________________
म्यायागमानुसारिणीव्याख्यासमेतम् [उभयनियमारे वेकस्मिन् सम्भवतो धूमस्य लिङ्गस्याग्नेर्गमकत्ववत्तु न स्वार्थांशमात्रे सम्भवतीति, शब्दादभिधेयप्रतिपत्तिर्न भवितुमर्हति ।
प्रत्यक्षवृक्षसम्बन्धाशक्यत्वे प्रतिपत्त्यभाववदेकत्वेऽपि मूलकोटरादिभेदानां सम्बन्धाशक्यत्वादप्रतिपत्तिः किमङ्ग ! पुनरत्यन्तपरोक्षस्वर्गादिशब्दस्वार्थाशमात्रे नो चेद्धवखदिराद्य5 नन्तभेदाभिधानं वृक्षशब्दस्य स्यात् , अदृष्टस्वार्थाशत्वात् , अव्यापिपक्षधर्मत्वात् , अवृक्षव्यवच्छिन्नस्यापि स्वार्थस्य नानुमानाय नाभिधानाय स्यावृक्षशब्दः, तदेकदेशवर्तित्वात् , अवनस्पतिव्यवच्छिन्नचैतन्यसाधनार्थस्वापवत् । - प्रत्यक्षवृक्षेत्यादि, अयं वृक्ष इति प्रत्यक्षस्यापि मूलादिमतः साक्षादुपलभ्यमानस्य संज्ञाव्युत्पत्तिकाले सम्बधकरणं नास्ति, शिंशपादिभेदानन्त्यात् जातिशब्दस्य भेदैरनन्तैः सम्बन्धाशक्यत्वे प्रतिपत्त्य10 भाववत् , एकत्वेऽपि स्वार्थाख्ये मूलादिकोटरादिहस्वदीर्घ[त नुविशालादिभेदानां सम्बन्धाशक्यत्वं क्वचिददृष्टत्वात् , किमङ्ग ! पुनरत्यन्तपरोक्षस्वर्गादिशब्दस्वार्थांशमात्रेऽपि तद्वदेवाप्रतिपत्तेः, नो चेद्धवखदिराद्यनन्तभेदाभिधानं वृक्षशब्दस्य स्यात् , अदृष्टस्वार्थांशत्वात् , अत्रानिष्टापादनसाधनं-अवृक्षव्यवच्छिन्नस्यापि स्वार्थस्य नानुमानाय नाभिधानाय स्यादृक्षशब्दः, न प्रभवतीत्यर्थः, तदेकदेशवर्तित्वात्-स्वार्थस्य धर्मिणः पक्षस्यानुमेयस्याभिधेयस्यैकदेशे वर्तितुं शीलमस्येति तदेकदेशवर्ती, किमुक्तं भवति' अव्यापिपक्षधर्मत्वात्-स15 मस्तानुमेयावृत्तित्वादित्यर्थः, अवनस्पतिव्यवच्छिन्नचैतन्यसाधनार्थस्वापवत्-यथा सचेतना वनस्पतय इति प्रतिज्ञायां स्वापादिति हेतुर्धर्मिणो वनस्पतेरेकदेशे शिरीषादौ वर्तमानोऽपि तालादिष्ववर्तमानो न चैतन्यानुमानाय प्रभवति, अव्यापित्वात् तथा वृक्षशब्दोऽपि अवृक्षव्यावृत्त्यर्थो वृक्षस्वार्थांशवृत्तिर्नानुमानाय नाभिधानाय प्रभवति, एतत् पुनः स्वार्थांशवृत्त्यभ्युपगम्यानिष्टापादनम् , नैव वृत्तिरपीत्युक्तमेव, वक्ष्यामश्वानुमानस्यापि स्वार्थाभावम् । 20 मिति । तदेव समर्थयति-प्रत्यक्षवृक्षेति । व्याचष्टे-अयं वृक्ष इति, शब्दव्युत्पत्तिकाले हि प्रत्यक्षदृष्टमूलशाखाकोटरादिमट्ट
क्षसामान्यस्य वृक्षशब्दस्य सम्बन्धकरणं न सम्भवति वृक्षभेदानां शिंशपापनसनिम्बकदम्बाम्रादीनामनन्तत्वात्, न हि सम्बन्धमन्तरेण शब्दोऽर्थमभिधातुं क्षमः, अन्यथा सर्व सर्वेण प्रत्याय्येत, एवं सामान्यशब्दस्य भेदानन्त्येन सम्बन्धाशक्यत्वात् तदर्थप्रतिपत्यभावः, एकोऽपि वृक्षो न तेन प्रत्येतुं शक्यः, गुणसमुदायरूपस्य तस्य गुणानां मूलकोटरादीनां बहुत्वेन तैः सह क्वचिददृष्टत्वात्
सम्बन्धाशक्यत्वादिति भावः। तदेवं प्रत्यक्षदृष्टे सम्बन्धाशक्यत्वे किं पुनरत्यन्तपरोक्षस्वर्गाद्यांशमात्रे इत्याह-किमङ्ग! पुनरिति । 25 यदि स्वार्थांशानामदृष्टत्वेऽपि वृक्षशब्दः स्वार्थमभिधत्ते तर्हि धवखदिराद्यनन्तभेदानभिदधीत, अविशेषादित्याह-नो चेदिति,
वार्थांशानामदर्शनात् स्वार्थ न ब्रवीतीति नो चेदिति भावः । एवञ्चाभिधेयैकदेशवर्तिशब्दो नार्थान्तरव्युदासेन स्वार्थ गमयतीति साधयति-अवृक्षेति । अवृक्षव्यावृत्तं स्वार्थमनुमातुमभिधातुं वा न प्रभवति वृक्षशब्दः, अनुमेयस्याभिधेयस्य वैकदेशे वृत्तित्वादृक्षशब्दस्य, स ह्येकमेव शिंशपादिभेदमभिधत्ते, अतो वृक्षशब्दः पक्षमनुमेयमभिधेयं वा स्वार्थ न व्याप्नोति निखिलेष्वनुमेयेष्वभिधेयेषु वा खार्थाभिमतेष्ववृत्तेरिति भावः। दृष्टान्तमाह-अवनस्पतीति । दृष्टान्तं घटयति-यथा सचेतना इति । एकस्मिन् वृक्ष30 विशेष शिंशपादौ वृक्षशब्दो वर्तत इत्यभ्युपगम्यानिष्टापादनं साधनमुक्तम् , शिंशपादावपि न वर्तत एव वृक्षशब्दः, गुणसमुदाय
मात्रत्वाच्छिशपादेर्गुणानाञ्च बहुत्वात् सर्वथाऽप्रतीतेः सम्बन्धाशक्यत्वादिल्याशयेनाह-एतत्पुनरिति । नन्वनित्यः शब्दः ... क्ष. प्रत्यक्षेत्यादि । २ सि. . छा. भेदागांत्यजातिः। ३ सि. क्ष. छा. कस्वोऽपि । ४ सि. क्ष. छा. डे. मत्येति धर्मः साधुव्यावृत्तिरस्येति । ५ सि. क्ष. छा. डे. अद्यापि । ६ सि.क्ष. छा. डे. न ववमी ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org