऽपि दोषाभावः स्यात् , त्वन्मतस्वार्थेऽपि वा तद्वदोष एव स्यादिति कुतः तुल्यातुल्ययोवृत्त्यवृत्तिभ्या5 मन्वयव्यतिरेको ? कुतो वा शब्दस्याभिधेयस्य पक्षस्य धर्मत्वं ? लिङ्गवल्लिङ्गिनः कुतस्त्रैलक्षण्यम् ? कुतोऽनुमानत्वमिति ।
एवञ्च शब्दलिङ्गगतपक्षापक्षमिष्यते तदेव पक्षाद्यतथार्थत्वादतत्तत्प्रत्ययात्मकत्वादनुमानमप्रमाणम्, अलातचक्रे चक्रमिति प्रत्ययवत्, तस्मात् साधूक्तं 'नाप्रमाणान्तरं शाब्दमनुमानात्तथाहि तत् । कृतकत्वाद्यपि स्वार्थमात्मापोहेन नाशयेत् ॥ (ग्रन्थकर्तुः ) इति, इदमपि वाऽत10 एव पूर्ववदलक्षणं यत्त्वयोक्तं यथा लिङ्ग लिङ्गिनं नातिकामति येन रूपेण तेनैव रूपेण चान्यतो
व्यावृत्त्यात्मकेन गमयति, सत्त्वाद्यनेकधमोपि सन् तैस्तान् व्यभिचारान्न गमयति, गम्यन्ते च लिङ्गयनुबन्धिनः सामान्यधर्माः तैरविनाभावात् , लिङ्गस्य विशेषा न गम्यन्ते तस्यैव व्यभिचारित्वात्, एवं लिङ्गस्यान्यव्यावृत्तं सामान्यं गमकं नाव्यावृत्तम्, लिङ्गिनः सामान्यं गम्यं निवृत्तम् , लिङ्गे त्वयं विशेषः 'लिङ्गानुबन्धिनः स्वार्थाः' (ग्रन्थकर्तुः) 18 (एवश्चति) एवञ्च शब्दलिङ्गगतपक्षापक्षमिष्यते तदेव पक्षाद्यतथार्थत्वात् अतस्मिंस्तदिति प्रत्ययो
ऽनुमानमिति सुभावितार्थम् , तस्मादतत्तत्प्रत्ययात्मकत्वात् अनुमानमप्रमाणम् , अलातचके भ्रमदृष्टेः पुंसोऽचक्रे चक्रमिति प्रत्ययवदिति, तस्मात् साधूक्तं 'नाप्रमाणान्तरं शाब्दमनुमानात्तथाहि तत् । कृतकत्वाद्यपि स्वार्थमात्मापोहेन नाशयेत् ॥ इति, अप्रमाणादनुमानात् परपरिकल्पितं शाब्दमपि नाप्रमाणान्तरं नार्थान्तरं-अप्रमाणमेवानुमानवदिति प्रकृतोपसंहारार्थः, इदमपि वाऽत एव पूर्ववदलक्षणं-'न प्रमा20 णान्तरं शाब्द'मिति श्लोको यथाऽलक्षणं तथेदमपि लिङ्गलिङ्गिनोर्गमकगम्यनियमार्थकम् , कतमत्तदिति
चेदुच्यते-यत्त्वयोक्तं यथा[लि]ङ्गमित्यादि, लिङ्गमङ्गं-धूमकृतकत्वादि लिङ्गिनं-अग्न्यनित्यत्वादिविशिष्टं देशदाभिधानेऽपि न कश्चिद्दोषः स्यात् । यदि त्वत्र पक्षे दोषो मन्यते तर्हि त्वदभिमतस्वार्थेऽपि दोषः स्यादेवेत्साह-तस्मादेव चेति । उक्तमेव भावं वर्णयति-अवक्षो नेति । जातिपक्षवत्त्वत्पक्षेऽपि दोषस्य तुल्यत्वेन शब्दस्य हेतोस्तुल्ये वृत्तित्वादतुल्येऽवृत्तित्त्वाच्च यावन्वयव्यतिरेको तौ कुतो भवेताम् ? कुतो वाऽभिधेयस्य पक्षस्य धर्मः शब्दः स्यात् , कुतो वाऽग्नेलिङ्गिनो लिङ्गस्य धूमस्य त्रैलक्षण्यमिव 25 शब्दस्य त्रैलक्षण्यम् ? कुतश्च वाऽनुमानस्वमित्याह-कुत इति । एवमनुमानस्याप्रमाणमाह-एवञ्चेति । तवान्यापोहाभ्युपगन्तुर्मतेन न कश्चिच्छब्दो नामास्ति यः पक्षो लिङ्गं वा भवेत् , न भवति न भवतीत्यभवनपरमार्थत्वादुभयतोऽप्यभावमात्रत्वात् तस्मिश्वासति कथं पक्षः स्यात् पक्षधर्मः सपक्षधर्मों वा, तथापि पक्षाद्यभ्युपगमेऽतस्मिंस्तदिति प्रत्ययात्मकत्वेन पक्षादेरतथार्थत्वादतत्तत्प्रत्ययात्मकत्वाच्चानुमानमप्रमाणं स्यात्, भ्रान्तदृष्टेरलातचक्रे चक्रबुद्धिवदिति भावः स्यादिति प्रतिभाति । इत्थमनुमानस्याप्रमाणत्वे न प्रमाणान्तरं शाब्दमित्यादि कारिकैवं वाच्येत्याशयेनाह-तस्मात् साधूक्तमिति । संक्षेपेण तदर्थमाह-अप्रमाणादिति । 30 अथ लिङ्गलिङ्गिनोर्गमकगम्यनियमार्थकमपि त्वद्वचनं न प्रमाणान्तरं शाब्दमित्यादिवचनवदलक्षणमिति दर्शयति-इदमपीति । तद्वचनमेवाह-यथा लिङ्गमित्यादीति, लिङ्गं धूमादि सत्त्वद्रव्यत्वाद्यनेकधर्मयुतम् , तथापि तद्भूमादि सत्त्वादिधर्मेरवच्छिन्नं सन्ना
क्ष. तथावाशे दृष्ठस्वार्थाशत्वादिपलाशादित्यधिकं दृश्यते। २ सि. क्ष, छा. तानन्त्याः । ३ क्ष. छा. तथावर्थाडेदृष्टस्वाशत्वादित्यर्थः। ४क्ष.छा. तुल्यानुमेययो०। ५ सि.क्ष.छा.डे पक्षमिस्येते । ६क्ष.डे. छा. यत्त्वयोक्तं तथा गमित्यादि ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org