________________
न्यायागमानुसारिणीव्याख्यासमेतम् [उभयनियमारे त्तिरेव न कश्चिद्विधिगन्धोऽपीत्यन्यथावृत्तेरभवनपरमार्थत्वादात्मान्यत्वाभावः, ततश्चाभूतस्वान्यत्वाद्वन्ध्यापुत्रवदविषय एव, स च निबन्धनमन्यापोहस्य स्यात् ततश्चाप्रतिपत्तिरेव वन्ध्यापुत्राप्रतिपत्तिवत् ।
एवन्त्वित्यादि, इत्थमुक्तन्यायेन न स कश्चिदर्थो भविता-न कदाचित्ताहविधो भवति, 5 अन्योऽप्यन्यो न भवति, सोऽपि स[न]भवतीति, उभयतोऽप्यभावप्रसङ्गात् स्वार्थस्यांशोऽपि-गन्धोऽपि न दृश्यत एव, एतस्यार्थस्य भावना--अन्यो न भवतीत्युच्यमाने किं सम्प्रवृत्तं ? उभयतोऽपि न भवति न भवतीति, अन्यस्याव्यावृत्तिरेव, न कश्चिद्विधिगन्धोऽपीति, अतोऽन्यथावृत्तेर्हेतोरभवनमेव परमार्थः, तत्परमार्थत्वादात्मान्यत्वाभावः, ततश्चाभूतस्वान्यत्वाद्वन्ध्यापुत्रवदविषय एव, न हि वंध्यापुत्रादिरभावः शब्दार्थो
भवितुमर्हति, स चाभावस्तेऽन्यापोहस्य निबन्धनं प्राप्तः, ततश्चाप्रतिपत्तिरेव स्यात् , शब्दार्थस्यात्यन्ताभाव10 निबन्धनत्वात्, वन्ध्यापुत्राप्रतिपत्तिवत् , एवं तावद्यदि स एव भवति अन्यो न भवतीति च विकल्पयोविधिवादप्रसङ्गोऽन्यापोहनैर्मूल्यञ्चोक्तौ दोषौ ।
अथ तद्दोषद्वयपरिहारार्थः
अथोच्येतान्योऽप्यनन्यो न भवति, अन्यापोहशब्दार्थव्यापित्वात् व्यावृत्त्यैव गमयतीति, अत्रोच्यते यद्यन्य इत्यनन्यो न भवति ततोऽन्यस्यैवानुवदनात् किमुक्तं भवति 10 योऽयमन्यः सोऽन्य एव सन्ननन्य उच्यते, स एव स्वयमेव भवति ततो योऽसावनन्यो नाम सोऽन्य एव सन्ननन्य इत्युक्तं भवति, तस्मात्तस्यैवानन्यशब्देनाप्यनुवदनात् कोऽसावन्यः पृथक् ? यद्यर्थान्तरं स्यादन्यान्यत्वतदनन्यत्वात्तुल्यः शब्दार्थः स्यात् यथा वैधये॒ण घट इत्युक्तेऽघटो नान्यतदनन्यातुल्यो दृश्यते न तथेह कश्चिदनन्यशब्देनाभिन्नोऽनन्योऽस्ति, यतोऽस्यान्यान्यस्माद्भिन्नस्य पटवदवृत्तिः स्यात् , अन्योऽन्यापेक्षत्वादन्यत्वस्य, अन्यश20 ब्दार्थस्य चानन्यशब्दार्थाद्भिन्नत्वेऽन्य इत्युक्तेऽनन्यो न भवतीत्यपोहार्थो विधिर्भिन्नः स्यात्, अतुल्येऽन्यस्मिन्नवृत्तेः, घटपटवत्, न त्वस्ति, अन्यस्यैवान्यस्यानन्यत्वात् ।
(अथोच्येतेति) अथोच्येत, अन्योऽप्यनन्यो न भवति-अन्य इति न स एव भवति, नाप्यन्यो
इन्थमुक्कन्यायेनेति, घटादन्यः पट इत्युक्ते पटः घटो न भवति, एवं पटादन्यो घट इति घटोऽपि पटो न भवतीति घटपट। योद्वयोरपि न भवति न भवतीति व्यावृत्तिमात्रेऽवस्थितत्वात्तयोः स्वरूपमसिद्धमेव तद्वदेव तदन्ययोरन्यत्वप्रतियोग्यनुयोगिनोः 25 स्वरूपतो ग्रहणासम्भवादन्यापोहार्थनैर्मूल्यमिति भावः । स्वार्थस्यांशेऽप्यदर्शनादिति पादं व्याचष्टे-स्वार्थस्यांशोऽपीति, विधि
गन्धस्याप्यदर्शनादिति भावः । तदेव भावयति-अन्यो न भवतीति अन्यापोहस्यान्यो न भवतीत्यर्थे उच्यमानेऽन्यस्याव्यावृत्तिरेव भवेत्, तत्तदन्ययोः स्वरूपासिद्धावुभयविषयान्यताग्रहाभावात् एवञ्चान्यताया अव्यावृत्त्या क्वापि विधिरूपता न सिद्ध्येत्, तथा च तस्य तद्रूपतयाऽन्यस्यान्यरूपतयाऽवृत्तेग्न्यथावृत्तित्वं तयोः, तस्मादभवन मेव परमेऽर्थः संवृत्तः, अभवनपरमार्थत्वाच
अन्यत्वमपि नास्ति, अभूतस्वात्मान्यत्वाद्वन्ध्यापुत्रवदविषय एव शब्दः स्यात्, न ह्यभावः शब्दार्थों भवितुमर्हति, 30 ततश्च शब्दान्न कस्याप्यर्थस्य प्रतिपत्तिः स्यादिति भावः । एवमन्याख्योऽर्थः स एव भवति, अन्यो वा न भवतीति विकल्पयार्विधि
वादप्रसङ्गोऽन्यापोहार्थनेर्मूल्यं वा स्यादित्युपसंहरति-एवं तावदिति । प्रोक्तदोषद्वयपरिहारायान्यापोहवादी शङ्कते-अथोच्येतेति । व्याच2-अन्योऽपीति, अन्यस्मिन् तत्त्वमन्यत्वस्य व्यावृत्तिर्वा नोच्यते किन्तु अन्यप्रतियोगिकान्यताया व्यावृत्तिः
_Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org