________________
न्यायागमानुसारिणीव्याख्यासमेतम् [उभयनियमारे वादे प्रतिपन्ने किमपोहेन पुनः क्रियते ? सर्वार्थविषयस्य स एवेति विधिप्रतिपत्तेः प्रागेव वृत्तत्वात् , त्वमेव हि बहुतरार्थविषयशब्दविधिवादी संवृत्तोऽनन्तार्थशब्दवादी चेत्यतः किमपोहकल्पनया क्रियते ?
तदा ह्यर्थापत्त्या अनुगतसामान्यज्ञानं व्यावृत्तिसामान्यज्ञानश्च भवति यदि स्वार्थः अर्थान्तराणि चैतदुभयं स्वत एव सिद्धात्मस्वभावं विधिनैव भवतु, को वारयति ? । असत्योपाधिसत्यशब्दार्थत्वात् पूर्ववत् ।
तदा ह्यर्थापत्त्येत्यादि, स्वार्थश्च विवक्षितोऽर्थः ये चान्येऽर्था अर्थान्तराणि तदेतदुभयं स्वत एव सिद्धात्मस्वभावं विधिनैव, यत्पुनरत्र सन् घट इत्युक्ते सदित्यनुगमसामान्यज्ञानं असन्नघटश्च न भवतीति
व्यावृत्तिसामान्यज्ञानञ्च तदुभयमर्थापत्त्या यदि भवति भवतु गुडमाधुर्यवदुपसर्जनीकृतात्मस्वरूपं को वार... यति ? असत्योपाधिसत्यशब्दार्थत्वात् पूर्ववत् , एवं तावद्भवदर्थान्तरञ्चेद्भवति तत उक्तो दोषः । 10 अथार्थान्तरं न भवतीति मन्यसे ततोऽनवस्था प्रश्नस्य, पूर्वव्याख्यातान्यशब्दार्थप्रश्ना
नवस्थानवत् , अर्थान्तरस्य वोभयविषयत्वात्तदग्रहणे किं तदर्थान्तरम् ? कुतो वाऽर्थान्तरं न भवतीत्युच्यते ? इति द्विष्ठत्वादर्थान्तरत्वं निर्धार्यम् , एवन्तु न स कश्चिदर्थो भविता, उभयतोऽप्यभावप्रसङ्गात् स्वार्थस्यांशोऽपि न दृश्यत एव, अर्थान्तरं न भवतीत्युच्यमाने उभय
तोऽपि न भवति न भवतीत्यर्थान्तरस्याव्यावृत्तिरेव न कश्चिद्विधिगन्धोऽपीति अन्यथा वृत्तेर18 भवनपरमार्थत्वादात्मार्थान्तरत्वाभावः, ततश्चाभूतस्वार्थान्तरत्वाद्वन्ध्यापुत्रवदविषय एव, स
च निबन्धनमर्थान्तरापोहस्य स्यात् , अथोच्यतेऽर्थान्तरमनन्तरं न भवतीति, अत्रोच्यते यद्यनर्थान्तरं न भवति ततोऽर्थान्तरस्यैवानुवदनात् , किमुक्तं भवति यदर्थान्तरं तदर्थान्तरमेव सदनान्तरमुच्यते तदेव स्वयमेव भवति ततो यदिदमनर्थान्तरं नाम तदर्थान्तरमेव सदनर्थान्तरमित्युक्तं भवति, तस्मात्तस्यैवानर्थान्तरशब्देनाप्यनुवदनात् किं तदर्थान्तरं पृथक् ? 20 यद्यर्थान्तरं स्यादर्थान्तरार्थान्तरत्वतदनन्तरत्वातुल्यः शब्दार्थः स्यात् , यथा वैधम्र्येण घट इत्युक्तेऽघटो नार्थान्तरतदनर्थान्तरातुल्यो दृश्यते न तथेह कश्चिदनन्तरशब्देनाभिन्नमनर्थान्तरमस्ति यतोऽस्यार्थान्तरस्य पटवदवृत्तिः स्यात् , अर्थान्तरशब्दार्थस्य चानान्तरशब्दार्थाद्भिन्नत्वेऽर्थान्तरमित्युक्तेऽनन्तरं न भवतीत्यपोहार्थो विधिभिन्नः स्यात् , अतुल्ये तस्मिन्न
वृत्तेः, घटपटवत् , स्यादेतदेवं यद्यर्थान्तरमेवार्थान्तरत्वे स्थितमनर्थान्तरमुच्येत परापेक्षार्थान्त23 रत्वात्तदेवार्थान्तरमिति, किन्तर्हि ? स्वापेक्षार्थान्तरत्वादेव, योऽसौ तदतत्त्वातुल्यः तस्य स्वतः
मन्यापोहस्य चेत्तर्हि तस्य प्रतीतिरर्थापत्त्या स्यादित्याह-तदा हीति । स्वार्थव्यावर्त्ययोः घटपटयोः विधिना खरूपतः प्रतिपत्तौ सत्यां घटो विवक्षितोऽर्थः, पटश्च ततोऽर्थान्तरं तस्माच्च व्यावृत्तो घट इति अर्थान्तरतायास्तव्यावृत्तेश्च ज्ञानं पश्चादर्थाद्भवति न तु वस्तुप्रतिपत्तिकाल एव, तथा यदि खीक्रियते भवतु नाम, नास्माकं तत्राग्रहः, अस्मन्मते असत्योपाधिसत्यशब्दार्थतायाः सिद्ध
त्वादित्याशयेन व्याकरोति-स्वार्थश्चेति । सद्धटयोः स्वरूपतः सिद्धखभावः, तत्र सत्तासामान्यज्ञानमन्यव्यावृत्तिज्ञानञ्च 30 परत इत्याचष्टे यदि ततो नास्माकं विरोध इत्याह-सन् घट इत्युक्त इति। द्वितीय विकल्पमपहस्तयितुमाह-अथार्थान्तरमिति।
अर्थान्तरमर्थान्तरं न भवतीत्यत्र निषेधप्रतियोगि यदर्थान्तरं तदपि किं भवत् किं वाऽभवदिति प्रश्ने आधे विधिवादप्रसङ्गः, द्वितीये
_Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org