________________
न्यायागमानुसारिणीव्याख्यासमेतम् [उभयनियमारे इतर आह
स्यादेतदेवं यद्यन्य एवान्यत्वे स्थितोऽनन्य उच्येत परापेक्षान्यत्वात् स एवान्य इति, किन्तर्हि स्वापेक्षान्यत्वादेव, योऽसौ तदतत्त्वातुल्यः स स्वतोऽन्यस्मादेवान्यस्मात् अन्यः सन्
घटात् पटानन्यत्ववदनन्यः, न हि घटस्य इतरापेक्षान्यत्ववदन्यत्वम् , पटस्य वाऽनन्यत्वं 5 घटान्यत्ववत् , यथोक्तद्वित्वतुल्यतायामपि तत एवात्मनोऽनन्यत्वं तत्त्वम् तस्मादन्यत्वमपि स्वत एव, अनन्यत्वमपि तथेति व्यवस्थिते भवत्यन्यापोह इति ।
(स्यादेतदेवमिति) स्यादेतदेवं यद्यन्य एवान्यत्वे स्थितोऽ[न]न्य उच्यते परापेक्षान्यत्वादनन्यः स एवान्य इति, किं तर्हि ? स्वापेक्षान्यत्व एवान्य इत्युच्यते, तद्भावयितुकाम आह-योऽसावित्यादि यावद् घटात् पटानन्यत्ववदनन्यत्वमिति, योऽसौ तस्यान्यस्यातद्भावेन-अतत्त्वेनातुल्यः आत्मीयेन स स्वतो10 ऽन्यस्मादेव अन्यस्मात्-आत्मान्यत्वा[द]न्यः सन् अ[न]न्य इत्युच्यते, निदर्शनं अतुल्यं हि घटस्यान्यत्वं पटा
द[न्य]स्मादन्यस्मात् , न हि घटस्येत्यादिना घटान्यत्वस्य पटानन्यत्वेनासंकरं दर्शयति, या[व]दितरान्यत्ववदन्यत्वम् , पटस्य वेत्यादिना पटा[न]न्यत्वस्य घटान्यत्वासङ्करं यावद्भूटान्यत्ववदिति भावितार्थमेष दृष्टान्तोऽयमर्थोपनयः यथोक्तद्वित्वतुल्यतायामपीत्यादि-त्वदुक्ता यो द्विष्ठत्वादन्यता-परस्परापेक्षता तस्यां तुल्यतायामपी
तरेतरापेक्षान्यतायां तत एव-स्वत एवात्मनोऽनन्यत्वं तत्त्वं स एव घटोऽनन्य[:]शेषः पूर्वेण तुल्योऽन्यत्वभा1B वनाग्रन्थेनासङ्करप्रदर्शनग्रन्थः, तस्मादन्यत्वमपि स्वत एव, अनन्यत्वमपि तथेति व्यवस्थिते भवत्यन्यापोह इति।
अत्रोच्यन्ते तव दोषाः
नन्वेवं सोऽपि अन्यस्मात् अन्य एव भवन् अनन्यो भवति, तस्यान्यस्य स्वात्मनि व्यवस्थितस्य तदनन्यत्वं तत्त्वमपोहमानोऽन्यापोहस्तदपोह एव भवति नान्यापोह इति स्ववचनाद्यशेषपक्षविरोधापत्तिः, विधिवादापत्तिश्चैवम् , अथान्यापोह इति चानन्योऽपोहो न 20 भवतीत्यपि न परिहार एव, अन्यापोह इत्यनन्याभावापोहो न भवति, यतोऽर्थान्तरापोहेन स्वार्थेऽपोहे वृत्त्यर्थेऽन्यविशिष्टोऽपोह इति,।
। नन्वेवमित्यादि यावत् स्ववचनाद्यशेषपक्षविरोधापत्तिरिति, नन्वित्यनुज्ञापयति परम् , नन्वित्थं नन्येऽवृत्तरन्य इत्युक्तेऽनन्यापोहोऽन्यापोहाद्भिन्नोऽर्थः स्यात्, न चैवमस्ति, अन्यान्यानन्ययोरभेदेनान्यशब्दस्यानन्येऽपि वृत्तेरनन्यो न भवतीत्यनेनान्यापोह एवोक्तः स्यादित्यन्यशब्दस्य यः स्वार्थस्तस्यैवापोहः कृतः स्यादिति भावः । अन्योऽन्यः सन्ननन्य इति यदुक्तं 25 तत्रेतरः शङ्कते-स्यादेतदेवमिति । व्याचष्टे-यद्यन्य इति, अन्यः परापेक्षान्यत्वान्नानन्यः, किन्तु खापेक्षान्यत्वादनन्य इति भावः । इदमेव स्फुटीकरोति-योऽसाविति, अन्यस्य ह्यनन्यत्वं न तत्त्वमत एवातुल्यमन्यत्वमनन्यत्वेन, अतुल्यत्वादेव ततो नानन्य उच्यते, किन्तु स्वतोऽन्यस्मादेवान्यस्मात् , यथा घट इत्यत्र घटान्यत्वपटानन्यत्वयोर्न तुल्यत्वम् , तथा चान्यत्वानन्यत्वयोः न परस्परापेक्षत्वं किन्तु खत एवेति भावः। तत्रान्यतायाः परानपेक्षत्वं दर्शयति-न हि घटस्येत्यादिनेति अन्यापेक्षया स इति, तदपेक्षयाऽन्य इति तदन्ययोः परस्परापेक्षतायां तुल्यतायामपि अनन्यत्वं स्वत एव न तु परापेक्षमित्याह-यथोक्त30 द्वित्वेति, अन्यापेक्षया सः, तदपेक्षयाऽन्य इति तयोर्द्वयोरपि स्वरूपतः सिौ द्विष्ठं तदन्यत्वं सिद्ध्यति, तस्मात् स्वत एवान्यत्वं तत्वञ्च वस्तुनः, अन्यथा तदन्ययोः स्वरूपाग्रहात् कोऽसावन्यः यदपोहादन्यापोहः स्यात् , कुतो वाऽन्यो न भवतीति सर्व पूर्ववदिति भावः । पर्यवसितमाह-तस्मादन्यत्वमिति । एवं वादिनोक्के समाधत्ते-नन्वेवमिति । व्याचष्टे-नन्वितीति,
१ सि.क्ष. छा. पटादन्यः । २ सि. क्ष. छा. तद्विशिष्टत्वा० ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org