________________
अपोहनैर्मूल्यम्] द्वादशारनयचक्रम्
८८३ सर्वथाऽन्यापोहनैर्मूल्यमित्ययमपि न निःसरणोपायः, स्थितमेतदनन्याभावस्यापोहो न भवतीति यतोऽर्थान्तराघोहेन स्वार्थाभिधानेन स्यात् ।। ___एवं प्रक्रमेऽपि च न स कश्चिदर्थो भविता, उभयतोऽप्यभावप्रसङ्गात् , स्वार्थस्यांशोऽपि न दृश्यत एव, अनन्यो न भवतीत्युच्यमाने उभयतोऽपि न भवति न भवतीत्यनन्यस्याव्यावृत्तिरेव, न कश्चिद्विधिगन्धोऽपीत्यन्यथावृत्तेरभवनपरमार्थत्वादभूतस्वानन्यत्वाद्वन्ध्यापुत्रव-5 दविषय एव, स च निबन्धनमन्यापोहस्य स्यात् , येषामपि चार्थान्तराणां मध्ये यत्तदर्थान्तरं तत् किं भवदेव भवति ? अभवद्वा ? यदि तावत् स एव भवन्नर्थोऽर्थान्तरत्वेन स्थितः तदा तच्छन्दोत्पाद्यविज्ञानविषयस्य सिद्धत्वात् तस्मिन्नव्यावृत्त्या विधिवृत्त्यैकगतिगुरुतरप्रतिपत्त्यात्मके बहुतरविषये विधिवादे प्रतिपन्ने किमपोहेन पुनः क्रियते ?
एवं प्रक्रमेऽपि चेत्यादि,-एवमापादितशब्दार्थन्यायेऽपि च न स कश्चिदित्यादिनाऽपोहनैर्मूल्य- 10 मापादयन् उपसंहरति पूर्वान्यविकल्पदूषण]वत् विपर्ययेणानन्यविकल्पदूषणं यावदभूतस्वानन्यत्वाद्वन्ध्यापुत्रवदविषय एव, स च निबन्धनमन्यापोहस्य स्यादिति गतार्थम् , येषामपि चार्थान्तराणामित्यादि, यदप्युक्तम
र्थान्तरापोहेन स्वार्थाभिधान इत्यत्रार्थान्तराणि-अर्थभ्योऽन्यानि, तेषामर्थान्तराणां मध्ये यत्तदर्थान्तरं सोऽर्थादन्योऽर्थः तत् किमिति पूर्ववद्विकल्पद्वयम् , भवदेव अर्थान्तरमपोह्यं ? उत वा भवदिति प्रश्नः, यदि तावदित्यादि प्रथमविकल्पे दूषणम्-स एव भवन्नर्थोऽर्थान्तरत्वे[न] स्थितः स भवतीति चेदिष्टः तच्छब्दोत्पा- 15 द्यविज्ञानविषयः तस्य विषयस्य सिद्धत्वात् तस्मिन्नव्यावृत्त्या सिद्धेः, सा च प्रतिपत्तिरस्मदिष्टाया विधिवृत्त्यैकगतेर्लघीयस्या एकार्थविषयाया गरीयसी तेषामर्थानां भूयसां प्रतिपत्तिः स च विधिवाद एव भूयोऽर्थविषयो गरीयःप्रतिपत्त्यात्मकश्च तस्मिंश्च विधिवत्यैकगतिगुरुतरप्रतिपत्त्यात्मके बहुतरविषये विधि. स्थितमेतदिति, निश्चितमेतदित्यर्थः। भवतु सोऽर्थः को दोष इत्यत्राह-एवं प्रक्रमेऽपि चेति । व्याकरोति-एवमापादितेति, अन्योऽनन्यो न भवतीत्युच्यते तथापि अन्यापोहशब्दार्थो व्याप्नोतीत्यापादितपक्षेऽपि न कोऽप्यर्थो विधिरूपः सेत्स्यति, अन्योऽनन्यो 20 न भवतीति सोऽप्यन्यो न भवतीत्युभयतोऽप्यभावप्रसङ्गात् विधिरूपस्यार्थस्य गन्धोऽपि न गम्यते, तस्मादभवनमेव परमार्थः स्यात्, अन्यथावृत्तेः, अत एव च नास्ति स्वमनन्यमपि, अतोऽभूतखानन्यत्वाद्वन्ध्यापुत्रवच्छब्दस्याविषयत्वात्तस्यान्यापोहनिबन्धनत्वेऽप्रतिपत्तिरेव स्यात् , शब्दार्थस्यान्यापोहस्याभावनिबन्धनत्वात्, वन्ध्यापुत्राप्रतिपत्तिवदित्यन्यापोहनैर्मूल्यमिति भावः । शब्दस्यार्थान्तरापोहेन खार्थाभिधायकत्वं पूर्वपक्षिणा यदुक्तं तत्रापोह्यं यदर्थान्तरं अन्यार्थरूपं तत् किं भवदेवार्थान्तरमपोह्यमुच्यते उताभवदेवार्थान्तरमपोह्यमिति पूर्ववदेव विकल्पः कर्तव्य इत्याह-येषामपि चेति। अर्थान्तरागां मध्ये विवक्षितस्यार्थान्तर-25 स्यापोह्यस्य भवत एवापोहो यदि विवक्ष्यते तत्र दोषमाह-यदि तावदित्यादीति, यदि स एवार्थो भवदर्थान्तरमुच्यते तर्हि . स एवार्थान्तराणीति तत्र स इति तच्छब्देनोत्पद्यमानं विज्ञानं विध्यात्मकैकार्थविषयम् , तस्यैव चार्थान्तरत्वे तद्विज्ञान विध्यात्मकबहुतरविषयम् , अव्यावृत्तविषयञ्च अर्थान्तरव्यावृत्तिविज्ञानप्राकालभाविविज्ञानविषयत्वात् , तस्माद्विधिनवाव्यावृत्त्या स इति विज्ञानविषयस्य प्रतिपत्त्याऽर्थान्तरापोहकल्पना निष्फलेति भावः । एतदेवाह-तच्छब्दोत्पाद्येति, स एवार्थान्तराणीत्यत्र तच्छब्देनोत्पाद्यं यद्विज्ञानं तद्विषयो व्यावृत्तिव्यतिरेकेणैव सिद्ध इति भावः । सा चेति, स एवार्थान्तराणीति प्रतिपत्तिगुर्वी 30 बहुतरार्थान्तरविषयत्वात् , कस्माद्र्वी ? अस्मदिष्टविधिवृत्त्येकविषयायाः स इति प्रतिपत्तेरिति भावः । अर्थान्तराणाञ्च तद्रूपत्वे विध्यात्मकत्वापत्त्याऽपोहकल्पना निष्फलेल्याह स च विधिवाद एवेति । तत्र कारणमाह-सर्वार्थति । तथापि प्रयोजन
Mammamiwwww
१ सि.क्ष. छा. डे. तत्र नाम ।
___Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org