________________
mammow
imwammamam
wwwwww
૮૮૮
न्यायागमानुसारिणीव्याख्यासमेतम् उभयनियमारे दौष्कर्यम् , यः स वृक्षशब्दो यस्य स वृक्षोऽर्थस्तदितरो वा तस्य शब्दस्य तेनार्थेन न शक्यते सम्बन्धः कर्तुम् , तेन सहात्यन्तमदृष्टत्वात् श्रावणत्वनित्यानित्यत्ववत् ।
__ अन्वयानुयुक्तयुदाहृतेरित्यादि, यावदेतदिति चेदिति, एतदुक्तं भवति डित्थ इत्यस्य[]डित्थो न भवतीति व्यावृत्त्या डित्थार्थगतेरन्धयाभावादेव डित्थोदाहरणमिति, एतच्च न, तत्प्रतिपत्तिनिर्मूलत्वात्-नैतद5 डित्थ[व्यु]दासमात्रमुपपद्यते प्रतिपत्तेरभावप्रसङ्गात्, न भवति न भवतीत्युभयतोऽप्यभावमात्रत्वात् प्रतिप
त्तिनिर्मूलत्वम् , कस्मात् ? अनवगतपर्युदासकस्वार्थत्वात्-अनवगतः पर्युदासो यस्य स्वार्थस्य सोऽनवगतपयुसदकस्वार्थः, तद्भावादनवगतपर्युदासकस्वार्थत्वात् नास्ति प्रतिपत्तेर्बीजम् , दृष्टान्तः-अविदिते देवदत्ते न भवत्यदेवदत्त इति वचनमप्रतिपत्तरेव कारणम् , निर्मूलत्वात् , तथैव तदिति, तद्भावयति-एवश्च शब्दस्येत्यादि यावत् स इहापीति, यथा पूर्वमुक्तं आस्तां ते शब्दसम्बन्धोऽर्थाभावादिति सम्बन्धाशक्यत्वं दोषः, स एव 10 ततोऽन्यस्य चार्थस्याभावादलब्धात्मकेऽर्थद्वये शब्दस्य केन सहाविनाभावः सम्बन्धः स्यादिति श्रुतेः सम्ब
न्धदौष्कर्यम् , तदुपसंहृत्य प्रतिज्ञायते यः स वृक्षशब्दो यस्य स वृक्षोऽर्थः तदितरो वेत्यवृक्षशब्दावृक्षार्थयोः सम्बन्धो वृक्षशब्दार्थयोः प्रतिपत्त्यर्थः, तस्य शब्दस्य तेनार्थेन लोकप्रसिद्धेन वा त्वदभिप्रायेण न शक्यते सम्बन्धः कर्तुमिति पक्षः, तेन सहात्यन्तमदृष्टत्वात, श्रावणत्वनित्यानित्यत्ववदिति गतार्थ साधनम्।।
न च सम्बन्धद्वारं मुक्त्वा शब्दस्य लिङ्गस्य वा स्वार्थख्यापनशक्तिरस्तीति त्वयैवोक्तोऽयं न्याय इति 15 दर्शयति
___ स च सम्बन्धो नास्ति, उक्तवत् , अत एव यदुक्तं त्वया भेदाभिधानपक्षे दोषजातं व्यक्तत्वात् तन्नास्त्येव, असाधारणधर्मत्वात् , बाह्यसाधारणः पक्षधर्मा....... दाहृतेरिति, अन्वयप्रश्नोदाहरणत्वादित्यर्थः । व्याचष्टे-एतदुक्तं भवतीति । एवं सति डित्यादि प्रतिपत्तिरेव न स्यादित्युत्तरयति
तत्प्रतिपत्तीति। विधिरूपतया डिस्थ प्रतिपत्तेर्निर्मूलत्वादित्यर्थः, कथमित्यत्राह-न भवतीति । अनवगतेति, डित्थशब्दार्थस्या20 डित्थो न भवतीत्यर्थकत्वेऽसत्या डित्थावगतावडित्थज्ञानाभावतोऽडित्थो न भवतीति स्वार्थो न ज्ञायते स्वपर्युदासप्रतिपत्त्यभावादिति भावः । दृष्टान्तं दर्शयति-अविदित इति । एवं प्रतिपत्तनिर्मूलत्वादेव शब्दस्यार्थाभावात् सम्बन्धाशक्यत्वदोषोऽत्राप्यस्तीत्याहएवञ्च शब्दस्येति । पूर्वोक्तं स्मारयति-यथा पूर्वमिति। अभिधानाभिधेयसम्बन्धस्यानुमानानुमेयसम्बन्धस्वरूपत्वमभ्युपगतम् , स च सम्बन्धोऽविनाभावरूपः, शब्दस्यार्थेन सहाविनाभावसम्बन्धेन भवितव्यम् , यदा च स्वार्थोऽन्यापोहो वाऽर्थस्याभावेनालब्धात्मकमर्थद्वयं तदा केन सह शब्दस्याविनाभावसम्बन्धः स्यात् सम्बन्धस्य द्विष्ठत्वादतः श्रुतेः सम्बन्धदौष्कर्यमेवेति तृतीय25 पादार्थः । श्रुतेः सम्बन्धदौष्कर्यमेव मानेन साधयति-यः स वृक्षशब्द इति, योऽसौ वृक्षशब्दो यश्च तदर्थो वृक्षः तदितरो
वा न तदर्थेन तस्य शब्दस्य सम्बन्धः कर्तुं शक्यते इति प्रतिज्ञा, तेन सहात्यन्तमदृष्टत्वात् श्रावणत्वनित्यानित्यत्ववदिति साधनम् । तत्र तदितरपदविवक्षितमाह-अवृक्षेति, शब्दान्तराथोपोहं खाथै कुवेती श्रुतिराित हि न्यायः, तत्र वृक्षशब्दाच्छब्दान्तरमवृक्ष शब्दस्तदर्थश्चावृक्षः, तयोः सम्बन्धप्रतिपत्तिव्यतिरेकेण न तदपोहरूपवृक्षशब्दार्थयोः प्रतिपत्तिः स्यात् , तस्मात्तदितरोऽपि विवक्षित एवेति भावः । तेन सहेति, तदर्थेन तच्छब्दस्यात्यन्तमदर्शनादित्यर्थः । दृष्टान्तमाह-श्रावणत्वेति, श्रावणत्वं शब्दस्यैव 30 धर्मत्वादसाधारणम् , तत्र न ज्ञायते नित्यस्य सतः शब्दस्य धर्मः श्रावणत्वमुतानित्यस्येति, न वा दृष्टं वचिदपि नित्यत्वेनानित्यत्वेन
वा सह श्रावणत्वं येनाविनाभावलक्षणसम्बन्धस्तयोः स्यादिति भावः । न वाऽभिधानाभिधेयसम्बन्धमनुमानानुमेयसम्बन्धं वा
wwww
सि.क्ष. छा. डे. प्रायोन्यशक्यते ।
_Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org