________________
mwomammam
९८२
न्यायागमानुसारिणीव्याख्यासमेतम् [उभयनियमारे कोऽनन्यः ? कोऽपोहः ? कोऽनपोहः ? इति विचारणायामनन्याभाव एव, उक्तवदनवधारणात् विधिवादापत्तेः सर्वथाऽन्यापोहनैर्मूल्यमिति स्थितमेतत् , अनन्याभावस्यापोहो न भवतीति ।
___ यथाऽपोह इत्यनपोहो न भवतीति, तथाऽन्यविशेषणापोहप्रदर्शनार्थमित्यादिदार्टान्तिकम् , किमुक्तं भवति यथाऽपोह इत्युक्तेऽनपोहो न भवतीति पदार्थे द्विःप्रतिषेधः प्रकृत्यापादनात् अपोह एवार्थो 5 भवति तथान्यविशेषणविशिष्टस्यापोहस्य प्रदर्शनार्थमन्यापोह इत्युक्तेऽन्यस्याभावः-अनन्यः, सोऽर्थोऽस्येति
अन्याभावार्थोऽन्यशब्दः, तद्भावोऽन्याभावार्थान्यशब्दता, सत्याञ्च तस्यां-अन्याभावार्थान्यशब्दतायामन्यापोह इत्यनन्याभावस्यानन्यापोहस्य तद्व्यावृत्तेरपोहो भवतीत्यन्यायोहार्थः संवृत्तः, तस्य चेदनन्याभावस्यान्यस्यापोहो न भवति न तद्दनन्यस्यानपोहः न भवति, तत्प्रतिपक्षत्वादानन्यानपोहस्येति यथा विशेष्यविपक्षव्यावृत्तः तथेहैतस्मिन् अनन्यो भवतीत्यन्यशब्दार्थे त्वदीयेऽन्यापोह इत्यन्याभावस्यापोहो न भवति, [इति न भवति 10 किन्तु ] स्वस्य अनन्यस्याभावो-अन्यः-अनन्याभावः, तस्यापोहो न भवति इत्यन्यापोह एव न भवति, अनन्यापोहः स्वापोह एवेत्यनन्याभावार्थः, स चानिष्टस्ते शब्दानुसारेणापि दोषः प्राप्तः, स्यान्मतं-अन्यस्यैवापोहो नानन्यस्येत्यवधारणान्नैष दोष इति, तच्च न, तत्रापि कोऽन्यः ? कोऽनन्यः ? कोऽपोहः ? कोऽनपोह ? इति विचारणायामनन्याभाव एव, उक्तवदनवधारणात्-अन्यस्यैव नानन्यस्येति विधिवादापत्तेः अनन्यस्यापोह एव, नानपोह इति स्वस्यापोहानपोहाभ्यामनवधारणाभ्यां विधिप्रतिषेधादन्यानन्यविचारे च विधिप्रसङ्गात्
15 पक्षस्यानपोहस्य व्यावृत्तिः क्रियतेऽनपोहो न भवतीति तथाऽन्यापोहशब्देनापि अन्याभावस्वरूपानन्यस्यान्यशब्दार्थत्वे तत्प्रतिपक्षस्यानन्याभावस्य योऽपोहस्तझ्यावृत्तिः प्रतीयतेऽनन्याभावापोहापोहार्थः तस्य संवृत्त इति व्याचष्टे-तथाऽन्यविशेषणेति. अन्यस्वरूपं यद्विशेषणं तद्विशिष्टापोहशब्दार्थप्रदर्शनायेत्यर्थः । अनपोहो न भवतीत्यस्य तात्पर्यार्थोऽपोह एव भवतीति, नञ्द्वयेन प्रकृत्यर्थप्रकाशनादित्याह-अनपोह इति । अन्यापोह इत्यत्रान्यशब्दोऽनन्यपरः, अनन्यस्यान्यस्मादन्यत्वादिति दर्शयति
तथाऽन्येति । अन्यशब्दार्थ दर्शयति-अन्यस्याभाव इति, अन्यापोहशब्दार्थोऽनन्यापोह इति संवृत्तः, तत्रानन्य20 शब्देनानन्याभावापोहोऽर्थान्तरापोहं स्वार्थे कुर्वतीत्यादिवचनेन प्रतीयते, स न भवतीत्यपोहशब्दार्थः, अनन्यापोहव्यावृत्तिर्न
भवतीति भावः । एवञ्चान्यापोह इत्यत्रान्यशब्दस्यानन्याभावापोहार्थः, तत्र यद्यनन्याभावस्यापोहो न क्रियते तद्दनन्यस्यानपोह एव स्यात् , तथा चानन्यापोहाभावादन्यापोह एव न स्यात् , अनन्यापोहस्य हि प्रतिपक्षोऽनन्यानपोह एवास्ति, तस्माद्यथा तस्माद्विपक्षायावत्येते तथैव अनन्यो न भवतीति त्वदिष्टान्यशब्दार्थानन्यत्वपक्षेऽन्यापोहशब्दात् अन्याभावापोहो न भवतीतीष्टं न प्रतीयेत किन्तु स्वाभावस्यापोहो न भवतीत्येव प्रतीयेत, स्वाभावापोहस्यापोहोऽनन्यापोह एव, न त्वन्यापोह इत्याशयेनाह-तस्य चेदिति । 25 अनन्यो भवतीति, अन्यशब्दार्थोऽनन्यो भवतीति त्वदीये पक्षे इत्यर्थः, अत्र पक्षेऽन्यापोहशब्दार्थः अनन्याभावापोहो न
भवतीत्येव, न त्वन्याभावस्यापोहो न भवतीति, ईदृशोऽन्यापोहो न वस्तुतोऽन्यापोहः किन्त्वनन्यापोह एवेत्यनिष्टप्रसङ्ग इति भावः । यद्यप्यन्यशब्दार्थोऽन्योऽनन्योऽपि भवति तथापि अन्यापोहशब्देनान्यस्यैवापोहः क्रियते नानन्यस्येति नोक्तदोष इत्याशङ्कतेस्यान्मतमिति । निराकरोति-तच्च नेति, अस्मिन्नप्यवधारणेऽन्योऽर्थः किं स एव भवति विधिना, उतान्यो न भवतीत्यपोहेनेति चिन्तायामाये विधिवादस्य द्वितीयेऽन्यत्वस्योभयविषयत्वात्तयोविधिरूपेणाग्रहणे कोऽन्यः कोऽनन्यः कोऽपोहः कोऽनपोह इत्यन्य30 त्वानिर्धारणस्य च प्रसङ्गेन विधिवादापत्तेरन्यापोहनै मूल्याच्च तथावधारणासम्भव इति भावः । अपोहशब्दार्थविवक्षयाऽवधारणा
सम्भवमाह-अनन्यस्यापोह एवेति । एवञ्च भवन्मतेऽन्यापोहशब्दार्थोऽनन्याभावस्यापोहो न भवतीति स्थितमित्याह
१ सि. क्ष. डे. छा. °भावस्थानन्यस्या० । २ छा. एतस्मिन्ननभवतीत्यन्यस्याः । ३ छा. सारेणाविशेषः।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org