________________
न्यायागमानुसारिणीव्याख्यासमेतम् [उभयनियमारे . (चतुर्थेति) चतुर्थपादेन यत्त्वयोक्तं न चास्ति व्यभिचारिता इति सा तावदास्तां स्वपक्षगतापोहवादिनः तवाव्यभिचारिता, विप्रकृष्टत्वात् , भेदपक्षे संशयदोषापादनार्थं यत्तुक्तं त्वया व्यभिचारत इति,-सच्छब्दो हि यथा द्रव्ये वर्त्तते तथा घटा दिष्वपीति व्यभिचारात् संशयः स्यात् , नाभिधाने इत्यत्र
ब्रूमः, तन्न विधिवादे सचासश्च विधेयव्यावत्यौ भावौ, तयोः- तस्यातस्य च भावस्य सम्भवो यस्यात्मा 5 तद्भवति तदतदात्मकं संशयज्ञानं तस्य संशयज्ञानस्य प्राप्तत्वात् किमिव न प्राप्तमभिधानम् ? निश्चये विपर्ययो वाऽनध्यवसायो वा सर्व प्राप्तमित्यर्थः, तत्सर्वं विधिवाद एव घटते, अत्र तूक्तन्यायेन-अन्यापोडार्थ-, नैर्मूल्यात स्वार्थांशस्याप्यदर्शनात् त्वत्पक्षे संशया [य] नास्पदम् , आदिग्रहणात् विपर्ययानध्यवसायनिर्णया अप्यनास्पदाः, निर्विषया इत्यर्थः, कस्मात् ? तदतद्भावभावात्मकशब्दार्थत्वात्-स चासश्च भवन् भावो भवतीत्युक्तमस्माभिः, तस्य भावः आत्मा यस्य शब्दार्थस्य त्वदभिमतस्य, तस्य भावात्-तदर्तद्भाव10 भावात्मकशब्दार्थत्वात् , तद्व्यक्तेरस्वार्थत्वात् न भवति न भवतीत्युभयतोऽयभावविषयत्वात्-तव्यक्तेरन्वय
व्यतिरेकविषयत्वासत्त्वादिति संशयविपर्ययावपि निर्विषयौ, विध्यर्थाभावात् , अनध्यवसायोऽपि स्वार्थभावात्मकस्याध्यवसायस्य पर्युदासेऽनध्यवसायोऽध्यवसायादन्य इति भवति, उभयतोऽप्यभावे कुतोऽनध्यवसाय: ? निर्विषयत्वात् खपुष्पवदिति ।।
अथवा त्वन्मतवदेवादर्शनादन्यशब्दार्थः स्वार्थस्य वांशेऽप्यदर्शनादिति, यथोक्तं वृक्ष15 शब्दस्य वृक्षेषु सर्वेषु नहि दर्शनेनास्ति सम्भवः, नापि सर्वत्र लिङ्गिनि सर्वलिङ्गस्य सम्भवोऽग्नि
धूमादिवत्, यद्यपि च क्वचिदस्ति डित्थादिषु सम्भवः तथापि न तद्द्वारेणानुमानम्। ष्टत्वात्, सम्प्रति तु संशयादिदोषापादनं त्वदीयं विचार्यमित्याशयेनाह-सा तावदास्तामिति, अपोहार्थाभावाद्वाच्यवाचकसम्बन्धाभावेन स्वार्थगन्धस्याप्यदर्शनात् संशयकारणस्यैवाभावे कुतो व्यभिचाराव्यभिचारविचार इति विप्रकृष्टत्वं बोध्यम् ।
भेदाभिधानपक्षे सच्छब्दस्य द्रव्य इव घटपटादिष्वपि दर्शनादेकाभिधानेऽपरत्र व्यभिचारात् किमिदमभिधेयमिदं वेति संशयः 20 स्यात् , तस्मादभिधेयानां बहुत्वेन शब्दान्न सर्वथा गतिभवति, अपोहस्य शब्दार्थत्वे तु न संशयः, अर्थान्तरव्युदासेनार्थान्तराभि
धानादित्याशङ्कते-भेदपक्ष इति । विधिपक्ष एव संशयादीनां सम्भवो नापोहपक्ष इत्याशयेनोत्तरयति-तन्न विधिवाद इति । संशयो हि विधेयव्यावर्त्यभावविषयं विज्ञानं, विधिव्यावृत्त्योश्च भावात्मकत्वादभिधानपक्षेऽपि संशयादि भवत्येव, न त्वैतदपोह. शब्दार्थतायां घटत इत्यभिधातुं संशयज्ञानं दर्शयति-सचासश्चेति । निश्चयादिरपि विधिवाद एव घटते, नान्यत्रेत्याहनिश्चय इति । अपोहवादे न घटत इति दर्शयति-अत्र त्विति । न्यायं दर्शयति अन्यापोहार्थेति । हेतुमाह-तदतद्भा25 बेति, त्वदभिमतः शब्दार्थस्तदतद्भावभावात्मकः, अस्माभिरर्थस्यासत्त्वाविनाभाविन एव सत्त्वमुक्तं, स एव त्वदभिमतः शब्दार्थः, तत्र तव्यक्तिरूपो योऽर्थः स न शब्दस्य स्वार्थः, अनिदेश्यत्वाभ्युपगमात् , घटादन्यः पट इत्युक्ते पटः स न भवति एवं पटादन्यो घट इत्युक्ते घटोऽपि स न भवतीत्यपोह्यापोहवतोरुभयोरपि व्यावृत्तिमात्रस्थितित्वाच्छब्दार्थस्याभावविषयत्वापत्तिः, तद्वक्तेश्चान्वयविषयत्वव्यतिरेकविषयत्वयोरभावात् संशयविपर्ययौ न सम्भवतः विधिरूपार्थाभावादिति भावः । अनध्यवसायोऽपि निर्विषय इत्याह
अनध्यवसायोऽपीति, स्वार्थ भावं विषयीकुर्वतोऽध्यवसायाद्भिन्नमध्यवसायसदृशञ्च यज्ज्ञानं सोऽनध्यवसाय उच्यते, यदा 30 तूभयतोऽप्यभाव एव, खार्थगन्धोऽपि नास्ति तदा निर्विषयत्वात् कुतोऽध्यवसायोऽनध्यवसायो वा स्यादिति भावः । कारिकाया
mmmmmmmmm
सि. क्ष. तत्र। २ सि.क्ष. 'नत्वात् । ३ सि. क्ष. छा. तद्भावाभावा०। ४ सि. क्ष. छा. तद्भावात्मकत् वा भावात्मक श० । डा. xx। ५: ६ सि.क्ष. तद्व्यक्तिर । ७ सि. क्ष. °दासेनाध्य ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org