________________
स्वापोहतापादनम्]
द्वादशारनयचक्रम् सोऽपि योऽन्योऽन्यस्मात्-अन्यस्वरूपात् स्वत एव सिद्धान्यत्वात्-अन्याख्यादर्थात् अन्य एव भवन्-अन्यः सन् अनन्यो भवति स एव भवति, तस्यान्यस्य स्वात्मनि व्यवस्थितस्य तदनन्यत्वं तत्त्वं-आत्मत्वमपोहमानोऽन्यापोहः तदपोह एव भवति-स्वापोह एव, नान्यापोहस्त्वदिष्टः परापोह इत्यर्थः, इति-इत्थं स्ववचनविरोधोऽन्यापोह इति वचनात् , तथाभ्युपगमादभ्युपगमविरोधः, लोकविरोधश्चेत्थं लोकेऽदृष्टत्वात् स्वार्थप्रतीते:, तथा प्रत्यक्षदर्शनात् प्रत्यक्षविरोधः, अनुमानविरोधश्चैवमनुमानादित्यशेषाः पक्षदोषा आपन्नाः, विधिवादा-5 पत्तिश्चैवम् , इयेवं तावद्वस्तुनो लक्षणानुसारेण दूषणमुक्तम् , स्यान्मतमन्यापोहशब्दार्थानुसारछायामात्रेण परिहरामीति, तद्यथा-अन्यापोह इति चानन्यापोहो न भवतीति- अन्यविशेषणविशिष्टापोहस्यानन्यविशेषणविशिष्टापोहः प्रतिपक्षः स न भवतीत्यर्थः, स चान्योऽन्यस्मात् , अतोऽन्यापोह एवात्रापीति, अत्रोच्यतेइत्यपि न परिहार एव, कस्मात् ? अन्यापोह इत्यनन्याभावापोहो न भवतीति यतोऽर्थान्तरापोहेन स्वार्थेऽपोहे वृत्त्यर्थेऽन्यविशिष्टोऽपोह इति, किमुक्तं भवति-अनन्यस्याभावोऽन्यः अन्यस्य वाऽभावोऽनन्यः प्रतिपक्षः 10 तद्वदपोहम्यानपोहः प्रतिपक्षः, अनपोहस्यापोह इति भवति ।
तं दृष्टान्तत्वेन न्यायं दर्शयति
यथाऽपोह इत्यनपोहो न भवति तथा अन्यापोह इत्युक्तेऽन्याभावार्थान्यशब्दतायां सत्यामनन्याभावस्य व्यावृत्तेरपोहो भवतीत्यन्यापोहार्थः संवृत्तः, तस्य चेदनन्याभावस्यान्यस्यापोहो न भवति न त_नन्यस्यानपोहो न भवति तत्प्रतिपक्षत्वादनन्यानपोहस्येति, 15 तथेहानन्य इत्यन्यशब्दार्थे त्वदीयेऽन्यापोह इति नान्याभावस्यापोहो न भवति, किन्तु खाभावस्यापोहो न भवतीत्यन्यापोह एव न भवति, किन्तु अनन्यापोहः स्वापोह एवेत्यनिष्टः ते प्राप्तः, अन्यस्यैवापोहो नानन्यस्येत्यवधारणान्नैष दोष इति तन्न, तत्रापि कोऽन्यः ?
nam
घटादिवस्तु तदपि-अनन्यदपि, अन्यदपि, तस्य तत्त्वमन्यत्वञ्च स्वत एव, तत्त्वन्तु नान्यत्वमन्यत्वमपि न तत्त्वम् , तथा चानन्यद्रूपं तदपि स्वतः सिद्धान्यत्वादन्यदेव भवदनन्यदुच्यते त्वया, तथा चानन्यत्वमपि घटादिवस्तुनस्तत्त्वम् , अन्योऽनन्यो न 20 भवतीति वदता च त्वया तदपोह एव कृतः स्वापोह एव कृतो न परापोह इति खवचनविरोध इति भावः । अभ्युपगमादिविरोधानुद्भावयति-तथाभ्युपगमादिति, परापोहाभ्युपगमादित्यर्थः । स्वार्थप्रतीतेरिति, अन्यापोह इत्यत्रान्यपदात् स्वार्थप्रतीतेर्लोकेऽदृष्टत्वाल्लोकविरोध इति भावः । घटे दृष्टे पटादेरन्यस्यैव भेदानुभवात् प्रत्यक्षविरोध इत्याह-तथा प्रत्यक्षेति । तथैवानुभानादनुमानविरोधमाह-अनुमानेति । तत्त्वान्यत्वयोः स्वतस्वे निरपेक्षत्वेन विधिरूपतापत्तिः, न तु व्यावृत्तिरूपता सप्रतियोगिकत्वेन स्वतस्त्वविरोध इत्याशयेनाह-विधिवादेति । अर्थान्तरापोहं स्वार्थ कुर्वती श्रुतिरित्यादिलक्षणानुसारेणा-25 न्यापोहदूषणमुक्तमित्याह-इत्येवं तावदिति । ननु यथा घटादेरघटादिः प्रतिपक्षः, तदपोहः क्रियते, तथाऽन्यापोहस्य प्रतिपक्षोऽनन्यापोहः, तस्यापोहः क्रियते अनन्यापोहो न भवतीति चान्यस्मादन्य इत्यनन्यापोहोऽन्यापोह एवेति नोक्तदोषा इत्याशङ्कतेस्यान्मतमिति । परिहरति-इत्यपीति, स्वतःसिद्धान्यस्मादन्यत्वादनन्योऽन्यशब्देनोच्यते, तस्य प्रतिपक्षोऽनन्याभावः, तदपोहोऽन्यशब्दार्थः, न भवतीत्यपोहशब्दार्थः, तथाचानन्याभावापोहो न भवतीत्यन्यापोहशब्दार्थः । तदेव स भवतीति, अन्यस्य प्रतिपक्षोऽनन्याभावः, अन्याभावार्थान्यशब्दत्वात् , अनन्यस्य चान्याभावः प्रतिपक्षः, तथाऽनन्याभाव- 30 स्यान्यः, अन्याभावस्यानन्यः प्रतिपक्षः, अपोहस्यानपोहः, अनपोहस्यापोहः, प्रतिपक्षोऽर्थान्तरत्वादिति भावः । अन्यशब्दार्थोऽनन्यः, तत्प्रतिपक्षोऽनन्याभावस्तदपोहोऽर्थान्तरापोहं खार्थे कुर्वतीति न्यायेनान्यशब्दार्थः, तस्यापोहो न भवतीत्यनेन प्रतीयत इति अनन्याभावापोहो न भवतीत्यन्यापोहपदार्थ इत्यत्र न्यायं दृष्टान्तेन समीकरोति-यथापोह इति । यथाऽपोहशब्देनापोहप्रति
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org