________________
८८९
mmam
अभिधानमिधेयाभावः]
द्वादशारनयचक्रम् एकान्तव्यावृत्तेश्च, इदमपि चात्र यदन्वयव्यतिरेको शब्दस्यार्थाभिधाने द्वारमित्युक्त्वा पुनरन्वयस्य निराकरणं तद्भवतः केनाभिप्रायेणेति न विद्मः, किमज्ञानात् ? अस्मद्बुद्धिपरिभवात् ? इहपरलोकाभ्यामयशसश्चाभीरुत्वात् ? इति । . (स चेति) स च सम्बन्धो नास्ति, उक्तवत् , उक्त सम्बन्धदौष्कर्यम् , अत एवेत्यादि-एतस्मादेव सम्बन्धदौष्कर्यात् यदुक्तं त्वया भेदाभिधानपक्षे होषजातं व्यक्तत्वात्तुं नास्त्येव व्यभिचारितादोष इति पक्षः, 5 असाधारणधर्मत्वादिति हेतुः, असाधारणधर्मत्वं सपक्षासपक्षयोरदृष्टत्वात् , तद्व्याचष्टे-बाह्यसाधारणः पक्षधर्मेत्यादि यावदेकान्तव्यावृत्तेश्चेति, तद्व्याख्यया गतार्थम् , किश्चान्यत्-इदमपि चात्रेत्यादि, अन्वयस्य निर्मूलनीयत्वात् यदन्वयव्यतिरेको शब्दस्यार्थाभिधाने द्वारमित्युक्त्वा पुनरन्वयस्य निराकरणं तद्भवतः केनाभिप्रायेणेति न विद्मः, किमज्ञानात् ? अस्मद्बुद्धिपरिभवात् ? इहपरलोकाभ्यामयशसश्चाभीरुत्वादिति। कतमदन्धयनिराकरणमिति चेदुच्यते यदन्वयविषय एकदेशो निरूप्यते त्वया वृक्ष इत्यवृक्षो न भवतीत्यवृक्षव्युदासेन। 10
कथं पुनरनेन त्वया निराक्रियत इति चेद्मः__नन्वेवं सर्ववृक्षार्थदर्शनासम्भवात् भेदानन्त्याच्च स्वार्थदेशव्याप्यन्वयाभावात् गुणसमुदायमात्रत्वादभिधानाभिधेययोः कोऽसौ सम्बन्धो येनाभिधानाभिधेयाभाव उपपद्येत, लिङ्गयेकदेशसम्भविलिङ्गस्य गमकत्ववत्तु न स्वार्थाशमात्र सम्भवति ।
नन्वेवमित्यादि, यावत् कोऽसौ सम्बन्धो येनेति, इति भावना गतार्था तत्र कारणमाह-सर्ववृक्षार्थ- 15 दर्शनासम्भवात् भेदानन्त्याच्चासम्भव उक्तः, स्वार्थदेशव्याप्यन्वयो नास्तीति चोक्तो गुणसमुदायमात्रत्वात् गुणभूतेष्ववयवेष्वसत्त्वं दर्शनस्योक्तं त्वयैव, तस्मादन्वयाभावेऽनुमानानुमयसम्बन्धाभावादनुमानानुपपत्तिवदभिधानाभिधेयभावस्यानुपपत्तिरिति, स्यान्मतं लिङ्गयेक देशसम्भविलिङ्गवदभिधेयैकदेशसम्भव्यभिधानदर्शनादस्त्यन्वयोऽभिधानश्चेत्यत्रोच्यते तदप्यभ्युपेत्य-लिङ्येकदेशेत्यादि, लिङ्गिनामग्नीनामेकदेशेऽना
wwwwwww
www
विना शब्दो लिङ्ग वा स्वार्थं प्रख्यापयितुं शक्नोतीति त्वयैवोक्तमित्याह-सचेति । व्याचष्टे-सच सम्बन्ध इति । भेदाभिधान-20 पक्षे सच्छब्दो यथा द्रव्ये वर्तते तथा घटादिष्वपीति व्यभिचारितादोषो यस्त्वयोक्तः स नास्त्येव, असाधारणधर्मत्वादित्याह-एतस्मादेवेति अत्र मूलं मृग्यम् । अथ शब्दस्यार्थाभिधानेऽन्वयो व्यतिरेकश्च द्वारमिति प्रोच्य तत्र यदन्वयस्य निराकरणं क्रियते तत्केन हेतुनेति पृच्छति-इदमपि चेति। अन्वयनिराकरणं दर्शयति-यदन्वयेति. अन्यापोहविशिष्ट तद्विषय एकदेशो निरूप्यते, अर्थान्तरापोहेन खार्थमभिधत्ते श्रुतिरिति न्यायादिति भावः। तन्निराकरणप्रकारमाह-नन्वेवमिति । वृक्षाणामानन्न्यात् सम्बन्धाशक्यत्वाच्च वृक्षशब्दस्य सर्वेषु वृक्षेषु दर्शनं न सम्भवतीति दर्शयति-सर्ववृक्षार्थेति। डित्थादेरेकत्वेन तत्र 25 डित्थादिशब्दस्य दर्शनसम्भवो यद्यप्यस्ति तथापि गुणसमुदायमात्ररूपस्य डित्थादेः सर्वात्मनाऽप्रतीतिरेवेत्याह-स्वार्थदेशेति, डित्थादेः स्वार्थस्य यो देशः काणकुण्टादिस्तव्याप्यन्वयो नास्तीत्यर्थः । गुणभूतस्यावयवस्यापि गुणसमुदायमात्रत्वेन सर्वथाऽप्रतीतिरेबेत्याह-गुणभूतेष्विति । तदेवं तुल्ये वृत्तिरूपस्यान्वयस्यानुपपत्तौ तज्ज्ञाप्यानुमानानुमेयसम्बन्धस्याग्रहेणानुमानासम्भवात् शब्दार्थयोरभिधानाभिधेयसम्बन्धस्याप्यग्रहादेवानुपपत्तिरित्याह-तस्मादिति। ननु सर्वत्र लिङ्गिनि सर्वलिङ्गदर्शनासम्भवेऽपि लिङ्गये. कदेशेऽनावेकस्मिन् लिङ्गस्य धूमस्य दर्शनेन यथा तल्लिङ्गं धूमोऽग्नेर्गमकं भवति तथाभिधेयेष्वेकाभिधेयेनामिधानस्य दर्शनात् अन्वयग्रह: 30 शब्दस्याभिधायकत्वञ्चोपपद्यत इत्याशङ्कते-स्यान्मतमिति । शब्दादेकदेशाभिधेयप्रतिपत्तिर्न भवितुमर्हतीत्याह-लिब्रिना
.सि. क्ष. छा. डे, नना। २ सि. क्ष. छा, डे, एकदेशे। ३ सि.क्ष. छा. डे. कासासम्बन्धयइति ।
_Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org