________________
अन्यापोहशब्दार्थः]
द्वादशारनयचक्रम् न भवति, किं तर्हि ? ततो अन्यस्मादन्योऽनन्यो न भवति, अन्यापोहशब्दार्थव्यापित्वात् व्यावृत्त्यैव गमयति, अतो न विधिप्रसङ्गोऽभावमात्रं वेत्यत्रोच्यते-यद्यन्य इत्यनन्यो न भवति ततोऽन्यस्यैवानुवदनादित्यादि यावदतुल्येऽन्यस्मिन्नवृत्तेरित्युत्तरपक्षः, किमुक्तं भवति योऽयमन्यः सोऽन्य एव सन् अ[न]न्य उच्यते स एव-अनन्यएव-स्वयमेव भवति परमनपेक्ष्येत्यर्थः, ततः किं ? ततो योऽसावनन्यो नाम सोऽन्य एव स. एवान्याख्योऽन्यः सन्ननन्य इत्युक्तं भवति, तस्मात्तस्यैव-अन्यत्वस्यानन्यशब्देनाप्यनुवदनात् कोऽसावन्यः । पृथक् ? ततोऽन्यस्मादनन्यो नाम नास्तीत्यर्थः, यदि स्यात् परापेक्षः स्यादिति निरूपयति-अन्यान्यत्वतदनन्यत्वातुल्यः शब्दार्थ इति-अन्यस्मादन्योऽन्यान्यः, तद्भावोऽन्यान्यत्वं, तस्माद्भिन्नेनानन्यत्वेनातुल्यः अन्याऽन्यत्वात् , कोऽसौ अन्यान्यत्वतदनन्यत्वातुल्यः ? शब्दार्थः, यथा वैधhण घट इत्युक्तेऽघटो नान्यतदनन्यातुल्यो दृश्यते-पटादिरपोह्यः घटशब्देन, न तथेह कश्चिदन्यशब्देन भिन्नोऽनन्योऽस्ति, यतोऽस्मा[द]न्यस्य-अन्यान्यस्माद्भिन्नस्य पैटवदवृत्तिः स्यात् , अन्यान्यापेक्षत्वाद[न]न्यत्वस्य, स च नास्तीत्थम् , 10 किच्चान्यत्-अन्यशब्दार्थस्य चेत्यादि, अन्यापोहेनायं दर्शयति, यदा चान्यशब्दार्थादनन्यशब्दार्थो भिन्नो भवति तस्माच्चान्यशब्दार्थः, तदाऽन्य इत्युक्तेऽनन्यो न भवतीत्यपोहार्थो विधिभिन्नः स्यात्, किं कारणं ? अतुल्येऽन्यस्मिन्नवृत्तेः, घटपटवत्, न त्वस्त्यन्यस्यैवान्यस्यानन्यत्वात् , तस्मात् स्वार्थापोह एव स्यात् ।
mmmmmwwww
क्रियते, अन्यस्मादन्यो ह्यनन्यस्तव्यावृत्तिः क्रियत इति व्यावृत्तिरूपेण वस्तुनो बोधनान्नोक्तदोषप्रसङ्ग इति भावः । समाधत्ते-यद्यन्य इतीति, यद्यन्यस्मिन्ननन्यो न भवतीत्युच्यते तर्हि तेनान्यत्वमेवानूदितं भवति, अन्यस्मादन्यस्यैवानन्यत्वादिति भावः । 