________________
संशयादिविचारः ]
द्वादशारनयचक्रम्
तस्मादेव पटाद्वानर्थान्तरत्ववदनर्थान्तरत्वम्, नन्वेवं तदप्यर्थान्तरं अर्थान्तरादर्थान्तरमेव भवदनर्थान्तरं भवति, तस्यार्थान्तरस्य स्वात्मनि व्यवस्थितस्य तदनर्थान्तरत्वं तत्रमपोहमानोऽर्थान्तरापोहस्तदपोह एव भवति नान्यापोह इति स्ववचनाद्यशेषपक्षविरोधापत्तिः, अथार्थान्तरापोह इत्यनर्थान्तरापोहो न भवतीत्यपि न परिहार एव, अर्थान्तरापोह इत्यनर्थान्तराभावापो न भवति यत इत्यादिः स एव ग्रन्थोऽत्र द्रष्टव्यः, एवमुपक्रमेऽपि च न 5 सकश्चिदर्थो भविता, उभयतोऽप्यभावप्रसङ्गात्, स्वार्थस्यांशोऽपि न दृश्यत एव, अनर्थान्तरं न भवतीत्युच्यमाने उभयतोऽपि न भवति न भवतीत्यनर्थान्तरस्याव्यावृत्तिरेव न कश्चित् विधिगन्धोऽपीत्यन्यथावृत्तेरभवन परमार्थत्वादभूतस्वानर्थान्तरत्वाद्वन्ध्यापुत्रवदविषय एव स निबन्धनमर्थान्तरापोहस्य स्यादिति ।
( अथेति ) अथार्थान्तरं न भवतीति मन्यसे ततोऽनवस्था प्रश्नस्य, पूर्वव्याख्यातान्यशब्दा- 10 प्रश्नानवस्थानवत् अर्थान्तरस्य वोभयविषयत्वादित्यादिशेषमन्यत्वस्य चोभयविषयत्वादित्यादिना तुल्यं यावत् स च निबन्धनमन्यापोहस्य स्यादिति, [ अथोच्यत इत्यादि ] यावन्न भवतीति पूर्ववदेव पूर्वपक्ष:, उत्तरपक्षोऽपि यद्यनर्थान्तरमित्यादि तथैव यावदतुल्ये तस्मिन्नवृत्तेरिति, योऽसौ तदतत्त्वातुल्य इत्यादि पूर्ववदेव पूर्वपक्ष:, यावत्तस्मादेव पटात् घटानर्थान्तरवदनर्थान्तरत्वमिति, तत्रोत्तरपक्षो नन्वेवं तदप्यर्थान्तरमित्यादि यावदशेषपक्षविरोध | पत्तिरिति इयदक्षरविपर्यासेन गतार्थः, अपरस्तु तुल्याक्षर एवेति अत्रार्थान्तरापोह इत्यनर्थान्तरापोहो न भवतीति पूर्ववत् परेण परिहारेऽभिहिते इत्यपि न परिहार एव, अन्यापोह इत्यनन्याभावापोहो न भवतीति यत इत्यादिः स एव ग्रन्थोऽत्रापि तुल्यार्थ इति न विशिष्य लिख्यते तथात्र द्रष्टव्य इत्यतिदिश्यते, एवमुपक्रमे न स इत्यादि स एव ग्रन्थः तुल्यार्थो यावदन्यापोहस्य स्यादिति, विशेषस्त्वर्थान्तरस्वार्थस्यांशेऽपि दर्शनात् श्रुतेः सम्बन्धसौकर्यमित्येतत्पादत्रयं दूषितम् ।
चतुर्थपादेन यत्त्वयोक्तं न चास्ति व्यभिचारितेति सा तावदास्तां स्वपक्षगता पोहवादिन: 20 तवाव्यभिचारिता विप्रकृष्टत्वात्, भेदपक्षे संशयदोषापादनार्थं यत्तूक्तं त्वया व्यभिचारत इति, तन्न विधिवादे ततद्भावात्मकस्य संशयज्ञानस्य प्राप्तत्वात् किमिव न प्राप्तमभिधानम् ? अत्र तूक्तन्यायेन त्वत्पक्षे संशयाद्यनास्पदम्, तदतद्भावभावात्मकशब्दार्थत्वात् तद्व्यक्तेरस्वार्थत्वात् न भवति न भवतीत्युभयतोऽप्यभावविषयत्वात् ।
Jain Education International 2010_04
८८५
पुनस्तत्रार्थान्तरे पर्यनुयोगस्य जागरूकता, तत्रापि पुनरित्यनवस्था प्रश्नस्येत्याह- अथार्थान्तरं न भवतीति । अर्थोऽन्योऽर्थश्च 25 परस्परापेक्षयाऽर्थान्तरं भवतः, अतोऽर्थान्तरत्वमुभय विषयम्, तयोरुभययोर्विधिरूपेणाग्रहणे किन्तदर्थान्तरं ? यदपोहादर्थातरापोहः स्यात्, कस्माद्वाऽर्थान्तरं न भवतीत्युच्यते ? यतोऽस्यार्थान्तरत्वं सिद्ध्येत्, अर्थस्यार्थान्तरस्य चाभवनरूपत्वेना व्यावृत्त्या विधिगन्धस्याप्यभावेनान्यथावृत्तेरभवनमेव परमार्थः स्यात्, ततश्चात्मार्थान्तरत्वाभावादभूत स्वार्थान्तरत्वादविषय एव वन्ध्यापुत्रवत् न ह्यभावः शब्दार्थो भवितुमर्हति ततश्चाप्रतिपत्तिरेव स्यात्, अथार्थान्तरमप्यनर्थान्तरं न भवतीत्युच्यते ततोऽर्थान्तरस्यैवानर्थान्तरशब्देनाप्यनुवदनात् किं तदन्यदर्थान्तरम् ? इत्येवं प्रागुक्तान्यपक्षविचारोऽत्रावतार्यः क्वचिदक्षरविपर्यासेन, क्वचिच्च तुल्याक्षरत्वे- 30 नैवेति भावनीयमित्याह-अर्थान्तरस्य वेति, स्पष्टं सर्व मूलेनैव । अथ चतुर्थं पादं न चास्ति व्यभिचारितेति दूषयितुमाह-चतुर्थपादेनेति । न चास्ति व्यभिचारितेत्यनेन यदव्यभिचारित्वमपोहवादिना त्वयोक्तं तत्तावदास्ताम्, तद्विचारस्य विप्रकृ १ सि. क्ष. डे, तावद्यच्चेति । २ सि. क्ष. डे. छा. अपरिकारस्तु ।
For Private & Personal Use Only
15
www.jainelibrary.org