________________
शब्दानुमानासम्भवः]
द्वादशारनयचक्रम् । स्यान्मतं साध्याशेषानित्यत्वाव्यापिप्रयत्नानन्तरीयकत्ववदनुमानं स्यात् , वनस्पत्यव्यापिस्वापवदनुमानाभासः स्यादिति सन्देह इत्येतञ्च न___ अशेषपक्षाव्यापी वृक्षशब्दो ह्यशेषमवृक्षव्यवच्छिन्नं वृक्षार्थ नामवृक्षं स्थापनावृक्षं वा सपक्ष नतु न व्यामोति, नाप्यनुमानेऽत्र दोषः तत्र कः सम्बन्धः साध्याशेषानित्यत्वाव्यापिप्रयत्नानन्तरीयकत्वानुमानत्वप्राप्तेः? स्वापोदाहरणनिरपेक्षादृष्टदेशवर्तित्वाभ्युपगमे त्वतुल्येऽपि । वृत्तिप्रसङ्गः ? अवृक्षे घटादौ वृक्षश्रुतेः अदृष्टदेशवर्तित्वात् , मूलादिमति पलाशादौ स्वार्थाशे वा वृत्तिवत् , तस्मादेव चानन्त्यादकृतसम्बन्धजातिशब्दभेदवाचित्वेऽप्यदोषः, तथाऽर्थाशेऽदृष्टत्वात् , अपोहस्वार्थवत् , त्वन्मतस्वार्थेऽपि वा तद्वद्दोष एव स्यादिति कुतः तुल्यातुल्ययोवृत्त्यवृत्तिभ्यामन्वयव्यतिरेको ? कुतो वा शब्दस्याभिधेयस्य पक्षधर्मत्वम् ? लिङ्गवल्लिङ्गिनः कुतस्त्रैलक्षण्यम् ? कुतोऽनुमानत्वम् ?
10 अशेषपक्षाव्यापीत्यादि, प्रयत्नानन्तरीयकं हि सपक्षं न व्याप्नोति स्वापस्तु पक्षमेव न व्याप्नो तीति परिहारः, वृक्षशब्दो ह्यशेषमवृक्षव्यवच्छिन्नं वृक्षार्थ नामवृक्षं मनुष्यादि स्थापनावृक्षं-चित्रादि वाऽस्मन्मतेन साध्यधर्मसामान्येन समानं सपक्षं न तु न व्याप्नोति, नाप्यनुमानेऽत्र दोषः, स्वार्थांशवृत्तित्वात्अध्यापिपक्षधर्मत्वात् वनस्पतिचैतन्ये स्वापवदित्युदाहृतम् , तस्मानानुमानाय स्यादृक्षशब्द इति साधूक्तम् , तन्त्र कः सम्बन्धः साध्या[शेष ]नित्यत्वाव्यापिप्रयत्नानन्तरीयकत्वानुमानत्वप्राप्तेरिति, स्यान्मतमुक्तवाप- 15 दृष्टान्तमनुपेक्ष्य वृक्षशब्दो यत्र न दृष्टः तानपि स्वार्थादन्यान् गमयति, दृष्टस्वार्थानुमानसाधर्म्यात् , अंशे दृष्टशक्तित्वादित्येतच्चायुक्तम् , अपोह्ये वृत्तिप्रसङ्गात् , अत आह-स्वापोदाहरणनिरपेक्षादृष्टदेशवर्तित्वाभ्युपगमे त्वतुल्येऽपि वृत्तिप्रसङ्गः-अतुल्ये साध्यविपक्षे वृत्तिः स्यात् अवृक्षे पटादौ वृक्षश्रुतेः, अदृष्टदेशवर्त्तित्वात् प्रयत्नानन्तरीयकत्वाद्धटादिवदित्यत्र हेतुर्यत्र यत्रानित्यत्वं न तत्र सर्वत्र वर्तत इति साध्याशेषानित्यत्वाव्यापी, तद्वत् किं वृक्षशब्दादिति हेतुः स्यात् ? किंवा सचेतना वनस्पतयः स्वापादिति यावदनस्पत्यव्यापि खापवद्धत्वाभासः पक्षकदेशावृत्तित्वरूपः स्यादिति चोक्तहेतावा- 20 भाससंशयान्न गमकतेति संशयं निराचष्टे-अशेषपक्षाव्यापीति। व्याकरोति-प्रयत्नानन्तरीयकं हीति, प्रयत्नानन्तरीयकत्वं न पक्षकदेशाव्यापि किन्तु सपक्षमात्राव्यापि, ततश्च तद्गमकमेव नाभासः, वापस्तु पक्षमेव न व्याप्नोतीति हेत्वाभासः, वृक्षशब्दश्चैतत्तुल्य एव, न प्रयत्नान्तरीयकत्वसदृक्षोऽतो न संशय इति भावः । वृक्षशब्दः सपक्षं व्याप्नोतीति दर्शयति-वृक्षशब्दो हीति, निखिलान् वृक्षान् नामवृक्षं स्थापनावृक्षञ्च वृक्षशब्दो व्याप्नोत्सव नामस्थापनावृक्षौ चास्मन्मतेन सपक्षी, वृक्षसामान्येन समानत्वादिति भावः । अवृक्षव्यवच्छिन्नं स्वार्थमनुमातुमभिधातुं वा न प्रभवति वृक्षशब्दः, तदेकदेशवर्तित्वात् , अव्यापिपक्षधर्मत्वादित्युक्तेऽनुमाने 25 च वनस्पतिचैतन्ये खापवदित्युदाहृतत्वान्न दोष इत्याह-नाप्यनुमान इति, एवञ्च खापोदाहरणादेवानित्यः शब्दः प्रयत्नानन्तरीयकत्वादित्यनुमानवदिदमनुमानं स्यादित्याशङ्काया अवसर एव नास्तीति भावः । ननु खार्थभूतशिंशपादिव्यतिरिक्तपनसादीनपि वृक्षशब्दो गमयति, अंशे शिंशपादौ दृष्टशक्तित्वात् शिंशपादीनिवेत्यनुमानात् पनसाद्यनुमापकत्वमभिधायकत्वं वा वृक्षशब्दस्य स्यान्न तु खापानुमानसाधात् तदनभिधायकत्वानुमानमित्याशङ्कते-स्यान्मतमिति । स्वार्थादन्यत्र वृक्षशब्दस्य वृत्त्यभ्युपगमे वृक्षशब्दोऽर्थान्तरेऽपोह्ये वर्तत न ततो व्यावृत्तः स्याद्वृक्षशब्द इति विपक्षवृत्तित्वादगमक एव स्यादित्युत्तरयति-स्वापोदाहरणेति। 30 अतुल्येऽपीति, साध्यधर्मसामान्येनासदृशेऽवृक्षे घटादौ वृक्षशब्दस्य वृत्तिप्रसङ्गः, यथा शिंशपादिखार्थाशव्यतिरिक्तवार्थाशे, पलाशादौ वृक्षश्रुतिर्वर्तते तदेकदेशवत्तित्वात्तद्वदिति भावः। तदेवं वृक्षशब्दस्यावृक्षनिवृत्तिविशिष्टस्वार्थार्थत्वे तत्वार्थस्य मूलस्क खाकोटरादिभेदेनानन्तत्वेऽपि तद्वाचित्वे न कश्चिद्दोषस्तथैव भेदानामानन्त्येनाकृतसम्बन्धेऽपि जातिशब्दानां तुल्ययुक्त्या जातिमद्धे'.. सि. क्ष. डे. शेषसवृक्षादव्यव• Ixx क्ष.।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org