________________
श्रुतिसम्बन्धदौष्कर्यम्] द्वादशारनयचक्रम् सर्वात्मनाऽप्रतीतेः गुणसमुदायो हि डिस्थाख्योऽर्थः, न च सर्वे काणकुण्टादयो डित्थशब्दाद्गम्यन्ते एवमन्वयद्वारेणानुमानासम्भव इत्यनेनोत्तरवचनेन त्वदीयेन स्वार्थाशेऽप्यदर्शनमेवेत्युक्तं भवति, तत एव चानुमानासम्भव इत्युच्यतेऽस्माभिः क्वचिददर्शनात् । _अथ वेत्यादि, पाठान्तरे पूर्वार्धं तदेव, तस्य व्याख्या-त्वन्मतवदेवादर्शनादन्यशब्दार्थ इति प्रथमपादार्थः त्वद्व्याख्यात एव, स्वार्थस्वांशेऽप्यदर्शनात्त्वन्मतवदेवेति द्वितीयपादार्थः, तं भावयति-यथोक्त- 5 मित्यादिटीकाग्रन्थ एव, वृक्षशब्दस्य वृक्षेत्यादि यावदर्शने नास्ति सम्भवो नापि सर्वत्र लिङ्गिनीत्यादि, शब्दस्यानुमानत्वात् सर्वत्रानुमेये दर्शनासम्भवोऽयोगुडाङ्गाराग्न्याद्यनुमेयधूमादिलिङ्गादर्शनवदिति, अत्र परो ब्रूयात्-ननु डित्थादिस्वाभिधेये सर्वत्र दर्शनमित्यत्र त्वयोत्तरं यदुक्तं यद्यपि कचिदित्यादि स एव टीकाग्रन्थो यावदनुमानासम्भव इति, वयं त्वन्मतादेव ब्रूमः-अनेनोत्तरवचनेन त्वदीयेन यदपि तदेकदेशे [दर्श] नमिष्टं स्वार्थांशे तदप्यदर्शनमेवेत्युक्तं भवति, काणकुण्टादयः सर्वे गुणास्तस्य गुणसमुदायात्मकस्य न गम्यन्त इति 10 वचनात् , सर्वात्मस्वदर्शना [त्] शब्दस्य सर्वात्मनाऽप्रतीतेरुदाहरणेऽभिहितत्वात् [अ] दर्शनं स्वार्थांशेऽपि समर्थितम् , तत एव चानुमानासम्भव इत्युच्यतेऽस्माभिः क्वचिददर्शनादिति ।
अत्र ब्रूयास्त्वम्
अन्वयानुयुत्तयुदाहृतेः व्यावृत्त्या डित्थोदाहरणमेतदिति चेन्न, तत्प्रतिपत्तिनिर्मूलत्वात्, अनवगतपर्युदासकस्वार्थत्वात् , अविदिते देवदत्ते न भवत्यदेवदत्त इति वचनवत् , 15 एवञ्च शब्दस्यार्थाभावेन सम्बन्धाशक्यत्वदोषो य उक्तः स इहापीति श्रुतेः सम्बन्ध
अदृष्टेरन्यशब्दार्थे इत्यस्याः प्रकारान्तरेण व्याख्यामाह-अथ वेति । व्याकरोति-पूर्वार्धमिति, अदृष्टेरन्यशब्दार्थे स्वार्थस्यांशेऽपि दर्शनादिति पूर्वार्धं तद्वदेवेत्यर्थः । तत्र प्रथमपादार्थः शब्दः शब्दान्तरार्थे न दृश्यत इति । द्वितीयं पादार्थ वक्तुमाह-स्वार्थस्वांशेऽपीति । धूमस्यैकदेशदर्शनेन वढेरवलेरदर्शनादवह्निव्युदासेन प्रतीतिः तथैव शब्दादर्थान्तरापोहेन स्वार्थाभिधानम् , किन्तु अर्थाभिधानेऽन्वयव्यतिरेको शब्दस्य द्वारम् , तौ च तुल्ये वृत्तिरतुल्येऽवृत्तिरित्येवं रूपो, तत्र तुल्ये सर्वत्र नावश्यं वृत्तिराख्येया, 10 क्वचिदानन्त्येऽर्थस्याख्यानासम्भवात् , वृक्षशब्दस्य वृक्षेषु सर्वेषु न हि दर्शनेनास्ति सम्भवः, नापि सर्वत्र लिङ्गिनि सर्वलिङ्गस्य .. सम्भवः, यथाऽयोगुडाङ्गारान्याद्यनुमेये धूमादिलिङ्गादर्शनमित्यादितदीयटीकाग्रन्थमेवोपन्यस्यति-यथोक्तमित्यादीति । लिङ्गिलिङ्गोपन्यासे कारणमाह-शब्दस्यानुमानत्वादिति, वाच्यवाचकसम्बन्धस्यानुमानानुमेयसम्बन्धत्वोक्तेः शब्दस्यानुमानत्वमिति भावः । एवमन्वयासम्भवप्रस्तावे परः तत्सम्भवमाशङ्कते-अत्र पर इति, इयमाशङ्कापि टीकाग्रन्थ एवं कृता- यद्यपि च क्वचिदस्ति सम्भवो डित्थादिषु, इयं शङ्का डिस्थस्यैकव्यक्त्यभिप्रायेण, अवयवसमुदायव्यतिरिक्तावयव्यभावेन काणकुण्टादिनिखिलावयवाख्यानासम्भवात् अन्वयासम्भव एवेत्युत्तरयति तत्रैव-तथापि न तद्वारेणानुमानम्, गुणसमुदायो हि डित्थाख्योऽर्थः न च सर्वे काणकुण्टादयो डित्थशब्दाद्गम्यन्ते, एवमन्वयद्वारेणानुमानासम्भव इति । आचार्योऽत्रोत्तरमाह-वयं त्वन्मतादेवेति, धूमस्यैकदेशदर्शनेनेति यदेकदेशदर्शनमिष्टं तदप्यदर्शनमेव, डित्थादेर्यथाऽदर्शनमुक्तं तथा तदवयवस्यैकस्याप्यदर्शनमेव - स्यात् , तस्यापि गुणसमदायात्मकत्वाविशेषात् . तथा च गुणसमुदायो हि डित्थाख्योऽर्थः, न च सर्वे काणकुण्टादयो डित्थशब्दाद्गम्यन्त इति वचनेन स्वार्थस्यांशेऽप्यदर्शनं त्वयैव समर्थितं भवत्यत एव चानुमानासम्भव इति भावः । सर्वात्मस्विति, काणकुण्टादिषु ३० डित्थादिषु च शब्दस्यादर्शनात् सर्वात्मना न प्रतीतिः कस्यापीत्यर्थः । ननु यद्यपि च क्वचिदस्ति सम्भवो डित्थादिष्विति यदुक्तं डित्याधुदाहरणं तदन्वयाभावेऽपि शब्दादडित्यो न भवतीति व्यावृत्त्या डित्थार्थगतिमभ्युपेयोक्तमिति शङ्कते-अन्वयानुयुत्युः ।
-
१ सि. अ. का. स्यवांशे०।२सि.क्ष. छा. सम्भवेऽप्ययोः ।
द्वा. न. ३५ (११२)
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org