15 तत्कथमित्यत्राह-किमुक्तं भवतीति, अन्यपदार्थोऽन्य एव सन्ननन्यो भवति, अत्रानन्यो ह्यन्य एव, अन्यस्मादन्यस्यैवानन्यत्वात् ततश्चान्य एवं प्रतियोगी, स च ख एवेति परानपेक्षं स्वतो भवनरूपमनन्यत्वं निष्प्रतियोगिकमनन्यत्वमिति यावत्, एवञ्चानन्यान्यशब्दार्थयोरपृथग्भावः, अनन्यशब्देनाप्यन्यत्वस्यैवानुवदनात्, अन्यस्मादन्यस्यैवानन्यशब्दार्थत्वात् ततश्चान्यपदार्थाद्भिन्नस्यानन्यपदार्थस्याभावेनान्याख्योऽर्थः अनन्यो न भवतीति रिक्तं वच इति भावः । योऽयमन्य इति, अनेनान्यस्मिन्ननन्यताऽऽपादिता । ततो योऽसाविति, अनेन चानन्येऽन्यताऽऽपादिता, योऽसावन्यः स अन्यत्वे सन्नेव खयमेवानन्यो भवति न तु परमपेक्ष्यानन्यो 20 भवति, ततश्च योऽसावनन्यः सोऽन्य एव सन् स्वत एवानन्यो भवति, ततश्चान्यशब्दार्थानन्यशब्दार्थयोरपृथग्भाव इति भावः। यद्यन्यस्मादनन्यपदार्थो भिन्नः स्यात्तर्हि परापेक्षः स्यादित्याह-यदि स्यादिति । वात्मनि व्यवस्थितस्यान्यस्य यद्यनन्यत्वं तत्त्वं न स्यात्तर्धनन्यत्वं परापेक्षं स्यात् , स्वतः सिद्धान्यपदार्थव्यतिरिक्तत्वात् , अन्यप्रतियोगिकं यदन्यत्वं तदेवानन्यत्वमतः प्रतियोग्यप्यन्य एव स्वात्मकानन्यरूपः, तस्मादत्र परत्वमन्यव्यतिरिक्तं ग्राह्य तदपेक्षं स्यात् , अन्यव्यतिरिक्तप्रतियोग्यपेक्षमनन्यत्वं स्यादिति भावः । एतदेवाह-अन्यान्यत्वेति, अन्यान्यत्वतदनन्यत्वाभ्यां शब्दार्थों न तुल्यो न समानः, अन्यान्यत्वं हि स्वापेक्षं तदनन्यत्वन्तु 25 अन्यव्यतिरिक्त प्रतियोग्यपेक्षमिति अन्यस्मादन्यस्यान्यान्यत्वं तदनन्यत्वञ्च धर्मों तत्रान्यान्यत्वं स्वापेक्षान्यत्वं तदनन्यत्वन्तु परापेक्षान्यत्वरूपमिति भावः । व्याचष्टे अन्य स्मादिति, अन्यस्माद्यद्यनन्यो व्यतिरिक्तस्तदाऽनन्यादन्यो न समानो व्यतिरिक्तत्वादिति भावः । तत्र वैधर्म्यदृष्टान्तमाह-यथा वैधयेणेति, घट इत्युक्ते घट शब्देनापोह्यो योऽघटः पटादिः सोऽन्यतदनन्याभ्यां समानः, घटान्यपटानन्ययोस्समानतेति यावत् । न तथेहेति, अन्यशब्देनापोह्यो अन्यस्मात् भिन्नोऽनन्यो नाम न कश्चिदस्ति येनान्यशब्दोऽतुल्येऽनन्येऽवृत्तिः स्यात् , अनन्यशब्दोऽप्यन्यस्मिन्नवृत्तिः स्यात्, यथा घटः पटे पटो वा घटे न वर्तते तथेति परन्तु 30 तथा नास्तीति भावः । अन्यानन्ययोरभेदे दोषान्तरमाह-यदा चान्येति, अन्यशब्दार्थानन्यशब्दार्थयोर्भेदे सति अन्यशब्दस्या
१ सि. क्ष. छा. शब्देनाभिन्नो० । २ सि. क्ष. छा. यतोस्मान्यस्य । ३ सि. क्ष. छा. घटव० । ४ सि. क्ष. छा. अन्योन्यापेक्षत्वादन्यत्वस्य ।
द्वा० ३४ (१११)
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org